वैशम्पायन उवाच || 001
तथा दूतैः समाज्ञाय आयान्तं मधुसूदनम् | 001a
धृतराष्ट्रोऽब्रवीद्भीष्ममर्चयित्वा महाभुजम् || 001c
द्रोणं च सञ्जयं चैव विदुरं च महामतिम् | 002a
दुर्योधनं च सामात्यं हृष्टरोमाब्रवीदिदम् || 002c
अद्भुतं महदाश्चर्यं श्रूयते कुरुनन्दन | 003a
स्त्रियो बालाश्च वृद्धाश्च कथयन्ति गृहे गृहे || 003c
सत्कृत्याचक्षते चान्ये तथैवान्ये समागताः | 004a
पृथग्वादाश्च वर्तन्ते चत्वरेषु सभासु च || 004c
उपयास्यति दाशार्हः पाण्डवार्थे पराक्रमी | 005a
स नो मान्यश्च पूज्यश्च सर्वथा मधुसूदनः || 005c
तस्मिन्हि यात्रा लोकस्य भूतानामीश्वरो हि सः | 006a
तस्मिन्धृतिश्च वीर्यं च प्रज्ञा चौजश्च माधवे || 006c
स मान्यतां नरश्रेष्ठः स हि धर्मः सनातनः | 007a
पूजितो हि सुखाय स्यादसुखः स्यादपूजितः || 007c
स चेत्तुष्यति दाशार्ह उपचारैररिन्दमः | 008a
कृत्स्नान्सर्वानभिप्रायान्प्राप्स्यामः सर्वराजसु || 008c
तस्य पूजार्थमद्यैव संविधत्स्व परन्तप | 009a
सभाः पथि विधीयन्तां सर्वकामसमाहिताः || 009c
यथा प्रीतिर्महाबाहो त्वयि जायेत तस्य वै | 010a
तथा कुरुष्व गान्धारे कथं वा भीष्म मन्यसे || 010c
ततो भीष्मादयः सर्वे धृतराष्ट्रं जनाधिपम् | 011a
ऊचुः परममित्येवं पूजयन्तोऽस्य तद्वचः || 011c
तेषामनुमतं ज्ञात्वा राजा दुर्योधनस्तदा | 012a
सभावास्तूनि रम्याणि प्रदेष्टुमुपचक्रमे || 012c
ततो देशेषु देशेषु रमणीयेषु भागशः | 013a
सर्वरत्नसमाकीर्णाः सभाश्चक्रुरनेकशः || 013c
आसनानि विचित्राणि युक्तानि विविधैर्गुणैः | 014a
स्त्रियो गन्धानलङ्कारान्सूक्ष्माणि वसनानि च || 014c
गुणवन्त्यन्नपानानि भोज्यानि विविधानि च | 015a
माल्यानि च सुगन्धीनि तानि राजा ददौ ततः || 015c
विशेषतश्च वासार्थं सभां ग्रामे वृकस्थले | 016a
विदधे कौरवो राजा बहुरत्नां मनोरमाम् || 016c
एतद्विधाय वै सर्वं देवार्हमतिमानुषम् | 017a
आचख्यौ धृतराष्ट्राय राजा दुर्योधनस्तदा || 017c
ताः सभाः केशवः सर्वा रत्नानि विविधानि च | 018a
असमीक्ष्यैव दाशार्ह उपायात्कुरुसद्म तत् || 018c