वैशम्पायन उवाच || 001
पृथामामन्त्र्य गोविन्दः कृत्वा चापि प्रदक्षिणम् | 001a
दुर्योधनगृहं शौरिरभ्यगच्छदरिन्दमः || 001c
लक्ष्म्या परमया युक्तं पुरन्दरगृहोपमम् | 002a
तस्य कक्ष्या व्यतिक्रम्य तिस्रो द्वाःस्थैरवारितः || 002c
ततोऽभ्रघनसङ्काशं गिरिकूटमिवोच्छ्रितम् | 003a
श्रिया ज्वलन्तं प्रासादमारुरोह महायशाः || 003c
तत्र राजसहस्रैश्च कुरुभिश्चाभिसंवृतम् | 004a
धार्तराष्ट्रं महाबाहुं ददर्शासीनमासने || 004c
दुःशासनं च कर्णं च शकुनिं चापि सौबलम् | 005a
दुर्योधनसमीपे तानासनस्थान्ददर्श सः || 005c
अभ्यागच्छति दाशार्हे धार्तराष्ट्रो महायशाः | 006a
उदतिष्ठत्सहामात्यः पूजयन्मधुसूदनम् || 006c
समेत्य धार्तराष्ट्रेण सहामात्येन केशवः | 007a
राजभिस्तत्र वार्ष्णेयः समागच्छद्यथावयः || 007c
तत्र जाम्बूनदमयं पर्यङ्कं सुपरिष्कृतम् | 008a
विविधास्तरणास्तीर्णमभ्युपाविशदच्युतः || 008c
तस्मिन्गां मधुपर्कं च उपहृत्य जनार्दने | 009a
निवेदयामास तदा गृहान्राज्यं च कौरवः || 009c
तत्र गोविन्दमासीनं प्रसन्नादित्यवर्चसम् | 010a
उपासां चक्रिरे सर्वे कुरवो राजभिः सह || 010c
ततो दुर्योधनो राजा वार्ष्णेयं जयतां वरम् | 011a
न्यमन्त्रयद्भोजनेन नाभ्यनन्दच्च केशवः || 011c
ततो दुर्योधनः कृष्णमब्रवीद्राजसंसदि | 012a
मृदुपूर्वं शठोदर्कं कर्णमाभाष्य कौरवः || 012c
कस्मादन्नानि पानानि वासांसि शयनानि च | 013a
त्वदर्थमुपनीतानि नाग्रहीस्त्वं जनार्दन || 013c
उभयोश्चाददः साह्यमुभयोश्च हिते रतः | 014a
सम्बन्धी दयितश्चासि धृतराष्ट्रस्य माधव || 014c
त्वं हि गोविन्द धर्मार्थौ वेत्थ तत्त्वेन सर्वशः | 015a
तत्र कारणमिच्छामि श्रोतुं चक्रगदाधर || 015c
स एवमुक्तो गोविन्दः प्रत्युवाच महामनाः | 016a
ओघमेघस्वनः काले प्रगृह्य विपुलं भुजम् || 016c
अनम्बूकृतमग्रस्तमनिरस्तमसङ्कुलम् | 017a
राजीवनेत्रो राजानं हेतुमद्वाक्यमुत्तमम् || 017c
कृतार्था भुञ्जते दूताः पूजां गृह्णन्ति चैव हि | 018a
कृतार्थं मां सहामात्यस्त्वमर्चिष्यसि भारत || 018c
एवमुक्तः प्रत्युवाच धार्तराष्ट्रो जनार्दनम् | 019a
न युक्तं भवतास्मासु प्रतिपत्तुमसाम्प्रतम् || 019c
कृतार्थं चाकृतार्थं च त्वां वयं मधुसूदन | 020a
यतामहे पूजयितुं गोविन्द न च शक्नुमः || 020c
न च तत्कारणं विद्मो यस्मिन्नो मधुसूदन | 021a
पूजां कृतां प्रीयमाणैर्नामंस्थाः पुरुषोत्तम || 021c
वैरं नो नास्ति भवता गोविन्द न च विग्रहः | 022a
स भवान्प्रसमीक्ष्यैतन्नेदृशं वक्तुमर्हति || 022c
एवमुक्तः प्रत्युवाच धार्तराष्ट्रं जनार्दनः | 023a
अभिवीक्ष्य सहामात्यं दाशार्हः प्रहसन्निव || 023c
नाहं कामान्न संरम्भान्न द्वेषान्नार्थकारणात् | 024a
न हेतुवादाल्लोभाद्वा धर्मं जह्यां कथञ्चन || 024c
सम्प्रीतिभोज्यान्यन्नानि आपद्भोज्यानि वा पुनः | 025a
न च सम्प्रीयसे राजन्न चाप्यापद्गता वयम् || 025c
अकस्माद्द्विषसे राजञ्जन्मप्रभृति पाण्डवान् | 026a
प्रियानुवर्तिनो भ्रातॄन्सर्वैः समुदितान्गुणैः || 026c
अकस्माच्चैव पार्थानां द्वेषणं नोपपद्यते | 027a
धर्मे स्थिताः पाण्डवेयाः कस्तान्किं वक्तुमर्हति || 027c
यस्तान्द्वेष्टि स मां द्वेष्टि यस्ताननु स मामनु | 028a
ऐकात्म्यं मां गतं विद्धि पाण्डवैर्धर्मचारिभिः || 028c
कामक्रोधानुवर्ती हि यो मोहाद्विरुरुत्सते | 029a
गुणवन्तं च यो द्वेष्टि तमाहुः पुरुषाधमम् || 029c
यः कल्याणगुणाञ्ज्ञातीन्मोहाल्लोभाद्दिदृक्षते | 030a
सोऽजितात्माजितक्रोधो न चिरं तिष्ठति श्रियम् || 030c
अथ यो गुणसम्पन्नान्हृदयस्याप्रियानपि | 031a
प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति || 031c
सर्वमेतदभोक्तव्यमन्नं दुष्टाभिसंहितम् | 032a
क्षत्तुरेकस्य भोक्तव्यमिति मे धीयते मतिः || 032c
एवमुक्त्वा महाबाहुर्दुर्योधनममर्षणम् | 033a
निश्चक्राम ततः शुभ्राद्धार्तराष्ट्रनिवेशनात् || 033c
निर्याय च महाबाहुर्वासुदेवो महामनाः | 034a
निवेशाय ययौ वेश्म विदुरस्य महात्मनः || 034c
तमभ्यगच्छद्द्रोणश्च कृपो भीष्मोऽथ बाह्लिकः | 035a
कुरवश्च महाबाहुं विदुरस्य गृहे स्थितम् || 035c
तेऽभिगम्याब्रुवंस्तत्र कुरवो मधुसूदनम् | 036a
निवेदयामो वार्ष्णेय सरत्नांस्ते गृहान्वयम् || 036c
तानुवाच महातेजाः कौरवान्मधुसूदनः | 037a
सर्वे भवन्तो गच्छन्तु सर्वा मेऽपचितिः कृता || 037c
यातेषु कुरुषु क्षत्ता दाशार्हमपराजितम् | 038a
अभ्यर्चयामास तदा सर्वकामैः प्रयत्नवान् || 038c
ततः क्षत्तान्नपानानि शुचीनि गुणवन्ति च | 039a
उपाहरदनेकानि केशवाय महात्मने || 039c
तैर्तर्पयित्वा प्रथमं ब्राह्मणान्मधुसूदनः | 040a
वेदविद्भ्यो ददौ कृष्णः परमद्रविणान्यपि || 040c
ततोऽनुयायिभिः सार्धं मरुद्भिरिव वासवः | 041a
विदुरान्नानि बुभुजे शुचीनि गुणवन्ति च || 041c