धृतराष्ट्र उवाच || 001
उपप्लव्यादिह क्षत्तरुपयातो जनार्दनः | 001a
वृकस्थले निवसति स च प्रातरिहेष्यति || 001c
आहुकानामधिपतिः पुरोगः सर्वसात्वताम् | 002a
महामना महावीर्यो महामात्रो जनार्दनः || 002c
स्फीतस्य वृष्णिवंशस्य भर्ता गोप्ता च माधवः | 003a
त्रयाणामपि लोकानां भगवान्प्रपितामहः || 003c
वृष्ण्यन्धकाः सुमनसो यस्य प्रज्ञामुपासते | 004a
आदित्या वसवो रुद्रा यथा बुद्धिं बृहस्पतेः || 004c
तस्मै पूजां प्रयोक्ष्यामि दाशार्हाय महात्मने | 005a
प्रत्यक्षं तव धर्मज्ञ तन्मे कथयतः शृणु || 005c
एकवर्णैः सुकृष्णाङ्गैर्बाह्लिजातैर्हयोत्तमैः | 006a
चतुर्युक्तान्रथांस्तस्मै रौक्मान्दास्यामि षोडश || 006c
नित्यप्रभिन्नान्मातङ्गानीषादन्तान्प्रहारिणः | 007a
अष्टानुचरमेकैकमष्टौ दास्यामि केशवे || 007c
दासीनामप्रजातानां शुभानां रुक्मवर्चसाम् | 008a
शतमस्मै प्रदास्यामि दासानामपि तावतः || 008c
आविकं बहु सुस्पर्शं पार्वतीयैरुपाहृतम् | 009a
तदप्यस्मै प्रदास्यामि सहस्राणि दशाष्ट च || 009c
अजिनानां सहस्राणि चीनदेशोद्भवानि च | 010a
तान्यप्यस्मै प्रदास्यामि यावदर्हति केशवः || 010c
दिवा रात्रौ च भात्येष सुतेजा विमलो मणिः | 011a
तमप्यस्मै प्रदास्यामि तमप्यर्हति केशवः || 011c
एकेनापि पतत्यह्ना योजनानि चतुर्दश | 012a
यानमश्वतरीयुक्तं दास्ये तस्मै तदप्यहम् || 012c
यावन्ति वाहनान्यस्य यावन्तः पुरुषाश्च ते | 013a
ततोऽष्टगुणमप्यस्मै भोज्यं दास्याम्यहं सदा || 013c
मम पुत्राश्च पौत्राश्च सर्वे दुर्योधनादृते | 014a
प्रत्युद्यास्यन्ति दाशार्हं रथैर्मृष्टैरलङ्कृताः || 014c
स्वलङ्कृताश्च कल्याण्यः पादैरेव सहस्रशः | 015a
वारमुख्या महाभागं प्रत्युद्यास्यन्ति केशवम् || 015c
नगरादपि याः काश्चिद्गमिष्यन्ति जनार्दनम् | 016a
द्रष्टुं कन्याश्च कल्याण्यस्ताश्च यास्यन्त्यनावृताः || 016c
सस्त्रीपुरुषबालं हि नगरं मधुसूदनम् | 017a
उदीक्षते महात्मानं भानुमन्तमिव प्रजाः || 017c
महाध्वजपताकाश्च क्रियन्तां सर्वतोदिशम् | 018a
जलावसिक्तो विरजाः पन्थास्तस्येति चान्वशात् || 018c
दुःशासनस्य च गृहं दुर्योधनगृहाद्वरम् | 019a
तदस्य क्रियतां क्षिप्रं सुसम्मृष्टमलङ्कृतम् || 019c
एतद्धि रुचिराकारैः प्रासादैरुपशोभितम् | 020a
शिवं च रमणीयं च सर्वर्तु सुमहाधनम् || 020c
सर्वमस्मिन्गृहे रत्नं मम दुर्योधनस्य च | 021a
यद्यदर्हेत्स वार्ष्णेयस्तत्तद्देयमसंशयम् || 021c