वैशम्पायन उवाच || 01
अथोपगम्य विदुरमपराह्णे जनार्दनः | 01a
पितृष्वसारं गोविन्दः सोऽभ्यगच्छदरिन्दमः || 01c
सा दृष्ट्वा कृष्णमायान्तं प्रसन्नादित्यवर्चसम् | 02a
कण्ठे गृहीत्वा प्राक्रोशत्पृथा पार्थाननुस्मरन् || 02c
तेषां सत्त्ववतां मध्ये गोविन्दं सहचारिणम् | 03a
चिरस्य दृष्ट्वा वार्ष्णेयं बाष्पमाहारयत्पृथा || 03c
साब्रवीत्कृष्णमासीनं कृतातिथ्यं युधां पतिम् | 04a
बाष्पगद्गदपूर्णेन मुखेन परिशुष्यता || 04c
ये ते बाल्यात्प्रभृत्येव गुरुशुश्रूषणे रताः | 05a
परस्परस्य सुहृदः सम्मताः समचेतसः || 05c
निकृत्या भ्रंशिता राज्याज्जनार्हा निर्जनं गताः | 06a
विनीतक्रोधहर्षाश्च ब्रह्मण्याः सत्यवादिनः || 06c
त्यक्त्वा प्रियसुखे पार्था रुदन्तीमपहाय माम् | 07a
अहार्षुश्च वनं यान्तः समूलं हृदयं मम || 07c
अतदर्हा महात्मानः कथं केशव पाण्डवाः | 08a
ऊषुर्महावने तात सिंहव्याघ्रगजाकुले || 08c
बाला विहीनाः पित्रा ते मया सततलालिताः | 09a
अपश्यन्तः स्वपितरौ कथमूषुर्महावने || 09c
शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गैर्वैणवैरपि | 10a
पाण्डवाः समबोध्यन्त बाल्यात्प्रभृति केशव || 10c
ये स्म वारणशब्देन हयानां हेषितेन च | 11a
रथनेमिनिनादैश्च व्यबोध्यन्त सदा गृहे || 11c
शङ्खभेरीनिनादेन वेणुवीणानुनादिना | 12a
पुण्याहघोषमिश्रेण पूज्यमाना द्विजातिभिः || 12c
वस्त्रै रत्नैरलङ्कारैः पूजयन्तो द्विजन्मनः | 13a
गीर्भिर्मङ्गलयुक्ताभिर्ब्राह्मणानां महात्मनाम् || 13c
अर्चितैरर्चनार्हैश्च स्तुवद्भिरभिनन्दिताः | 14a
प्रासादाग्रेष्वबोध्यन्त राङ्कवाजिनशायिनः || 14c
ते नूनं निनदं श्रुत्वा श्वापदानां महावने | 15a
न स्मोपयान्ति निद्रां वै अतदर्हा जनार्दन || 15c
भेरीमृदङ्गनिनदैः शङ्खवैणवनिस्वनैः | 16a
स्त्रीणां गीतनिनादैश्च मधुरैर्मधुसूदन || 16c
बन्दिमागधसूतैश्च स्तुवद्भिर्बोधिताः कथम् | 17a
महावने व्यबोध्यन्त श्वापदानां रुतेन ते || 17c
ह्रीमान्सत्यधृतिर्दान्तो भूतानामनुकम्पिता | 18a
कामद्वेषौ वशे कृत्वा सतां वर्त्मानुवर्तते || 18c
अम्बरीषस्य मान्धातुर्ययातेर्नहुषस्य च | 19a
भरतस्य दिलीपस्य शिबेरौशीनरस्य च || 19c
राजर्षीणां पुराणानां धुरं धत्ते दुरुद्वहाम् | 20a
शीलवृत्तोपसम्पन्नो धर्मज्ञः सत्यसङ्गरः || 20c
राजा सर्वगुणोपेतस्त्रैलोक्यस्यापि यो भवेत् | 21a
अजातशत्रुर्धर्मात्मा शुद्धजाम्बूनदप्रभः || 21c
श्रेष्ठः कुरुषु सर्वेषु धर्मतः श्रुतवृत्ततः | 22a
प्रियदर्शनो दीर्घभुजः कथं कृष्ण युधिष्ठिरः || 22c
यः स नागायुतप्राणो वातरंहा वृकोदरः | 23a
अमर्षी पाण्डवो नित्यं प्रियो भ्रातुः प्रियङ्करः || 23c
कीचकस्य च सज्ञातेर्यो हन्ता मधुसूदन | 24a
शूरः क्रोधवशानां च हिडिम्बस्य बकस्य च || 24c
पराक्रमे शक्रसमो वायुवेगसमो जवे | 25a
महेश्वरसमः क्रोधे भीमः प्रहरतां वरः || 25c
क्रोधं बलममर्षं च यो निधाय परन्तपः | 26a
जितात्मा पाण्डवोऽमर्षी भ्रातुस्तिष्ठति शासने || 26c
तेजोराशिं महात्मानं बलौघममितौजसम् | 27a
भीमं प्रदर्शनेनापि भीमसेनं जनार्दन | 27c
तं ममाचक्ष्व वार्ष्णेय कथमद्य वृकोदरः || 27e
आस्ते परिघबाहुः स मध्यमः पाण्डवोऽच्युत | 28a
अर्जुनेनार्जुनो यः स कृष्ण बाहुसहस्रिणा | 28c
द्विबाहुः स्पर्धते नित्यमतीतेनापि केशव || 28e
क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः | 29a
इष्वस्त्रे सदृशो राज्ञः कार्तवीर्यस्य पाण्डवः || 29c
तेजसादित्यसदृशो महर्षिप्रतिमो दमे | 30a
क्षमया पृथिवीतुल्यो महेन्द्रसमविक्रमः || 30c
आधिराज्यं महद्दीप्तं प्रथितं मधुसूदन | 31a
आहृतं येन वीर्येण कुरूणां सर्वराजसु || 31c
यस्य बाहुबलं घोरं कौरवाः पर्युपासते | 32a
स सर्वरथिनां श्रेष्ठः पाण्डवः सत्यविक्रमः || 32c
योऽपाश्रयः पाण्डवानां देवानामिव वासवः | 33a
स ते भ्राता सखा चैव कथमद्य धनञ्जयः || 33c
दयावान्सर्वभूतेषु ह्रीनिषेधो महास्त्रवित् | 34a
मृदुश्च सुकुमारश्च धार्मिकश्च प्रियश्च मे || 34c
सहदेवो महेष्वासः शूरः समितिशोभनः | 35a
भ्रातॄणां कृष्ण शुश्रूषुर्धर्मार्थकुशलो युवा || 35c
सदैव सहदेवस्य भ्रातरो मधुसूदन | 36a
वृत्तं कल्याणवृत्तस्य पूजयन्ति महात्मनः || 36c
ज्येष्ठापचायिनं वीरं सहदेवं युधां पतिम् | 37a
शुश्रूषुं मम वार्ष्णेय माद्रीपुत्रं प्रचक्ष्व मे || 37c
सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः | 38a
भ्रातॄणां कृष्ण सर्वेषां प्रियः प्राणो बहिश्चरः || 38c
चित्रयोधी च नकुलो महेष्वासो महाबलः | 39a
कच्चित्स कुशली कृष्ण वत्सो मम सुखैधितः || 39c
सुखोचितमदुःखार्हं सुकुमारं महारथम् | 40a
अपि जातु महाबाहो पश्येयं नकुलं पुनः || 40c
पक्ष्मसम्पातजे काले नकुलेन विनाकृता | 41a
न लभामि सुखं वीर साद्य जीवामि पश्य माम् || 41c
सर्वैः पुत्रैः प्रियतमा द्रौपदी मे जनार्दन | 42a
कुलीना शीलसम्पन्ना सर्वैः समुदिता गुणैः || 42c
पुत्रलोकात्पतिलोकान्वृण्वाना सत्यवादिनी | 43a
प्रियान्पुत्रान्परित्यज्य पाण्डवानन्वपद्यत || 43c
महाभिजनसम्पन्ना सर्वकामैः सुपूजिता | 44a
ईश्वरी सर्वकल्याणी द्रौपदी कथमच्युत || 44c
पतिभिः पञ्चभिः शूरैरग्निकल्पैः प्रहारिभिः | 45a
उपपन्ना महेष्वासैर्द्रौपदी दुःखभागिनी || 45c
चतुर्दशमिमं वर्षं यन्नापश्यमरिन्दम | 46a
पुत्राधिभिः परिद्यूनां द्रौपदीं सत्यवादिनीम् || 46c
न नूनं कर्मभिः पुण्यैरश्नुते पुरुषः सुखम् | 47a
द्रौपदी चेत्तथावृत्ता नाश्नुते सुखमव्ययम् || 47c
न प्रियो मम कृष्णाय बीभत्सुर्न युधिष्ठिरः | 48a
भीमसेनो यमौ वापि यदपश्यं सभागताम् || 48c
न मे दुःखतरं किञ्चिद्भूतपूर्वं ततोऽधिकम् | 49a
यद्द्रौपदीं निवातस्थां श्वशुराणां समीपगाम् || 49c
आनायितामनार्येण क्रोधलोभानुवर्तिना | 50a
सर्वे प्रैक्षन्त कुरव एकवस्त्रां सभागताम् || 50c
तत्रैव धृतराष्ट्रश्च महाराजश्च बाह्लिकः | 51a
कृपश्च सोमदत्तश्च निर्विण्णाः कुरवस्तथा || 51c
तस्यां संसदि सर्वस्यां क्षत्तारं पूजयाम्यहम् | 52a
वृत्तेन हि भवत्यार्यो न धनेन न विद्यया || 52c
तस्य कृष्ण महाबुद्धेर्गम्भीरस्य महात्मनः | 53a
क्षत्तुः शीलमलङ्कारो लोकान्विष्टभ्य तिष्ठति || 53c
सा शोकार्ता च हृष्टा च दृष्ट्वा गोविन्दमागतम् | 54a
नानाविधानि दुःखानि सर्वाण्येवान्वकीर्तयत् || 54c
पूर्वैराचरितं यत्तत्कुराजभिररिन्दम | 55a
अक्षद्यूतं मृगवधः कच्चिदेषां सुखावहम् || 55c
तन्मां दहति यत्कृष्णा सभायां कुरुसन्निधौ | 56a
धार्तराष्ट्रैः परिक्लिष्टा यथा नकुशलं तथा || 56c
निर्वासनं च नगरात्प्रव्रज्या च परन्तप | 57a
नानाविधानां दुःखानामावासोऽस्मि जनार्दन | 57c
अज्ञातचर्या बालानामवरोधश्च केशव || 57e
न स्म क्लेशतमं मे स्यात्पुत्रैः सह परन्तप | 58a
दुर्योधनेन निकृता वर्षमद्य चतुर्दशम् || 58c
दुःखादपि सुखं न स्याद्यदि पुण्यफलक्षयः | 59a
न मे विशेषो जात्वासीद्धार्तराष्ट्रेषु पाण्डवैः || 59c
तेन सत्येन कृष्ण त्वां हतामित्रं श्रिया वृतम् | 60a
अस्माद्विमुक्तं सङ्ग्रामात्पश्येयं पाण्डवैः सह | 60c
नैव शक्याः पराजेतुं सत्त्वं ह्येषां तथागतम् || 60e
पितरं त्वेव गर्हेयं नात्मानं न सुयोधनम् | 61a
येनाहं कुन्तिभोजाय धनं धूर्तैरिवार्पिता || 61c
बालां मामार्यकस्तुभ्यं क्रीडन्तीं कन्दुहस्तकाम् | 62a
अददात्कुन्तिभोजाय सखा सख्ये महात्मने || 62c
साहं पित्रा च निकृता श्वशुरैश्च परन्तप | 63a
अत्यन्तदुःखिता कृष्ण किं जीवितफलं मम || 63c
यन्मा वागब्रवीन्नक्तं सूतके सव्यसाचिनः | 64a
पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवं स्पृशेत् || 64c
हत्वा कुरून्ग्रामजन्ये राज्यं प्राप्य धनञ्जयः | 65a
भ्रातृभिः सह कौन्तेयस्त्रीन्मेधानाहरिष्यति || 65c
नाहं तामभ्यसूयामि नमो धर्माय वेधसे | 66a
कृष्णाय महते नित्यं धर्मो धारयति प्रजाः || 66c
धर्मश्चेदस्ति वार्ष्णेय तथा सत्यं भविष्यति | 67a
त्वं चापि तत्तथा कृष्ण सर्वं सम्पादयिष्यसि || 67c
न मां माधव वैधव्यं नार्थनाशो न वैरिता | 68a
तथा शोकाय भवति यथा पुत्रैर्विनाभवः || 68c
याहं गाण्डीवधन्वानं सर्वशस्त्रभृतां वरम् | 69a
धनञ्जयं न पश्यामि का शान्तिर्हृदयस्य मे || 69c
इदं चतुर्दशं वर्षं यन्नापश्यं युधिष्ठिरम् | 70a
धनञ्जयं च गोविन्द यमौ तं च वृकोदरम् || 70c
जीवनाशं प्रनष्टानां श्राद्धं कुर्वन्ति मानवाः | 71a
अर्थतस्ते मम मृतास्तेषां चाहं जनार्दन || 71c
ब्रूया माधव राजानं धर्मात्मानं युधिष्ठिरम् | 72a
भूयांस्ते हीयते धर्मो मा पुत्रक वृथा कृथाः || 72c
पराश्रया वासुदेव या जीवामि धिगस्तु माम् | 73a
वृत्तेः कृपणलब्धाया अप्रतिष्ठैव ज्यायसी || 73c
अथो धनञ्जयं ब्रूया नित्योद्युक्तं वृकोदरम् | 74a
यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः || 74c
अस्मिंश्चेदागते काले कालो वोऽतिक्रमिष्यति | 75a
लोकसम्भाविताः सन्तः सुनृशंसं करिष्यथ || 75c
नृशंसेन च वो युक्तांस्त्यजेयं शाश्वतीः समाः | 76a
काले हि समनुप्राप्ते त्यक्तव्यमपि जीवितम् || 76c
माद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरतौ सदा | 77a
विक्रमेणार्जितान्भोगान्वृणीतं जीवितादपि || 77c
विक्रमाधिगता ह्यर्थाः क्षत्रधर्मेण जीवतः | 78a
मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम || 78c
गत्वा ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम् | 79a
अर्जुनं पाण्डवं वीरं द्रौपद्याः पदवीं चर || 79c
विदितौ हि तवात्यन्तं क्रुद्धाविव यथान्तकौ | 80a
भीमार्जुनौ नयेतां हि देवानपि परां गतिम् || 80c
तयोश्चैतदवज्ञानं यत्सा कृष्णा सभां गता | 81a
दुःशासनश्च कर्णश्च परुषाण्यभ्यभाषताम् || 81c
दुर्योधनो भीमसेनमभ्यगच्छन्मनस्विनम्| 82a
पश्यतां कुरुमुख्यानां तस्य द्रक्ष्यति यत्फलम् || 82c
न हि वैरं समासाद्य प्रशाम्यति वृकोदरः | 83a
सुचिरादपि भीमस्य न हि वैरं प्रशाम्यति | 83c
यावदन्तं न नयति शात्रवाञ्शत्रुकर्शनः || 83e
न दुःखं राज्यहरणं न च द्यूते पराजयः | 84a
प्रव्राजनं च पुत्राणां न मे तद्दुःखकारणम् || 84c
यत्तु सा बृहती श्यामा एकवस्त्रा सभां गता | 85a
अशृणोत्परुषा वाचस्ततो दुःखतरं नु किम् || 85c
स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा | 86a
नाध्यगच्छत्तथा नाथं कृष्णा नाथवती सती || 86c
यस्या मम सपुत्रायास्त्वं नाथो मधुसूद | 87a
रामश्च बलिनां श्रेष्ठः प्रद्युम्नश्च महारथः || 87c
साहमेवंविधं दुःखं सहेऽद्य पुरुषोत्तम | 88a
भीमे जीवति दुर्धर्षे विजये चापलायिनि || 88c
तत आश्वासयामास पुत्राधिभिरभिप्लुताम् | 89a
पितृष्वसारं शोचन्तीं शौरिः पार्थसखः पृथाम् || 89c
का नु सीमन्तिनी त्वादृग्लोकेष्वस्ति पितृष्वसः | 90a
शूरस्य राज्ञो दुहिता आजमीढकुलं गता || 90c
महाकुलीना भवती ह्रदाद्ध्रदमिवागता | 91a
ईश्वरी सर्वकल्याणी भर्त्रा परमपूजिता || 91c
वीरसूर्वीरपत्नी च सर्वैः समुदिता गुणैः | 92a
सुखदुःखे महाप्राज्ञे त्वादृशी सोढुमर्हति || 92c
निद्रातन्द्री क्रोधहर्षौ क्षुत्पिपासे हिमातपौ | 93a
एतानि पार्था निर्जित्य नित्यं वीराः सुखे रताः || 93c
त्यक्तग्राम्यसुखाः पार्था नित्यं वीरसुखप्रियाः | 94a
न ते स्वल्पेन तुष्येयुर्महोत्साहा महाबलाः || 94c
अन्तं धीरा निषेवन्ते मध्यं ग्राम्यसुखप्रियाः | 95a
उत्तमांश्च परिक्लेशान्भोगांश्चातीव मानुषान् || 95c
अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे | 96a
अन्तप्राप्तिं सुखामाहुर्दुःखमन्तरमन्तयोः || 96c
अभिवादयन्ति भवतीं पाण्डवाः सह कृष्णया | 97a
आत्मानं च कुशलिनं निवेद्याहुरनामयम् || 97c
अरोगान्सर्वसिद्धार्थान्क्षिप्रं द्रक्ष्यसि पाण्डवान् | 98a
ईश्वरान्सर्वलोकस्य हतामित्राञ्श्रिया वृतान् || BR-5-07-088-98c
एवमाश्वासिता कुन्ती प्रत्युवाच जनार्दनम् | 99a
पुत्राधिभिरभिध्वस्ता निगृह्याबुद्धिजं तमः || 99c
यद्यत्तेषां महाबाहो पथ्यं स्यान्मधुसूदन | 100a
यथा यथा त्वं मन्येथाः कुर्याः कृष्ण तथा तथा || 100c
अविलोपेन धर्मस्य अनिकृत्या परन्तप | 101a
प्रभावज्ञास्मि ते कृष्ण सत्यस्याभिजनस्य च || 101c
व्यवस्थायां च मित्रेषु बुद्धिविक्रमयोस्तथा | 102a
त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं तपो महत् || 102c
त्वं त्राता त्वं महद्ब्रह्म त्वयि सर्वं प्रतिष्ठितम् | 103a
यथैवात्थ तथैवैतत्त्वयि सत्यं भविष्यति || 103c
तामामन्त्र्य च गोविन्दः कृत्वा चाभिप्रदक्षिणम् | 104a
प्रातिष्ठत महाबाहुर्दुर्योधनगृहान्प्रति || 104c