दुर्योधन उवाच || 001
यदाह विदुरः कृष्णे सर्वं तत्सत्यमुच्यते | 001a
अनुरक्तो ह्यसंहार्यः पार्थान्प्रति जनार्दनः || 001c
यत्तु सत्कारसंयुक्तं देयं वसु जनार्दने | 002a
अनेकरूपं राजेन्द्र न तद्देयं कदाचन || 002c
देशः कालस्तथायुक्तो न हि नार्हति केशवः | 003a
मंस्यत्यधोक्षजो राजन्भयादर्चति मामिति || 003c
अवमानश्च यत्र स्यात्क्षत्रियस्य विशां पते | 004a
न तत्कुर्याद्बुधः कार्यमिति मे निश्चिता मतिः || 004c
स हि पूज्यतमो देवः कृष्णः कमललोचनः | 005a
त्रयाणामपि लोकानां विदितं मम सर्वथा || 005c
न तु तस्मिन्प्रदेयं स्यात्तथा कार्यगतिः प्रभो | 006a
विग्रहः समुपारब्धो न हि शाम्यत्यविग्रहात् || 006c
वैशम्पायन उवाच || 007
तस्य तद्वचनं श्रुत्वा भीष्मः कुरुपितामहः | 007a
वैचित्रवीर्यं राजानमिदं वचनमब्रवीत् || 007c
सत्कृतोऽसत्कृतो वापि न क्रुध्येत जनार्दनः | 008a
नालमन्यमवज्ञातुमवज्ञातोऽपि केशवः || 008c
यत्तु कार्यं महाबाहो मनसा कार्यतां गतम् | 009a
सर्वोपायैर्न तच्छक्यं केनचित्कर्तुमन्यथा || 009c
स यद्ब्रूयान्महाबाहुस्तत्कार्यमविशङ्कया | 010a
वासुदेवेन तीर्थेन क्षिप्रं संशाम्य पाण्डवैः || 010c
धर्म्यमर्थ्यं स धर्मात्मा ध्रुवं वक्ता जनार्दनः | 011a
तस्मिन्वाच्याः प्रिया वाचो भवता बान्धवैः सह || 011c
दुर्योधन उवाच || 012
न पर्यायोऽस्ति यद्राजञ्श्रियं निष्केवलामहम् | 012a
तैः सहेमामुपाश्नीयां जीवञ्जीवैः पितामह || 012c
इदं तु सुमहत्कार्यं शृणु मे यत्समर्थितम् | 013a
परायणं पाण्डवानां नियंस्यामि जनार्दनम् || 013c
तस्मिन्बद्धे भविष्यन्ति वृष्णयः पृथिवी तथा | 014a
पाण्डवाश्च विधेया मे स च प्रातरिहेष्यति || 014c
अत्रोपायं यथा सम्यङ्न बुध्येत जनार्दनः | 015a
न चापायो भवेत्कश्चित्तद्भवान्प्रब्रवीतु मे || 015c
वैशम्पायन उवाच || 016
तस्य तद्वचनं श्रुत्वा घोरं कृष्णाभिसंहितम् | 016a
धृतराष्ट्रः सहामात्यो व्यथितो विमनाभवत् || 016c
ततो दुर्योधनमिदं धृतराष्ट्रोऽब्रवीद्वचः | 017a
मैवं वोचः प्रजापाल नैष धर्मः सनातनः || 017c
दूतश्च हि हृषीकेशः सम्बन्धी च प्रियश्च नः | 018a
अपापः कौरवेयेषु कथं बन्धनमर्हति || 018c
भीष्म उवाच || 019
परीतो धृतराष्ट्रायं तव पुत्रः सुमन्दधीः | 019a
वृणोत्यनर्थं न त्वर्थं याच्यमानः सुहृद्गणैः || 019c
इममुत्पथि वर्तन्तं पापं पापानुबन्धिनम् | 020a
वाक्यानि सुहृदां हित्वा त्वमप्यस्यानुवर्तसे || 020c
कृष्णमक्लिष्टकर्माणमासाद्यायं सुदुर्मतिः | 021a
तव पुत्रः सहामात्यः क्षणेन न भविष्यति || 021c
पापस्यास्य नृशंसस्य त्यक्तधर्मस्य दुर्मतेः | 022a
नोत्सहेऽनर्थसंयुक्तां वाचं श्रोतुं कथञ्चन || 022c
वैशम्पायन उवाच || 023
इत्युक्त्वा भरतश्रेष्ठो वृद्धः परममन्युमान् | 023a
उत्थाय तस्मात्प्रातिष्ठद्भीष्मः सत्यपराक्रमः || 023c