वैशम्पायन उवाच 001
तथोक्तो वासुदेवेन नित्यमन्युरमर्षणः 001a
सदश्ववत्समाधावद्बभाषे तदनन्तरम् 001c
अन्यथा मां चिकीर्षन्तमन्यथा मन्यसेऽच्युत 002a
प्रणीतभावमत्यन्तं युधि सत्यपराक्रमम् 002c
वेत्थ दाशार्ह सत्त्वं मे दीर्घकालं सहोषितः 003a
उत वा मां न जानासि प्लवन्ह्रद इवाप्लवः 003c
तस्मादप्रतिरूपाभिर्वाग्भिर्मां त्वं समर्छसि 003e
कथं हि भीमसेनं मां जानन्कश्चन माधव 004a
ब्रूयादप्रतिरूपाणि यथा मां वक्तुमर्हसि 004c
तस्मादिदं प्रवक्ष्यामि वचनं वृष्णिनन्दन 005a
आत्मनः पौरुषं चैव बलं च न समं परैः 005c
सर्वथा नार्यकर्मैतत्प्रशंसा स्वयमात्मनः 006a
अतिवादापविद्धस्तु वक्ष्यामि बलमात्मनः 006c
पश्येमे रोदसी कृष्ण ययोरासन्निमाः प्रजाः 007a
अचले चाप्यनन्ते च प्रतिष्ठे सर्वमातरौ 007c
यदीमे सहसा क्रुद्धे समेयातां शिले इव 008a
अहमेते निगृह्णीयां बाहुभ्यां सचराचरे 008c
पश्यैतदन्तरं बाह्वोर्महापरिघयोरिव 009a
य एतत्प्राप्य मुच्येत न तं पश्यामि पूरुषम् 009c
हिमवांश्च समुद्रश्च वज्री च बलभित्स्वयम् 010a
मयाभिपन्नं त्रायेरन्बलमास्थाय न त्रयः 010c
युध्येयं क्षत्रियान्सर्वान्पाण्डवेष्वाततायिनः 011a
अधः पादतलेनैतानधिष्ठास्यामि भूतले 011c
न हि त्वं नाभिजानासि मम विक्रममच्युत 012a
यथा मया विनिर्जित्य राजानो वशगाः कृताः 012c
अथ चेन्मां न जानासि सूर्यस्येवोद्यतः प्रभाम् 013a
विगाढे युधि सम्बाधे वेत्स्यसे मां जनार्दन 013c
किं मात्यवाक्षीः परुषैर्व्रणं सूच्या इवानघ 014a
यथामति ब्रवीम्येतद्विद्धि मामधिकं ततः 014c
द्रष्टासि युधि सम्बाधे प्रवृत्ते वैशसेऽहनि 015a
मया प्रणुन्नान्मातङ्गान्रथिनः सादिनस्तथा 015c
तथा नरानभिक्रुद्धं निघ्नन्तं क्षत्रियर्षभान् 016a
द्रष्टा मां त्वं च लोकश्च विकर्षन्तं वरान्वरान् 016c
न मे सीदन्ति मज्जानो न ममोद्वेपते मनः 017a
सर्वलोकादभिक्रुद्धान्न भयं विद्यते मम 017c
किं तु सौहृदमेवैतत्कृपया मधुसूदन 018a
सर्वांस्तितिक्षे सङ्क्लेशान्मा स्म नो भरता नशन् 018c