वैशम्पायन उवाच || 001
राज्ञस्तु वचनं श्रुत्वा धर्मार्थसहितं हितम् | 001a
कृष्णा दाशार्हमासीनमब्रवीच्छोककर्षिता || 001c
सुता द्रुपदराजस्य स्वसितायतमूर्धजा | 002a
सम्पूज्य सहदेवं च सात्यकिं च महारथम् || 002c
भीमसेनं च संशान्तं दृष्ट्वा परमदुर्मनाः | 003a
अश्रुपूर्णेक्षणा वाक्यमुवाचेदं मनस्विनी || 003c
विदितं ते महाबाहो धर्मज्ञ मधुसूदन | 004a
यथा निकृतिमास्थाय भ्रंशिताः पाण्डवाः सुखात् || 004c
धृतराष्ट्रस्य पुत्रेण सामात्येन जनार्दन | 005a
यथा च सञ्जयो राज्ञा मन्त्रं रहसि श्रावितः || 005c
युधिष्ठिरेण दाशार्ह तच्चापि विदितं तव | 006a
यथोक्तः सञ्जयश्चैव तच्च सर्वं श्रुतं त्वया || 006c
पञ्च नस्तात दीयन्तां ग्रामा इति महाद्युते | 007a
कुशस्थलं वृकस्थलमासन्दी वारणावतम् || 007c
अवसानं महाबाहो किञ्चिदेव तु पञ्चमम् | 008a
इति दुर्योधनो वाच्यः सुहृदश्चास्य केशव || 008c
तच्चापि नाकरोद्वाक्यं श्रुत्वा कृष्ण सुयोधनः | 009a
युधिष्ठिरस्य दाशार्ह ह्रीमतः सन्धिमिच्छतः || 009c
अप्रदानेन राज्यस्य यदि कृष्ण सुयोधनः | 010a
सन्धिमिच्छेन्न कर्तव्यस्तत्र गत्वा कथञ्चन || 010c
शक्ष्यन्ति हि महाबाहो पाण्डवाः सृञ्जयैः सह | 011a
धार्तराष्ट्रबलं घोरं क्रुद्धं प्रतिसमासितुम् || 011c
न हि साम्ना न दानेन शक्योऽर्थस्तेषु कश्चन | 012a
तस्मात्तेषु न कर्तव्या कृपा ते मधुसूदन || 012c
साम्ना दानेन वा कृष्ण ये न शाम्यन्ति शत्रवः | 013a
मोक्तव्यस्तेषु दण्डः स्याज्जीवितं परिरक्षता || 013c
तस्मात्तेषु महादण्डः क्षेप्तव्यः क्षिप्रमच्युत | 014a
त्वया चैव महाबाहो पाण्डवैः सह सृञ्जयैः || 014c
एतत्समर्थं पार्थानां तव चैव यशस्करम् | 015a
क्रियमाणं भवेत्कृष्ण क्षत्रस्य च सुखावहम् || 015c
क्षत्रियेण हि हन्तव्यः क्षत्रियो लोभमास्थितः | 016a
अक्षत्रियो वा दाशार्ह स्वधर्ममनुतिष्ठता || 016c
अन्यत्र ब्राह्मणात्तात सर्वपापेष्ववस्थितात् | 017a
गुरुर्हि सर्ववर्णानां ब्राह्मणः प्रसृताग्रभुक् || 017c
यथावध्ये भवेद्दोषो वध्यमाने जनार्दन | 018a
स वध्यस्यावधे दृष्ट इति धर्मविदो विदुः || 018c
यथा त्वां न स्पृशेदेष दोषः कृष्ण तथा कुरु | 019a
पाण्डवैः सह दाशार्ह सृञ्जयैश्च ससैनिकैः || 019c
पुनरुक्तं च वक्ष्यामि विश्रम्भेण जनार्दन | 020a
का नु सीमन्तिनी मादृक्पृथिव्यामस्ति केशव || 020c
सुता द्रुपदराजस्य वेदिमध्यात्समुत्थिता | 021a
धृष्टद्युम्नस्य भगिनी तव कृष्ण प्रिया सखी || 021c
आजमीढकुलं प्राप्ता स्नुषा पाण्डोर्महात्मनः | 022a
महिषी पाण्डुपुत्राणां पञ्चेन्द्रसमवर्चसाम् || 022c
सुता मे पञ्चभिर्वीरैः पञ्च जाता महारथाः | 023a
अभिमन्युर्यथा कृष्ण तथा ते तव धर्मतः || 023c
साहं केशग्रहं प्राप्ता परिक्लिष्टा सभां गता | 024a
पश्यतां पाण्डुपुत्राणां त्वयि जीवति केशव || 024c
जीवत्सु कौरवेयेषु पाञ्चालेष्वथ वृष्णिषु | 025a
दासीभूतास्मि पापानां सभामध्ये व्यवस्थिता || 025c
निरामर्षेष्वचेष्टेषु प्रेक्षमाणेषु पाण्डुषु | 026a
त्राहि मामिति गोविन्द मनसा काङ्क्षितोऽसि मे || 026c
यत्र मां भगवान्राजा श्वशुरो वाक्यमब्रवीत् | 027a
वरं वृणीष्व पाञ्चालि वरार्हासि मतासि मे || 027c
अदासाः पाण्डवाः सन्तु सरथाः सायुधा इति | 028a
मयोक्ते यत्र निर्मुक्ता वनवासाय केशव || 028c
एवंविधानां दुःखानामभिज्ञोऽसि जनार्दन | 029a
त्राहि मां पुण्डरीकाक्ष सभर्तृज्ञातिबान्धवाम् || 029c
नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः | 030a
स्नुषा भवामि धर्मेण साहं दासीकृताभवम् || 030c
धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम् | 031a
यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति || 031c
यदि तेऽहमनुग्राह्या यदि तेऽस्ति कृपा मयि | 032a
धार्तराष्ट्रेषु वै कोपः सर्वः कृष्ण विधीयताम् || 032c
इत्युक्त्वा मृदुसंहारं वृजिनाग्रं सुदर्शनम् | 033a
सुनीलमसितापाङ्गी पुण्यगन्धाधिवासितम् || 033c
सर्वलक्षणसम्पन्नं महाभुजगवर्चसम् | 034a
केशपक्षं वरारोहा गृह्य सव्येन पाणिना || 034c
पद्माक्षी पुण्डरीकाक्षमुपेत्य गजगामिनी | 035a
अश्रुपूर्णेक्षणा कृष्णा कृष्णं वचनमब्रवीत् || 035c
अयं ते पुण्डरीकाक्ष दुःशासनकरोद्धृतः | 036a
स्मर्तव्यः सर्वकालेषु परेषां सन्धिमिच्छता || 036c
यदि भीमार्जुनौ कृष्ण कृपणौ सन्धिकामुकौ | 037a
पिता मे योत्स्यते वृद्धः सह पुत्रैर्महारथैः || 037c
पञ्च चैव महावीर्याः पुत्रा मे मधुसूदन | 038a
अभिमन्युं पुरस्कृत्य योत्स्यन्ति कुरुभिः सह || 038c
दुःशासनभुजं श्यामं सञ्छिन्नं पांसुगुण्ठितम् | 039a
यद्यहं तं न पश्यामि का शान्तिर्हृदयस्य मे || 039c
त्रयोदश हि वर्षाणि प्रतीक्षन्त्या गतानि मे | 040a
निधाय हृदये मन्युं प्रदीप्तमिव पावकम् || 040c
विदीर्यते मे हृदयं भीमवाक्शल्यपीडितम् | 041a
योऽयमद्य महाबाहुर्धर्मं समनुपश्यति || 041c
इत्युक्त्वा बाष्पसन्नेन कण्ठेनायतलोचना | 042a
रुरोद कृष्णा सोत्कम्पं सस्वरं बाष्पगद्गदम् || 042c
स्तनौ पीनायतश्रोणी सहितावभिवर्षती | 043a
द्रवीभूतमिवात्युष्णमुत्सृजद्वारि नेत्रजम् || 043c
तामुवाच महाबाहुः केशवः परिसान्त्वयन् | 044a
अचिराद्द्रक्ष्यसे कृष्णे रुदतीर्भरतस्त्रियः || 044c
एवं ता भीरु रोत्स्यन्ति निहतज्ञातिबान्धवाः | 045a
हतमित्रा हतबला येषां क्रुद्धासि भामिनि || 045c
अहं च तत्करिष्यामि भीमार्जुनयमैः सह | 046a
युधिष्ठिरनियोगेन दैवाच्च विधिनिर्मितात् || 046c
धार्तराष्ट्राः कालपक्वा न चेच्छृण्वन्ति मे वचः | 047a
शेष्यन्ते निहता भूमौ श्वशृगालादनीकृताः || 047c
चलेद्धि हिमवाञ्शैलो मेदिनी शतधा भवेत् | 048a
द्यौः पतेच्च सनक्षत्रा न मे मोघं वचो भवेत् || 048c
सत्यं ते प्रतिजानामि कृष्णे बाष्पो निगृह्यताम् | 049a
हतामित्राञ्श्रिया युक्तानचिराद्द्रक्ष्यसे पतीन् || 049c