वैशम्पायन उवाच || 001
प्रयान्तं देवकीपुत्रं परवीररुजो दश | 001a
महारथा महाबाहुमन्वयुः शस्त्रपाणयः || 001c
पदातीनां सहस्रं च सादिनां च परन्तप | 002a
भोज्यं च विपुलं राजन्प्रेष्याश्च शतशोऽपरे || 002c
जनमेजय उवाच || 003
कथं प्रयातो दाशार्हो महात्मा मधुसूदनः | 003a
कानि वा व्रजतस्तस्य निमित्तानि महौजसः || 003c
वैशम्पायन उवाच || 004
तस्य प्रयाणे यान्यासन्नद्भुतानि महात्मनः | 004a
तानि मे शृणु दिव्यानि दैवान्यौत्पातिकानि च || 004c
अनभ्रेऽशनिनिर्घोषः सविद्युत्समजायत | 005a
अन्वगेव च पर्जन्यः प्रावर्षद्विघने भृशम् || 005c
प्रत्यगूहुर्महानद्यः प्राङ्मुखाः सिन्धुसत्तमाः| 006a
विपरीता दिशः सर्वा न प्राज्ञायत किञ्चन || 006c
प्राज्वलन्नग्नयो राजन्पृथिवी समकम्पत | 007a
उदपानाश्च कुम्भाश्च प्रासिञ्चञ्शतशो जलम् || 007c
तमःसंवृतमप्यासीत्सर्वं जगदिदं तदा | 008a
न दिशो नादिशो राजन्प्रज्ञायन्ते स्म रेणुना || 008c
प्रादुरासीन्महाञ्शब्दः खे शरीरं न दृश्यते | 009a
सर्वेषु राजन्देशेषु तदद्भुतमिवाभवत् || 009c
प्रामथ्नाद्धास्तिनपुरं वातो दक्षिणपश्चिमः | 010a
आरुजन्गणशो वृक्षान्परुषो भीमनिस्वनः || 010c
यत्र यत्र तु वार्ष्णेयो वर्तते पथि भारत | 011a
तत्र तत्र सुखो वायुः सर्वं चासीत्प्रदक्षिणम् || 011c
ववर्ष पुष्पवर्षं च कमलानि च भूरिशः | 012a
समश्च पन्था निर्दुःखो व्यपेतकुशकण्टकः || 012c
स गच्छन्ब्राह्मणै राजंस्तत्र तत्र महाभुजः | 013a
अर्च्यते मधुपर्कैश्च सुमनोभिर्वसुप्रदः || 013c
तं किरन्ति महात्मानं वन्यैः पुष्पैः सुगन्धिभिः | 014a
स्त्रियः पथि समागम्य सर्वभूतहिते रतम् || 014c
स शालिभवनं रम्यं सर्वसस्यसमाचितम् | 015a
सुखं परमधर्मिष्ठमत्यगाद्भरतर्षभ || 015c
पश्यन्बहुपशून्ग्रामान्रम्यान्हृदयतोषणान् | 016a
पुराणि च व्यतिक्रामन्राष्ट्राणि विविधानि च || 016c
नित्यहृष्टाः सुमनसो भारतैरभिरक्षिताः | 017a
नोद्विग्नाः परचक्राणामनयानामकोविदाः || 017c
उपप्लव्यादथायान्तं जनाः पुरनिवासिनः | 018a
पथ्यतिष्ठन्त सहिता विष्वक्सेनदिदृक्षया || 018c
ते तु सर्वे सुनामानमग्निमिद्धमिव प्रभुम् | 019a
अर्चयामासुरर्च्यं तं देशातिथिमुपस्थितम् || 019c
वृकस्थलं समासाद्य केशवः परवीरहा | 020a
प्रकीर्णरश्मावादित्ये विमले लोहितायति || 020c
अवतीर्य रथात्तूर्णं कृत्वा शौचं यथाविधि | 021a
रथमोचनमादिश्य सन्ध्यामुपविवेश ह || 021c
दारुकोऽपि हयान्मुक्त्वा परिचर्य च शास्त्रतः | 022a
मुमोच सर्वं वर्माणि मुक्त्वा चैनानवासृजत् || 022c
अभ्यतीत्य तु तत्सर्वमुवाच मधुसूदनः | 023a
युधिष्ठिरस्य कार्यार्थमिह वत्स्यामहे क्षपाम् || 023c
तस्य तन्मतमाज्ञाय चक्रुरावसथं नराः | 024a
क्षणेन चान्नपानानि गुणवन्ति समार्जयन् || 024c
तस्मिन्ग्रामे प्रधानास्तु य आसन्ब्राह्मणा नृप | 025a
आर्याः कुलीना ह्रीमन्तो ब्राह्मीं वृत्तिमनुष्ठिताः || 025c
तेऽभिगम्य महात्मानं हृषीकेशमरिन्दमम् | 026a
पूजां चक्रुर्यथान्यायमाशीर्मङ्गलसंयुताम् || 026c
ते पूजयित्वा दाशार्हं सर्वलोकेषु पूजितम् | 027a
न्यवेदयन्त वेश्मानि रत्नवन्ति महात्मने || 027c
तान्प्रभुः कृतमित्युक्त्वा सत्कृत्य च यथार्हतः | 028a
अभ्येत्य तेषां वेश्मानि पुनरायात्सहैव तैः || 028c
सुमृष्टं भोजयित्वा च ब्राह्मणांस्तत्र केशवः | 029a
भुक्त्वा च सह तैः सर्वैरवसत्तां क्षपां सुखम् || 029c