अर्जुन उवाच || 001
कुरूणामद्य सर्वेषां भवान्सुहृदनुत्तमः | 001a
सम्बन्धी दयितो नित्यमुभयोः पक्षयोरपि || 001c
पाण्डवैर्धार्तराष्ट्राणां प्रतिपाद्यमनामयम् | 002a
समर्थः प्रशमं चैषां कर्तुं त्वमसि केशव || 002c
त्वमितः पुण्डरीकाक्ष सुयोधनममर्षणम् | 003a
शान्त्यर्थं भारतं ब्रूया यत्तद्वाच्यममित्रहन् || 003c
त्वया धर्मार्थयुक्तं चेदुक्तं शिवमनामयम् | 004a
हितं नादास्यते बालो दिष्टस्य वशमेष्यति || 004c
भगवानुवाच || 005
धर्म्यमस्मद्धितं चैव कुरूणां यदनामयम् | 005a
एष यास्यामि राजानं धृतराष्ट्रमभीप्सया || 005c
वैशम्पायन उवाच || 006
ततो व्यपेते तमसि सूर्ये विमल उद्गते | 006a
मैत्रे मुहूर्ते सम्प्राप्ते मृद्वर्चिषि दिवाकरे || 006c
कौमुदे मासि रेवत्यां शरदन्ते हिमागमे | 007a
स्फीतसस्यसुखे काले कल्यः सत्त्ववतां वरः || 007c
मङ्गल्याः पुण्यनिर्घोषा वाचः शृण्वंश्च सूनृताः | 008a
ब्राह्मणानां प्रतीतानामृषीणामिव वासवः || 008c
कृत्वा पौर्वाह्णिकं कृत्यं स्नातः शुचिरलङ्कृतः | 009a
उपतस्थे विवस्वन्तं पावकं च जनार्दनः || 009c
ऋषभं पृष्ठ आलभ्य ब्राह्मणानभिवाद्य च | 010a
अग्निं प्रदक्षिणं कृत्वा पश्यन्कल्याणमग्रतः || 010c
तत्प्रतिज्ञाय वचनं पाण्डवस्य जनार्दनः | 011a
शिनेर्नप्तारमासीनमभ्यभाषत सात्यकिम् || 011c
रथ आरोप्यतां शङ्खश्चक्रं च गदया सह | 012a
उपासङ्गाश्च शक्त्यश्च सर्वप्रहरणानि च || 012c
दुर्योधनो हि दुष्टात्मा कर्णश्च सहसौबलः | 013a
न च शत्रुरवज्ञेयः प्राकृतोऽपि बलीयसा || 013c
ततस्तन्मतमाज्ञाय केशवस्य पुरःसराः | 014a
प्रसस्रुर्योजयिष्यन्तो रथं चक्रगदाभृतः || 014c
तं दीप्तमिव कालाग्निमाकाशगमिवाध्वगम् | 015a
चन्द्रसूर्यप्रकाशाभ्यां चक्राभ्यां समलङ्कृतम् || 015c
अर्धचन्द्रैश्च चन्द्रैश्च मत्स्यैः समृगपक्षिभिः | 016a
पुष्पैश्च विविधैश्चित्रं मणिरत्नैश्च सर्वशः || 016c
तरुणादित्यसङ्काशं बृहन्तं चारुदर्शनम् | 017a
मणिहेमविचित्राङ्गं सुध्वजं सुपताकिनम् || 017c
सूपस्करमनाधृष्यं वैयाघ्रपरिवारणम् | 018a
यशोघ्नं प्रत्यमित्राणां यदूनां नन्दिवर्धनम् || 018c
वाजिभिः सैन्यसुग्रीवमेघपुष्पबलाहकैः | 019a
स्नातैः सम्पादयां चक्रुः सम्पन्नैः सर्वसम्पदा || 019c
महिमानं तु कृष्णस्य भूय एवाभिवर्धयन् | 020a
सुघोषः पतगेन्द्रेण ध्वजेन युयुजे रथः || 020c
तं मेरुशिखरप्रख्यं मेघदुन्दुभिनिस्वनम् | 021a
आरुरोह रथं शौरिर्विमानमिव पुण्यकृत् || 021c
ततः सात्यकिमारोप्य प्रययौ पुरुषोत्तमः | 022a
पृथिवीं चान्तरिक्षं च रथघोषेण नादयन् || 022c
व्यपोढाभ्रघनः कालः क्षणेन समपद्यत | 023a
शिवश्चानुववौ वायुः प्रशान्तमभवद्रजः || 023c
प्रदक्षिणानुलोमाश्च मङ्गल्या मृगपक्षिणः | 024a
प्रयाणे वासुदेवस्य बभूवुरनुयायिनः || 024c
मङ्गल्यार्थपदैः शब्दैरन्ववर्तन्त सर्वशः | 025a
सारसाः शतपत्राश्च हंसाश्च मधुसूदनम् || 025c
मन्त्राहुतिमहाहोमैर्हूयमानश्च पावकः | 026a
प्रदक्षिणशिखो भूत्वा विधूमः समपद्यत || 026c
वसिष्ठो वामदेवश्च भूरिद्युम्नो गयः क्रथः | 027a
शुक्रनारदवाल्मीका मरुतः कुशिको भृगुः || 027c
ब्रह्मदेवर्षयश्चैव कृष्णं यदुसुखावहम् | 028a
प्रदक्षिणमवर्तन्त सहिता वासवानुजम् || 028c
एवमेतैर्महाभागैर्महर्षिगणसाधुभिः | 029a
पूजितः प्रययौ कृष्णः कुरूणां सदनं प्रति || 029c
तं प्रयान्तमनुप्रायात्कुन्तीपुत्रो युधिष्ठिरः | 030a
भीमसेनार्जुनौ चोभौ माद्रीपुत्रौ च पाण्डवौ || 030c
चेकितानश्च विक्रान्तो धृष्टकेतुश्च चेदिपः | 031a
द्रुपदः काशिराजश्च शिखण्डी च महारथः || 031c
धृष्टद्युम्नः सपुत्रश्च विराटः केकयैः सह | 032a
संसाधनार्थं प्रययुः क्षत्रियाः क्षत्रियर्षभम् || 032c
ततोऽनुव्रज्य गोविन्दं धर्मराजो युधिष्ठिरः | 033a
राज्ञां सकाशे द्युतिमानुवाचेदं वचस्तदा || 033c
यो नैव कामान्न भयान्न लोभान्नार्थकारणात् | 034a
अन्यायमनुवर्तेत स्थिरबुद्धिरलोलुपः || 034c
धर्मज्ञो धृतिमान्प्राज्ञः सर्वभूतेषु केशवः | 035a
ईश्वरः सर्वभूतानां देवदेवः प्रतापवान् || 035c
तं सर्वगुणसम्पन्नं श्रीवत्सकृतलक्षणम् | 036a
सम्परिष्वज्य कौन्तेयः सन्देष्टुमुपचक्रमे || 036c
या सा बाल्यात्प्रभृत्यस्मान्पर्यवर्धयताबला | 037a
उपवासतपःशीला सदा स्वस्त्ययने रता || 037c
देवतातिथिपूजासु गुरुशुश्रूषणे रता | 038a
वत्सला प्रियपुत्रा च प्रियास्माकं जनार्दन || 038c
सुयोधनभयाद्या नोऽत्रायतामित्रकर्शन | 039a
महतो मृत्युसम्बाधादुत्तरन्नौरिवार्णवात् || 039c
अस्मत्कृते च सततं यया दुःखानि माधव | 040a
अनुभूतान्यदुःखार्हा तां स्म पृच्छेरनामयम् || 040c
भृशमाश्वासयेश्चैनां पुत्रशोकपरिप्लुताम् | 041a
अभिवाद्य स्वजेथाश्च पाण्डवान्परिकीर्तयन् || 041c
ऊढात्प्रभृति दुःखानि श्वशुराणामरिन्दम | 042a
निकारानतदर्हा च पश्यन्ती दुःखमश्नुते || 042c
अपि जातु स कालः स्यात्कृष्ण दुःखविपर्ययः | 043a
यदहं मातरं क्लिष्टां सुखे दध्यामरिन्दम | 043c
प्रव्रजन्तोऽन्वधावत्सा कृपणा पुत्रगृद्धिनी | 044a
रुदतीमपहायैनामुपगच्छाम यद्वनम् || 044c
न नूनं म्रियते दुःखैः सा चेज्जीवति केशव | 045a
तथा पुत्राधिभिर्गाढमार्ता ह्यानर्तसत्कृता || 045c
अभिवाद्या तु सा कृष्ण त्वया मद्वचनाद्विभो | 046a
धृतराष्ट्रश्च कौरव्यो राजानश्च वयोऽधिकाः || 046c
भीष्मं द्रोणं कृपं चैव महाराजं च बाह्लिकम् | 047a
द्रौणिं च सोमदत्तं च सर्वांश्च भरतान्पृथक् || 047c
विदुरं च महाप्राज्ञं कुरूणां मन्त्रधारिणम् | 048a
अगाधबुद्धिं धर्मज्ञं स्वजेथा मधुसूदन || 048c
इत्युक्त्वा केशवं तत्र राजमध्ये युधिष्ठिरः | 049a
अनुज्ञातो निववृते कृष्णं कृत्वा प्रदक्षिणम् || 049c
व्रजन्नेव तु बीभत्सुः सखायं पुरुषर्षभम् | 050a
अब्रवीत्परवीरघ्नं दाशार्हमपराजितम् || 050c
यदस्माकं विभो वृत्तं पुरा वै मन्त्रनिश्चये | 051a
अर्धराज्यस्य गोविन्द विदितं सर्वराजसु || 051c
तच्चेद्दद्यादसङ्गेन सत्कृत्यानवमन्य च | 052a
प्रियं मे स्यान्महाबाहो मुच्येरन्महतो भयात् || 052c
अतश्चेदन्यथा कर्ता धार्तराष्ट्रोऽनुपायवित् | 053a
अन्तं नूनं करिष्यामि क्षत्रियाणां जनार्दन || 053c
एवमुक्ते पाण्डवेन पर्यहृष्यद्वृकोदरः | 054a
मुहुर्मुहुः क्रोधवशात्प्रावेपत च पाण्डवः || 054c
वेपमानश्च कौन्तेयः प्राक्रोशन्महतो रवान् | 055a
धनञ्जयवचः श्रुत्वा हर्षोत्सिक्तमना भृशम् || 055c
तस्य तं निनदं श्रुत्वा सम्प्रावेपन्त धन्विनः | 056a
वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः || 056c
इत्युक्त्वा केशवं तत्र तथा चोक्त्वा विनिश्चयम् | 057a
अनुज्ञातो निववृते परिष्वज्य जनार्दनम् || 057c
तेषु राजसु सर्वेषु निवृत्तेषु जनार्दनः | 058a
तूर्णमभ्यपतद्धृष्टः सैन्यसुग्रीववाहनः || 058c
ते हया वासुदेवस्य दारुकेण प्रचोदिताः | 059a
पन्थानमाचेमुरिव ग्रसमाना इवाम्बरम् || 059c
अथापश्यन्महाबाहुर्ॠषीनध्वनि केशवः | 060a
ब्राह्म्या श्रिया दीप्यमानान्स्थितानुभयतः पथि || 060c
सोऽवतीर्य रथात्तूर्णमभिवाद्य जनार्दनः | 061a
यथावत्तानृषीन्सर्वानभ्यभाषत पूजयन् || 061c
कच्चिल्लोकेषु कुशलं कच्चिद्धर्मः स्वनुष्ठितः | 062a
ब्राह्मणानां त्रयो वर्णाः कच्चित्तिष्ठन्ति शासने || 062c
तेभ्यः प्रयुज्य तां पूजां प्रोवाच मधुसूदनः | 063a
भगवन्तः क्व संसिद्धाः का वीथी भवतामिह || 063c
किं वा भगवतां कार्यमहं किं करवाणि वः | 064a
केनार्थेनोपसम्प्राप्ता भगवन्तो महीतलम् || 064c
तमब्रवीज्जामदग्न्य उपेत्य मधुसूदनम् | 065a
परिष्वज्य च गोविन्दं पुरा सुचरिते सखा || 065c
देवर्षयः पुण्यकृतो ब्राह्मणाश्च बहुश्रुताः | 066a
राजर्षयश्च दाशार्ह मानयन्तस्तपस्विनः || 066c
देवासुरस्य द्रष्टारः पुराणस्य महाद्युते | 067a
समेतं पार्थिवं क्षत्रं दिदृक्षन्तश्च सर्वतः || 067c
सभासदश्च राजानस्त्वां च सत्यं जनार्दन | 068a
एतन्महत्प्रेक्षणीयं द्रष्टुं गच्छाम केशव || 068c
धर्मार्थसहिता वाचः श्रोतुमिच्छाम माधव | 069a
त्वयोच्यमानाः कुरुषु राजमध्ये परन्तप || 069c
भीष्मद्रोणादयश्चैव विदुरश्च महामतिः | 070a
त्वं च यादवशार्दूल सभायां वै समेष्यथ || 070c
तव वाक्यानि दिव्यानि तत्र तेषां च माधव | 071a
श्रोतुमिच्छाम गोविन्द सत्यानि च शुभानि च || 071c
आपृष्टोऽसि महाबाहो पुनर्द्रक्ष्यामहे वयम् | 072a
याह्यविघ्नेन वै वीर द्रक्ष्यामस्त्वां सभागतम् || 072c