भीमसेन उवाच 001
यथा यथैव शान्तिः स्यात्कुरूणां मधुसूदन 001a
तथा तथैव भाषेथा मा स्म युद्धेन भीषयेः 001c
अमर्षी नित्यसंरब्धः श्रेयोद्वेषी महामनाः 002a
नोग्रं दुर्योधनो वाच्यः साम्नैवैनं समाचरेः 002c
प्रकृत्या पापसत्त्वश्च तुल्यचेताश्च दस्युभिः 003a
ऐश्वर्यमदमत्तश्च कृतवैरश्च पाण्डवैः 003c
अदीर्घदर्शी निष्ठूरी क्षेप्ता क्रूरपराक्रमः 004a
दीर्घमन्युरनेयश्च पापात्मा निकृतिप्रियः 004c
म्रियेतापि न भज्येत नैव जह्यात्स्वकं मतम् 005a
तादृशेन शमं कृष्ण मन्ये परमदुष्करम् 005c
सुहृदामप्यवाचीनस्त्यक्तधर्मः प्रियानृतः 006a
प्रतिहन्त्येव सुहृदां वाचश्चैव मनांसि च 006c
स मन्युवशमापन्नः स्वभावं दुष्टमास्थितः 007a
स्वभावात्पापमन्वेति तृणैस्तुन्न इवोरगः 007c
दुर्योधनो हि यत्सेनः सर्वथा विदितस्तव 008a
यच्छीलो यत्स्वभावश्च यद्बलो यत्पराक्रमः 008c
पुरा प्रसन्नाः कुरवः सहपुत्रास्तथा वयम् 009a
इन्द्रज्येष्ठा इवाभूम मोदमानाः सबान्धवाः 009c
दुर्योधनस्य क्रोधेन भारता मधुसूदन 010a
धक्ष्यन्ते शिशिरापाये वनानीव हुताशनैः 010c
अष्टादशेमे राजानः प्रख्याता मधुसूदन 011a
ये समुच्चिच्छिदुर्ज्ञातीन्सुहृदश्च सबान्धवान् 011c
असुराणां समृद्धानां ज्वलतामिव तेजसा 012a
पर्यायकाले धर्मस्य प्राप्ते बलिरजायत 012c
हैहयानामुदावर्तो नीपानां जनमेजयः 013a
बहुलस्तालजङ्घानां कृमीणामुद्धतो वसुः 013c
अजबिन्दुः सुवीराणां सुराष्ट्राणां कुशर्द्धिकः 014a
अर्कजश्च बलीहानां चीनानां धौतमूलकः 014c
हयग्रीवो विदेहानां वरप्रश्च महौजसाम् 015a
बाहुः सुन्दरवेगानां दीप्ताक्षाणां पुरूरवाः 015c
सहजश्चेदिमत्स्यानां प्रचेतानां बृहद्बलः 016a
धारणश्चेन्द्रवत्सानां मुकुटानां विगाहनः 016c
शमश्च नन्दिवेगानामित्येते कुलपांसनाः 017a
युगान्ते कृष्ण सम्भूताः कुलेषु पुरुषाधमाः 017c
अप्ययं नः कुरूणां स्याद्युगान्ते कालसम्भृतः 018a
दुर्योधनः कुलाङ्गारो जघन्यः पापपूरुषः 018c
तस्मान्मृदु शनैरेनं ब्रूया धर्मार्थसंहितम् 019a
कामानुबन्धबहुलं नोग्रमुग्रपराक्रमम् 019c
अपि दुर्योधनं कृष्ण सर्वे वयमधश्चराः 020a
नीचैर्भूत्वानुयास्यामो मा स्म नो भरता नशन् 020c
अप्युदासीनवृत्तिः स्याद्यथा नः कुरुभिः सह 021a
वासुदेव तथा कार्यं न कुरूननयः स्पृशेत् 021c
वाच्यः पितामहो वृद्धो ये च कृष्ण सभासदः 022a
भ्रातॄणामस्तु सौभ्रात्रं धार्तराष्ट्रः प्रशाम्यताम् 022c
अहमेतद्ब्रवीम्येवं राजा चैव प्रशंसति 023a
अर्जुनो नैव युद्धार्थी भूयसी हि दयार्जुने 023c