भगवानुवाच || 001
एवमेतन्महाबाहो यथा वदसि पाण्डव | 001a
सर्वं त्विदं समायत्तं बीभत्सो कर्मणोर्द्वयोः || 001c
क्षेत्रं हि रसवच्छुद्धं कर्षकेणोपपादितम् | 002a
ऋते वर्षं न कौन्तेय जातु निर्वर्तयेत्फलम् || 002c
तत्र वै पौरुषं ब्रूयुरासेकं यत्नकारितम् | 003a
तत्र चापि ध्रुवं पश्येच्छोषणं दैवकारितम् || 003c
तदिदं निश्चितं बुद्ध्या पूर्वैरपि महात्मभिः | 004a
दैवे च मानुषे चैव संयुक्तं लोककारणम् || 004c
अहं हि तत्करिष्यामि परं पुरुषकारतः | 005a
दैवं तु न मया शक्यं कर्म कर्तुं कथञ्चन || 005c
स हि धर्मं च सत्यं च त्यक्त्वा चरति दुर्मतिः | 006a
न हि सन्तप्यते तेन तथारूपेण कर्मणा || 006c
तां चापि बुद्धिं पापिष्ठां वर्धयन्त्यस्य मन्त्रिणः | 007a
शकुनिः सूतपुत्रश्च भ्राता दुःशासनस्तथा || 007c
स हि त्यागेन राज्यस्य न शमं समुपेष्यति | 008a
अन्तरेण वधात्पार्थ सानुबन्धः सुयोधनः || 008c
न चापि प्रणिपातेन त्यक्तुमिच्छति धर्मराट् | 009a
याच्यमानस्तु राज्यं स न प्रदास्यति दुर्मतिः || 009c
न तु मन्ये स तद्वाच्यो यद्युधिष्ठिरशासनम् | 010a
उक्तं प्रयोजनं तत्र धर्मराजेन भारत || 010c
तथा पापस्तु तत्सर्वं न करिष्यति कौरवः | 011a
तस्मिंश्चाक्रियमाणेऽसौ लोकवध्यो भविष्यति || 011c
मम चापि स वध्यो वै जगतश्चापि भारत | 012a
येन कौमारके यूयं सर्वे विप्रकृतास्तथा || 012c
विप्रलुप्तं च वो राज्यं नृशंसेन दुरात्मना | 013a
न चोपशाम्यते पापः श्रियं दृष्ट्वा युधिष्ठिरे || 013c
असकृच्चाप्यहं तेन त्वत्कृते पार्थ भेदितः | 014a
न मया तद्गृहीतं च पापं तस्य चिकीर्षितम् || 014c
जानासि हि महाबाहो त्वमप्यस्य परं मतम् | 015a
प्रियं चिकीर्षमाणं च धर्मराजस्य मामपि || 015c
स जानंस्तस्य चात्मानं मम चैव परं मतम् | 016a
अजानन्निव चाकस्मादर्जुनाद्याभिशङ्कसे || 016c
यच्चापि परमं दिव्यं तच्चाप्यवगतं त्वया | 017a
विधानविहितं पार्थ कथं शर्म भवेत्परैः || 017c
यत्तु वाचा मया शक्यं कर्मणा चापि पाण्डव | 018a
करिष्ये तदहं पार्थ न त्वाशंसे शमं परैः || 018c
कथं गोहरणे ब्रूयादिच्छञ्शर्म तथाविधम् | 019a
याच्यमानोऽपि भीष्मेण संवत्सरगतेऽध्वनि || 019c
तदैव ते पराभूता यदा सङ्कल्पितास्त्वया | 020a
लवशः क्षणशश्चापि न च तुष्टः सुयोधनः || 020c
सर्वथा तु मया कार्यं धर्मराजस्य शासनम् | 021a
विभाव्यं तस्य भूयश्च कर्म पापं दुरात्मनः || 021c