भगवानुवाच 001
भावं जिज्ञासमानोऽहं प्रणयादिदमब्रुवम् 001a
न चाक्षेपान्न पाण्डित्यान्न क्रोधान्न विवक्षया 001c
वेदाहं तव माहात्म्यमुत ते वेद यद्बलम् 002a
उत ते वेद कर्माणि न त्वां परिभवाम्यहम् 002c
यथा चात्मनि कल्याणं सम्भावयसि पाण्डव 003a
सहस्रगुणमप्येतत्त्वयि सम्भावयाम्यहम् 003c
यादृशे च कुले जन्म सर्वराजाभिपूजिते 004a
बन्धुभिश्च सुहृद्भिश्च भीम त्वमसि तादृशः 004c
जिज्ञासन्तो हि धर्मस्य सन्दिग्धस्य वृकोदर 005a
पर्यायं न व्यवस्यन्ति दैवमानुषयोर्जनाः 005c
स एव हेतुर्भूत्वा हि पुरुषस्यार्थसिद्धिषु 006a
विनाशेऽपि स एवास्य सन्दिग्धं कर्म पौरुषम् 006c
अन्यथा परिदृष्टानि कविभिर्दोषदर्शिभिः 007a
अन्यथा परिवर्तन्ते वेगा इव नभस्वतः 007c
सुमन्त्रितं सुनीतं च न्यायतश्चोपपादितम् 008a
कृतं मानुष्यकं कर्म दैवेनापि विरुध्यते 008c
दैवमप्यकृतं कर्म पौरुषेण विहन्यते 009a
शीतमुष्णं तथा वर्षं क्षुत्पिपासे च भारत 009c
यदन्यद्दिष्टभावस्य पुरुषस्य स्वयङ्कृतम् 010a
तस्मादनवरोधश्च विद्यते तत्र लक्षणम् 010c
लोकस्य नान्यतो वृत्तिः पाण्डवान्यत्र कर्मणः 011a
एवम्बुद्धिः प्रवर्तेत फलं स्यादुभयान्वयात् 011c
य एवं कृतबुद्धिः सन्कर्मस्वेव प्रवर्तते 012a
नासिद्धौ व्यथते तस्य न सिद्धौ हर्षमश्नुते 012c
तत्रेयमर्थमात्रा मे भीमसेन विवक्षिता 013a
नैकान्तसिद्धिर्मन्तव्या कुरुभिः सह संयुगे 013c
नातिप्रणीतरश्मिः स्यात्तथा भवति पर्यये 014a
विषादमर्छेद्ग्लानिं वा एतदर्थं ब्रवीमि ते 014c
श्वोभूते धृतराष्ट्रस्य समीपं प्राप्य पाण्डव 015a
यतिष्ये प्रशमं कर्तुं युष्मदर्थमहापयन् 015c
शमं चेत्ते करिष्यन्ति ततोऽनन्तं यशो मम 016a
भवतां च कृतः कामस्तेषां च श्रेय उत्तमम् 016c
ते चेदभिनिवेक्ष्यन्ति नाभ्युपैष्यन्ति मे वचः 017a
कुरवो युद्धमेवात्र रौद्रं कर्म भविष्यति 017c
अस्मिन्युद्धे भीमसेन त्वयि भारः समाहितः 018a
धूरर्जुनेन धार्या स्याद्वोढव्य इतरो जनः 018c
अहं हि यन्ता बीभत्सोर्भविता संयुगे सति 019a
धनञ्जयस्यैष कामो न हि युद्धं न कामये 019c
तस्मादाशङ्कमानोऽहं वृकोदर मतिं तव 020a
तुदन्नक्लीबया वाचा तेजस्ते समदीपयम् 020c