सहदेव उवाच || 001
यदेतत्कथितं राज्ञा धर्म एष सनातनः | 001a
यथा तु युद्धमेव स्यात्तथा कार्यमरिन्दम || 001c
यदि प्रशममिच्छेयुः कुरवः पाण्डवैः सह | 002a
तथापि युद्धं दाशार्ह योजयेथाः सहैव तैः || 002c
कथं नु दृष्ट्वा पाञ्चालीं तथा क्लिष्टां सभागताम् | 003a
अवधेन प्रशाम्येत मम मन्युः सुयोधने || 003c
यदि भीमार्जुनौ कृष्ण धर्मराजश्च धार्मिकः | 004a
धर्ममुत्सृज्य तेनाहं योद्धुमिच्छामि संयुगे || 004c
सात्यकिरुवाच || 005
सत्यमाह महाबाहो सहदेवो महामतिः | 005a
दुर्योधनवधे शान्तिस्तस्य कोपस्य मे भवेत् || 005c
जानासि हि यथा दृष्ट्वा चीराजिनधरान्वने | 006a
तवापि मन्युरुद्भूतो दुःखितान्प्रेक्ष्य पाण्डवान् || 006c
तस्मान्माद्रीसुतः शूरो यदाह पुरुषर्षभः | 007a
वचनं सर्वयोधानां तन्मतं पुरुषोत्तम || 007c
वैशम्पायन उवाच || 008
एवं वदति वाक्यं तु युयुधाने महामतौ | 008a
सुभीमः सिंहनादोऽभूद्योधानां तत्र सर्वशः || 008c
सर्वे हि सर्वतो वीरास्तद्वचः प्रत्यपूजयन् | 009a
साधु साध्विति शैनेयं हर्षयन्तो युयुत्सवः || 009c