नकुल उवाच || 001
उक्तं बहुविधं वाक्यं धर्मराजेन माधव | 001a
धर्मज्ञेन वदान्येन धर्मयुक्तं च तत्त्वतः || 001c
मतमाज्ञाय राज्ञश्च भीमसेनेन माधव | 002a
संशमो बाहुवीर्यं च ख्यापितं माधवात्मनः || 002c
तथैव फल्गुनेनापि यदुक्तं तत्त्वया श्रुतम् | 003a
आत्मनश्च मतं वीर कथितं भवतासकृत् || 003c
सर्वमेतदतिक्रम्य श्रुत्वा परमतं भवान् | 004a
यत्प्राप्तकालं मन्येथास्तत्कुर्याः पुरुषोत्तम || 004c
तस्मिंस्तस्मिन्निमित्ते हि मतं भवति केशव | 005a
प्राप्तकालं मनुष्येण स्वयं कार्यमरिन्दम || 005c
अन्यथा चिन्तितो ह्यर्थः पुनर्भवति सोऽन्यथा | 006a
अनित्यमतयो लोके नराः पुरुषसत्तम || 006c
अन्यथा बुद्धयो ह्यासन्नस्मासु वनवासिषु | 007a
अदृश्येष्वन्यथा कृष्ण दृश्येषु पुनरन्यथा || 007c
अस्माकमपि वार्ष्णेय वने विचरतां तदा | 008a
न तथा प्रणयो राज्ये यथा सम्प्रति वर्तते || 008c
निवृत्तवनवासान्नः श्रुत्वा वीर समागताः | 009a
अक्षौहिण्यो हि सप्तेमास्त्वत्प्रसादाज्जनार्दन || 009c
इमान्हि पुरुषव्याघ्रानचिन्त्यबलपौरुषान् | 010a
आत्तशस्त्रान्रणे दृष्ट्वा न व्यथेदिह कः पुमान् || 010c
स भवान्कुरुमध्ये तं सान्त्वपूर्वं भयान्वितम् | 011a
ब्रूयाद्वाक्यं यथा मन्दो न व्यथेत सुयोधनः || 011c
युधिष्ठिरं भीमसेनं बीभत्सुं चापराजितम् | 012a
सहदेवं च मां चैव त्वां च रामं च केशव || 012c
सात्यकिं च महावीर्यं विराटं च सहात्मजम् | 013a
द्रुपदं च सहामात्यं धृष्टद्युम्नं च पार्षतम् || 013c
काशिराजं च विक्रान्तं धृष्टकेतुं च चेदिपम् | 014a
मांसशोणितभृन्मर्त्यः प्रतियुध्येत को युधि || 014c
स भवान्गमनादेव साधयिष्यत्यसंशयम् | 015a
इष्टमर्थं महाबाहो धर्मराजस्य केवलम् || 015c
विदुरश्चैव भीष्मश्च द्रोणश्च सहबाह्लिकः | 016a
श्रेयः समर्था विज्ञातुमुच्यमानं त्वयानघ || 016c
ते चैनमनुनेष्यन्ति धृतराष्ट्रं जनाधिपम् | 017a
तं च पापसमाचारं सहामात्यं सुयोधनम् || 017c
श्रोता चार्थस्य विदुरस्त्वं च वक्ता जनार्दन | 018a
कमिवार्थं विवर्तन्तं स्थापयेतां न वर्त्मनि || 018c