विदुर उवाच || 001
राजन्बहुमतश्चासि त्रैलोक्यस्यापि सत्तमः | 001a
सम्भावितश्च लोकस्य सम्मतश्चासि भारत || 001c
यत्त्वमेवङ्गते ब्रूयाः पश्चिमे वयसि स्थितः | 002a
शास्त्राद्वा सुप्रतर्काद्वा सुस्थिरः स्थविरो ह्यसि || 002c
लेखाश्मनीव भाः सूर्ये महोर्मिरिव सागरे | 003a
धर्मस्त्वयि महान्राजन्निति व्यवसिताः प्रजाः || 003c
सदैव भावितो लोको गुणौघैस्तव पार्थिव | 004a
गुणानां रक्षणे नित्यं प्रयतस्व सबान्धवः || 004c
आर्जवं प्रतिपद्यस्व मा बाल्याद्बहुधा नशीः | 005a
राज्यं पुत्रांश्च पौत्रांश्च सुहृदश्चापि सुप्रियान् || 005c
यत्त्वं दित्ससि कृष्णाय राजन्नतिथये बहु | 006a
एतदन्यच्च दाशार्हः पृथिवीमपि चार्हति || 006c
न तु त्वं धर्ममुद्दिश्य तस्य वा प्रियकारणात् | 007a
एतदिच्छसि कृष्णाय सत्येनात्मानमालभे || 007c
मायैषातत्त्वमेवैतच्छद्मैतद्भूरिदक्षिण | 008a
जानामि ते मतं राजन्गूढं बाह्येन कर्मणा || 008c
पञ्च पञ्चैव लिप्सन्ति ग्रामकान्पाण्डवा नृप | 009a
न च दित्ससि तेभ्यस्तांस्तच्छमं कः करिष्यति || 009c
अर्थेन तु महाबाहुं वार्ष्णेयं त्वं जिहीर्षसि | 010a
अनेनैवाभ्युपायेन पाण्डवेभ्यो बिभित्ससि || 010c
न च वित्तेन शक्योऽसौ नोद्यमेन न गर्हया | 011a
अन्यो धनञ्जयात्कर्तुमेतत्तत्त्वं ब्रवीमि ते || 011c
वेद कृष्णस्य माहात्म्यं वेदास्य दृढभक्तिताम् | 012a
अत्याज्यमस्य जानामि प्राणैस्तुल्यं धनञ्जयम् || 012c
अन्यत्कुम्भादपां पूर्णादन्यत्पादावसेचनात् | 013a
अन्यत्कुशलसम्प्रश्नान्नैषिष्यति जनार्दनः || 013c
यत्त्वस्य प्रियमातिथ्यं मानार्हस्य महात्मनः | 014a
तदस्मै क्रियतां राजन्मानार्हो हि जनार्दनः || 014c
आशंसमानः कल्याणं कुरूनभ्येति केशवः | 015a
येनैव राजन्नर्थेन तदेवास्मा उपाकुरु || 015c
शममिच्छति दाशार्हस्तव दुर्योधनस्य च | 016a
पाण्डवानां च राजेन्द्र तदस्य वचनं कुरु || 016c
पितासि राजन्पुत्रास्ते वृद्धस्त्वं शिशवः परे | 017a
वर्तस्व पितृवत्तेषु वर्तन्ते ते हि पुत्रवत् || 017c