भगवानुवाच 001
सञ्जयस्य श्रुतं वाक्यं भवतश्च श्रुतं मया 001a
सर्वं जानाम्यभिप्रायं तेषां च भवतश्च यः 001c
तव धर्माश्रिता बुद्धिस्तेषां वैराश्रिता मतिः 002a
यदयुद्धेन लभ्येत तत्ते बहुमतं भवेत् 002c
न च तन्नैष्ठिकं कर्म क्षत्रियस्य विशां पते 003a
आहुराश्रमिणः सर्वे यद्भैक्षं क्षत्रियश्चरेत् 003c
जयो वधो वा सङ्ग्रामे धात्रा दिष्टः सनातनः 004a
स्वधर्मः क्षत्रियस्यैष कार्पण्यं न प्रशस्यते 004c
न हि कार्पण्यमास्थाय शक्या वृत्तिर्युधिष्ठिर 005a
विक्रमस्व महाबाहो जहि शत्रूनरिन्दम 005c
अतिगृद्धाः कृतस्नेहा दीर्घकालं सहोषिताः 006a
कृतमित्राः कृतबला धार्तराष्ट्राः परन्तप 006c
न पर्यायोऽस्ति यत्साम्यं त्वयि कुर्युर्विशां पते 007a
बलवत्तां हि मन्यन्ते भीष्मद्रोणकृपादिभिः 007c
यावच्च मार्दवेनैतान्राजन्नुपचरिष्यसि 008a
तावदेते हरिष्यन्ति तव राज्यमरिन्दम 008c
नानुक्रोशान्न कार्पण्यान्न च धर्मार्थकारणात् 009a
अलं कर्तुं धार्तराष्ट्रास्तव काममरिन्दम 009c
एतदेव निमित्तं ते पाण्डवास्तु यथा त्वयि 010a
नान्वतप्यन्त कौपीनं तावत्कृत्वापि दुष्करम् 010c
पितामहस्य द्रोणस्य विदुरस्य च धीमतः 011a
पश्यतां कुरुमुख्यानां सर्वेषामेव तत्त्वतः 011c
दानशीलं मृदुं दान्तं धर्मकाममनुव्रतम् 012a
यत्त्वामुपधिना राजन्द्यूतेनावञ्चयत्तदा 012c
न चापत्रपते पापो नृशंसस्तेन कर्मणा 012e
तथाशीलसमाचारे राजन्मा प्रणयं कृथाः 013a
वध्यास्ते सर्वलोकस्य किं पुनस्तव भारत 013c
वाग्भिस्त्वप्रतिरूपाभिरतुदत्सकनीयसम् 014a
श्लाघमानः प्रहृष्टः सन्भाषते भ्रातृभिः सह 014c
एतावत्पाण्डवानां हि नास्ति किञ्चिदिह स्वकम् 015a
नामधेयं च गोत्रं च तदप्येषां न शिष्यते 015c
कालेन महता चैषां भविष्यति पराभवः 016a
प्रकृतिं ते भजिष्यन्ति नष्टप्रकृतयो जनाः 016c
एताश्चान्याश्च परुषा वाचः स समुदीरयन् 017a
श्लाघते ज्ञातिमध्ये स्म त्वयि प्रव्रजिते वनम् 017c
ये तत्रासन्समानीतास्ते दृष्ट्वा त्वामनागसम् 018a
अश्रुकण्ठा रुदन्तश्च सभायामासते तदा 018c
न चैनमभ्यनन्दंस्ते राजानो ब्राह्मणैः सह 019a
सर्वे दुर्योधनं तत्र निन्दन्ति स्म सभासदः 019c
कुलीनस्य च या निन्दा वधश्चामित्रकर्शन 020a
महागुणो वधो राजन्न तु निन्दा कुजीविका 020c
तदैव निहतो राजन्यदैव निरपत्रपः 021a
निन्दितश्च महाराज पृथिव्यां सर्वराजसु 021c
ईषत्कार्यो वधस्तस्य यस्य चारित्रमीदृशम् 022a
प्रस्कम्भनप्रतिस्तब्धश्छिन्नमूल इव द्रुमः 022c
वध्यः सर्प इवानार्यः सर्वलोकस्य दुर्मतिः 023a
जह्येनं त्वममित्रघ्न मा राजन्विचिकित्सिथाः 023c
सर्वथा त्वत्क्षमं चैतद्रोचते च ममानघ 024a
यत्त्वं पितरि भीष्मे च प्रणिपातं समाचरेः 024c
अहं तु सर्वलोकस्य गत्वा छेत्स्यामि संशयम् 025a
येषामस्ति द्विधाभावो राजन्दुर्योधनं प्रति 025c
मध्ये राज्ञामहं तत्र प्रातिपौरुषिकान्गुणान् 026a
तव सङ्कीर्तयिष्यामि ये च तस्य व्यतिक्रमाः 026c
ब्रुवतस्तत्र मे वाक्यं धर्मार्थसहितं हितम् 027a
निशम्य पार्थिवाः सर्वे नानाजनपदेश्वराः 027c
त्वयि सम्प्रतिपत्स्यन्ते धर्मात्मा सत्यवागिति 028a
तस्मिंश्चाधिगमिष्यन्ति यथा लोभादवर्तत 028c
गर्हयिष्यामि चैवैनं पौरजानपदेष्वपि 029a
वृद्धबालानुपादाय चातुर्वर्ण्यसमागमे 029c
शमं चेद्याचमानस्त्वं न धर्मं तत्र लप्स्यसे 030a
कुरून्विगर्हयिष्यन्ति धृतराष्ट्रं च पार्थिवाः 030c
तस्मिल्ँलोकपरित्यक्ते किं कार्यमवशिष्यते 031a
हते दुर्योधने राजन्यदन्यत्क्रियतामिति 031c
यात्वा चाहं कुरून्सर्वान्युष्मदर्थमहापयन् 032a
यतिष्ये प्रशमं कर्तुं लक्षयिष्ये च चेष्टितम् 032c
कौरवाणां प्रवृत्तिं च गत्वा युद्धाधिकारिकाम् 033a
निशाम्य विनिवर्तिष्ये जयाय तव भारत 033c
सर्वथा युद्धमेवाहमाशंसामि परैः सह 034a
निमित्तानि हि सर्वाणि तथा प्रादुर्भवन्ति मे 034c
मृगाः शकुन्ताश्च वदन्ति घोरं हस्त्यश्वमुख्येषु निशामुखेषु 035a
घोराणि रूपाणि तथैव चाग्निर्वर्णान्बहून्पुष्यति घोररूपान् 035c
मनुष्यलोकक्षपणोऽथ घोरो नो चेदनुप्राप्त इहान्तकः स्यात् 035e
शस्त्राणि पत्रं कवचान्रथांश्च नागान्ध्वजांश्च प्रतिपादयित्वा 036a
योधाश्च सर्वे कृतनिश्रमास्ते भवन्तु हस्त्यश्वरथेषु यत्ताः 036c
साङ्ग्रामिकं ते यदुपार्जनीयं सर्वं समग्रं कुरु तन्नरेन्द्र 036e
दुर्योधनो न ह्यलमद्य दातुं जीवंस्तवैतन्नृपते कथञ्चित् 037a
यत्ते पुरस्तादभवत्समृद्धं द्यूते हृतं पाण्डवमुख्य राज्यम् 037c