वैशम्पायन उवाच 001
एतच्छ्रुत्वा महाबाहुः केशवः प्रहसन्निव 001a
अभूतपूर्वं भीमस्य मार्दवोपगतं वचः 001c
गिरेरिव लघुत्वं तच्छीतत्वमिव पावके 002a
मत्वा रामानुजः शौरिः शार्ङ्गधन्वा वृकोदरम् 002c
सन्तेजयंस्तदा वाग्भिर्मातरिश्वेव पावकम् 003a
उवाच भीममासीनं कृपयाभिपरिप्लुतम् 003c
त्वमन्यदा भीमसेन युद्धमेव प्रशंससि 004a
वधाभिनन्दिनः क्रूरान्धार्तराष्ट्रान्मिमर्दिषुः 004c
न च स्वपिषि जागर्षि न्युब्जः शेषे परन्तप 005a
घोरामशान्तां रुशतीं सदा वाचं प्रभाषसे 005c
निःश्वसन्नग्निवर्णेन सन्तप्तः स्वेन मन्युना 006a
अप्रशान्तमना भीम सधूम इव पावकः 006c
एकान्ते निष्टनञ्शेषे भारार्त इव दुर्बलः 007a
अपि त्वां केचिदुन्मत्तं मन्यन्तेऽतद्विदो जनाः 007c
आरुज्य वृक्षान्निर्मूलान्गजः परिभुजन्निव 008a
निघ्नन्पद्भिः क्षितिं भीम निष्टनन्परिधावसि 008c
नास्मिञ्जनेऽभिरमसे रहः क्षियसि पाण्डव 009a
नान्यं निशि दिवा वापि कदाचिदभिनन्दसि 009c
अकस्मात्स्मयमानश्च रहस्यास्से रुदन्निव 010a
जान्वोर्मूर्धानमाधाय चिरमास्से प्रमीलितः 010c
भ्रुकुटिं च पुनः कुर्वन्नोष्ठौ च विलिहन्निव 011a
अभीक्ष्णं दृश्यसे भीम सर्वं तन्मन्युकारितम् 011c
यथा पुरस्तात्सविता दृश्यते शुक्रमुच्चरन् 012a
यथा च पश्चान्निर्मुक्तो ध्रुवं पर्येति रश्मिवान् 012c
तथा सत्यं ब्रवीम्येतन्नास्ति तस्य व्यतिक्रमः 013a
हन्ताहं गदयाभ्येत्य दुर्योधनममर्षणम् 013c
इति स्म मध्ये भ्रातॄणां सत्येनालभसे गदाम् 014a
तस्य ते प्रशमे बुद्धिर्धीयतेऽद्य परन्तप 014c
अहो युद्धप्रतीपानि युद्धकाल उपस्थिते 015a
पश्यसीवाप्रतीपानि किं त्वां भीर्भीम विन्दति 015c
अहो पार्थ निमित्तानि विपरीतानि पश्यसि 016a
स्वप्नान्ते जागरान्ते च तस्मात्प्रशममिच्छसि 016c
अहो नाशंससे किञ्चित्पुंस्त्वं क्लीब इवात्मनि 017a
कश्मलेनाभिपन्नोऽसि तेन ते विकृतं मनः 017c
उद्वेपते ते हृदयं मनस्ते प्रविषीदति 018a
ऊरुस्तम्भगृहीतोऽसि तस्मात्प्रशममिच्छसि 018c
अनित्यं किल मर्त्यस्य चित्तं पार्थ चलाचलम् 019a
वातवेगप्रचलिता अष्ठीला शाल्मलेरिव 019c
तवैषा विकृता बुद्धिर्गवां वागिव मानुषी 020a
मनांसि पाण्डुपुत्राणां मज्जयत्यप्लवानिव 020c
इदं मे महदाश्चर्यं पर्वतस्येव सर्पणम् 021a
यदीदृशं प्रभाषेथा भीमसेनासमं वचः 021c
स दृष्ट्वा स्वानि कर्माणि कुले जन्म च भारत 022a
उत्तिष्ठस्व विषादं मा कृथा वीर स्थिरो भव 022c
न चैतदनुरूपं ते यत्ते ग्लानिररिन्दम 023a
यदोजसा न लभते क्षत्रियो न तदश्नुते 023c