वैशम्पायन उवाच || 001
तं भुक्तवन्तमाश्वस्तं निशायां विदुरोऽब्रवीत् | 001a
नेदं सम्यग्व्यवसितं केशवागमनं तव || 001c
अर्थधर्मातिगो मूढः संरम्भी च जनार्दन | 002a
मानघ्नो मानकामश्च वृद्धानां शासनातिगः || 002c
धर्मशास्त्रातिगो मन्दो दुरात्मा प्रग्रहं गतः | 003a
अनेयः श्रेयसां पापो धार्तराष्ट्रो जनार्दन || 003c
कामात्मा प्राज्ञमानी च मित्रध्रुक्सर्वशङ्कितः | 004a
अकर्ता चाकृतज्ञश्च त्यक्तधर्मः प्रियानृतः || 004c
एतैश्चान्यैश्च बहुभिर्दोषैरेष समन्वितः | 005a
त्वयोच्यमानः श्रेयोऽपि संरम्भान्न ग्रहीष्यति || 005c
सेनासमुदयं दृष्ट्वा पार्थिवं मधुसूदन | 006a
कृतार्थं मन्यते बाल आत्मानमविचक्षणः || 006c
एकः कर्णः पराञ्जेतुं समर्थ इति निश्चितम् | 007a
धार्तराष्ट्रस्य दुर्बुद्धेः स शमं नोपयास्यति || 007c
भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे जयद्रथे | 008a
भूयसीं वर्तते वृत्तिं न शमे कुरुते मनः || 008c
निश्चितं धार्तराष्ट्राणां सकर्णानां जनार्दन | 009a
भीष्मद्रोणकृपान्पार्था न शक्ताः प्रतिवीक्षितुम् || 009c
संविच्च धार्तराष्ट्राणां सर्वेषामेव केशव | 010a
शमे प्रयतमानस्य तव सौभ्रात्रकाङ्क्षिणः || 010c
न पाण्डवानामस्माभिः प्रतिदेयं यथोचितम् | 011a
इति व्यवसितास्तेषु वचनं स्यान्निरर्थकम् || 011c
यत्र सूक्तं दुरुक्तं च समं स्यान्मधुसूदन | 012a
न तत्र प्रलपेत्प्राज्ञो बधिरेष्विव गायनः || 012c
अविजानत्सु मूढेषु निर्मर्यादेषु माधव | 013a
न त्वं वाक्यं ब्रुवन्युक्तश्चाण्डालेषु द्विजो यथा || 013c
सोऽयं बलस्थो मूढश्च न करिष्यति ते वचः | 014a
तस्मिन्निरर्थकं वाक्यमुक्तं सम्पत्स्यते तव || 014c
तेषां समुपविष्टानां सर्वेषां पापचेतसाम् | 015a
तव मध्यावतरणं मम कृष्ण न रोचते || 015c
दुर्बुद्धीनामशिष्टानां बहूनां पापचेतसाम् | 016a
प्रतीपं वचनं मध्ये तव कृष्ण न रोचते || 016c
अनुपासितवृद्धत्वाच्छ्रिया मोहाच्च दर्पितः | 017a
वयोदर्पादमर्षाच्च न ते श्रेयो ग्रहीष्यति || 017c
बलं बलवदप्यस्य यदि वक्ष्यसि माधव | 018a
त्वय्यस्य महती शङ्का न करिष्यति ते वचः || 018c
नेदमद्य युधा शक्यमिन्द्रेणापि सहामरैः | 019a
इति व्यवसिताः सर्वे धार्तराष्ट्रा जनार्दन || 019c
तेष्वेवमुपपन्नेषु कामक्रोधानुवर्तिषु | 020a
समर्थमपि ते वाक्यमसमर्थं भविष्यति || 020c
मध्ये तिष्ठन्हस्त्यनीकस्य मन्दो रथाश्वयुक्तस्य बलस्य मूढः | 021a
दुर्योधनो मन्यते वीतमन्युः कृत्स्ना मयेयं पृथिवी जितेति || 021c
आशंसते धृतराष्ट्रस्य पुत्रो महाराज्यमसपत्नं पृथिव्याम् | 022a
तस्मिञ्शमः केवलो नोपलभ्यो बद्धं सन्तमागतं मन्यतेऽर्थम् || 022c
पर्यस्तेयं पृथिवी कालपक्वा दुर्योधनार्थे पाण्डवान्योद्धुकामाः | 023a
समागताः सर्वयोधाः पृथिव्यां राजानश्च क्षितिपालैः समेताः || 023c
सर्वे चैते कृतवैराः पुरस्तात्त्वया राजानो हृतसाराश्च कृष्ण | 024a
तवोद्वेगात्संश्रिता धार्तराष्ट्रान्सुसंहताः सह कर्णेन वीराः || 024c
त्यक्तात्मानः सह दुर्योधनेन सृष्टा योद्धुं पाण्डवान्सर्वयोधाः | 025a
तेषां मध्ये प्रविशेथा यदि त्वं न तन्मतं मम दाशार्ह वीर || 025c
तेषां समुपविष्टानां बहूनां दुष्टचेतसाम् | 026a
कथं मध्यं प्रपद्येथाः शत्रूणां शत्रुकर्शन || 026c
सर्वथा त्वं महाबाहो देवैरपि दुरुत्सहः | 027a
प्रभावं पौरुषं बुद्धिं जानामि तव शत्रुहन् || 027c
या मे प्रीतिः पाण्डवेषु भूयः सा त्वयि माधव | 028a
प्रेम्णा च बहुमानाच्च सौहृदाच्च ब्रवीम्यहम् || 028c