वैशम्पायन उवाच || 001
प्रातरुत्थाय कृष्णस्तु कृतवान्सर्वमाह्निकम् | 001a
ब्राह्मणैरभ्यनुज्ञातः प्रययौ नगरं प्रति || 001c
तं प्रयान्तं महाबाहुमनुज्ञाप्य ततो नृप | 002a
पर्यवर्तन्त ते सर्वे वृकस्थलनिवासिनः || 002c
धार्तराष्ट्रास्तमायान्तं प्रत्युज्जग्मुः स्वलङ्कृताः | 003a
दुर्योधनमृते सर्वे भीष्मद्रोणकृपादयः || 003c
पौराश्च बहुला राजन्हृषीकेशं दिदृक्षवः | 004a
यानैर्बहुविधैरन्ये पद्भिरेव तथापरे || 004c
स वै पथि समागम्य भीष्मेणाक्लिष्टकर्मणा | 005a
द्रोणेन धार्तराष्ट्रैश्च तैर्वृतो नगरं ययौ || 005c
कृष्णसम्माननार्थं च नगरं समलङ्कृतम् | 006a
बभूवू राजमार्गाश्च बहुरत्नसमाचिताः || 006c
न स्म कश्चिद्गृहे राजंस्तदासीद्भरतर्षभ | 007a
न स्त्री न वृद्धो न शिशुर्वासुदेवदिदृक्षया || 007c
राजमार्गे नरा न स्म सम्भवन्त्यवनिं गताः | 008a
तथा हि सुमहद्राजन्हृषीकेशप्रवेशने || 008c
आवृतानि वरस्त्रीभिर्गृहाणि सुमहान्त्यपि | 009a
प्रचलन्तीव भारेण दृश्यन्ते स्म महीतले || 009c
तथा च गतिमन्तस्ते वासुदेवस्य वाजिनः | 010a
प्रनष्टगतयोऽभूवन्राजमार्गे नरैर्वृते || 010c
स गृहं धृतराष्ट्रस्य प्राविशच्छत्रुकर्शनः | 011a
पाण्डुरं पुण्डरीकाक्षः प्रासादैरुपशोभितम् || 011c
तिस्रः कक्ष्या व्यतिक्रम्य केशवो राजवेश्मनः | 012a
वैचित्रवीर्यं राजानमभ्यगच्छदरिन्दमः || 012c
अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्नरेश्वरः | 013a
सहैव द्रोणभीष्माभ्यामुदतिष्ठन्महायशाः || 013c
कृपश्च सोमदत्तश्च महाराजश्च बाह्लिकः | 014a
आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम् || 014c
ततो राजानमासाद्य धृतराष्ट्रं यशस्विनम् | 015a
स भीष्मं पूजयामास वार्ष्णेयो वाग्भिरञ्जसा || 015c
तेषु धर्मानुपूर्वीं तां प्रयुज्य मधुसूदनः | 016a
यथावयः समीयाय राजभिस्तत्र माधवः || 016c
अथ द्रोणं सपुत्रं स बाह्लीकं च यशस्विनम् | 017a
कृपं च सोमदत्तं च समीयाय जनार्दनः || 017c
तत्रासीदूर्जितं मृष्टं काञ्चनं महदासनम् | 018a
शासनाद्धृतराष्ट्रस्य तत्रोपाविशदच्युतः || 018c
अथ गां मधुपर्कं चाप्युदकं च जनार्दने | 019a
उपजह्रुर्यथान्यायं धृतराष्ट्रपुरोहिताः || 019c
कृतातिथ्यस्तु गोविन्दः सर्वान्परिहसन्कुरून् | 020a
आस्ते सम्बन्धकं कुर्वन्कुरुभिः परिवारितः || 020c
सोऽर्चितो धृतराष्ट्रेण पूजितश्च महायशाः | 021a
राजानं समनुज्ञाप्य निराक्रामदरिन्दमः || 021c
तैः समेत्य यथान्यायं कुरुभिः कुरुसंसदि | 022a
विदुरावसथं रम्यमुपातिष्ठत माधवः || 022c
विदुरः सर्वकल्याणैरभिगम्य जनार्दनम् | 023a
अर्चयामास दाशार्हं सर्वकामैरुपस्थितम् || 023c
कृतातिथ्यं तु गोविन्दं विदुरः सर्वधर्मवित् | 024a
कुशलं पाण्डुपुत्राणामपृच्छन्मधुसूदनम् || 024c
प्रीयमाणस्य सुहृदो विदुषो बुद्धिसत्तमः | 025a
धर्मनित्यस्य च तदा गतदोषस्य धीमतः || 025c
तस्य सर्वं सविस्तारं पाण्डवानां विचेष्टितम् | 026a
क्षत्तुराचष्ट दाशार्हः सर्वप्रत्यक्षदर्शिवान् || 026c