वैशम्पायन उवाच 001
सञ्जये प्रतियाते तु धर्मराजो युधिष्ठिरः 001a
अभ्यभाषत दाशार्हमृषभं सर्वसात्वताम् 001c
अयं स कालः सम्प्राप्तो मित्राणां मे जनार्दन 002a
न च त्वदन्यं पश्यामि यो न आपत्सु तारयेत् 002c
त्वां हि माधव संश्रित्य निर्भया मोहदर्पितम् 003a
धार्तराष्ट्रं सहामात्यं स्वमंशमनुयुञ्ज्महे 003c
यथा हि सर्वास्वापत्सु पासि वृष्णीनरिन्दम 004a
तथा ते पाण्डवा रक्ष्याः पाह्यस्मान्महतो भयात् 004c
भगवानुवाच 005
अयमस्मि महाबाहो ब्रूहि यत्ते विवक्षितम् 005a
करिष्यामि हि तत्सर्वं यत्त्वं वक्ष्यसि भारत 005c
युधिष्ठिर उवाच 006
श्रुतं ते धृतराष्ट्रस्य सपुत्रस्य चिकीर्षितम् 006a
एतद्धि सकलं कृष्ण सञ्जयो मां यदब्रवीत् 006c
तन्मतं धृतराष्ट्रस्य सोऽस्यात्मा विवृतान्तरः 007a
यथोक्तं दूत आचष्टे वध्यः स्यादन्यथा ब्रुवन् 007c
अप्रदानेन राज्यस्य शान्तिमस्मासु मार्गति 008a
लुब्धः पापेन मनसा चरन्नसममात्मनः 008c
यत्तद्द्वादश वर्षाणि वने निर्व्युषिता वयम् 009a
छद्मना शरदं चैकां धृतराष्ट्रस्य शासनात् 009c
स्थाता नः समये तस्मिन्धृतराष्ट्र इति प्रभो 010a
नाहास्म समयं कृष्ण तद्धि नो ब्राह्मणा विदुः 010c
वृद्धो राजा धृतराष्ट्रः स्वधर्मं नानुपश्यति 011a
पश्यन्वा पुत्रगृद्धित्वान्मन्दस्यान्वेति शासनम् 011c
सुयोधनमते तिष्ठन्राजास्मासु जनार्दन 012a
मिथ्या चरति लुब्धः संश्चरन्प्रियमिवात्मनः 012c
इतो दुःखतरं किं नु यत्राहं मातरं ततः 013a
संविधातुं न शक्नोमि मित्राणां वा जनार्दन 013c
काशिभिश्चेदिपाञ्चालैर्मत्स्यैश्च मधुसूदन 014a
भवता चैव नाथेन पञ्च ग्रामा वृता मया 014c
कुशस्थलं वृकस्थलमासन्दी वारणावतम् 015a
अवसानं च गोविन्द किञ्चिदेवात्र पञ्चमम् 015c
पञ्च नस्तात दीयन्तां ग्रामा वा नगराणि वा 016a
वसेम सहिता येषु मा च नो भरता नशन् 016c
न च तानपि दुष्टात्मा धार्तराष्ट्रोऽनुमन्यते 017a
स्वाम्यमात्मनि मत्वासावतो दुःखतरं नु किम् 017c
कुले जातस्य वृद्धस्य परवित्तेषु गृध्यतः 018a
लोभः प्रज्ञानमाहन्ति प्रज्ञा हन्ति हता ह्रियम् 018c
ह्रीर्हता बाधते धर्मं धर्मो हन्ति हतः श्रियम् 019a
श्रीर्हता पुरुषं हन्ति पुरुषस्यास्वता वधः 019c
अस्वतो हि निवर्तन्ते ज्ञातयः सुहृदर्त्विजः 020a
अपुष्पादफलाद्वृक्षाद्यथा तात पतत्रिणः 020c
एतच्च मरणं तात यदस्मात्पतितादिव 021a
ज्ञातयो विनिवर्तन्ते प्रेतसत्त्वादिवासवः 021c
नातः पापीयसीं काञ्चिदवस्थां शम्बरोऽब्रवीत् 022a
यत्र नैवाद्य न प्रातर्भोजनं प्रतिदृश्यते 022c
धनमाहुः परं धर्मं धने सर्वं प्रतिष्ठितम् 023a
जीवन्ति धनिनो लोके मृता ये त्वधना नराः 023c
ये धनादपकर्षन्ति नरं स्वबलमाश्रिताः 024a
ते धर्ममर्थं कामं च प्रमथ्नन्ति नरं च तम् 024c
एतामवस्थां प्राप्यैके मरणं वव्रिरे जनाः 025a
ग्रामायैके वनायैके नाशायैके प्रवव्रजुः 025c
उन्मादमेके पुष्यन्ति यान्त्यन्ये द्विषतां वशम् 026a
दास्यमेके निगच्छन्ति परेषामर्थहेतुना 026c
आपदेवास्य मरणात्पुरुषस्य गरीयसी 027a
श्रियो विनाशस्तद्ध्यस्य निमित्तं धर्मकामयोः 027c
यदस्य धर्म्यं मरणं शाश्वतं लोकवर्त्म तत् 028a
समन्तात्सर्वभूतानां न तदत्येति कश्चन 028c
न तथा बाध्यते कृष्ण प्रकृत्या निर्धनो जनः 029a
यथा भद्रां श्रियं प्राप्य तया हीनः सुखैधितः 029c
स तदात्मापराधेन सम्प्राप्तो व्यसनं महत् 030a
सेन्द्रान्गर्हयते देवान्नात्मानं च कथञ्चन 030c
न चास्मिन्सर्वशास्त्राणि प्रतरन्ति निगर्हणाम् 031a
सोऽभिक्रुध्यति भृत्यानां सुहृदश्चाभ्यसूयति 031c
तं तदा मन्युरेवैति स भूयः सम्प्रमुह्यति 032a
स मोहवशमापन्नः क्रूरं कर्म निषेवते 032c
पापकर्मात्ययायैव सङ्करं तेन पुष्यति 033a
सङ्करो नरकायैव सा काष्ठा पापकर्मणाम् 033c
न चेत्प्रबुध्यते कृष्ण नरकायैव गच्छति 034a
तस्य प्रबोधः प्रज्ञैव प्रज्ञाचक्षुर्न रिष्यति 034c
प्रज्ञालाभे हि पुरुषः शास्त्राण्येवान्ववेक्षते 035a
शास्त्रनित्यः पुनर्धर्मं तस्य ह्रीरङ्गमुत्तमम् 035c
ह्रीमान्हि पापं प्रद्वेष्टि तस्य श्रीरभिवर्धते 036a
श्रीमान्स यावद्भवति तावद्भवति पूरुषः 036c
धर्मनित्यः प्रशान्तात्मा कार्ययोगवहः सदा 037a
नाधर्मे कुरुते बुद्धिं न च पापेषु वर्तते 037c
अह्रीको वा विमूढो वा नैव स्त्री न पुनः पुमान् 038a
नास्याधिकारो धर्मेऽस्ति यथा शूद्रस्तथैव सः 038c
ह्रीमानवति देवांश्च पितॄनात्मानमेव च 039a
तेनामृतत्वं व्रजति सा काष्ठा पुण्यकर्मणाम् 039c
तदिदं मयि ते दृष्टं प्रत्यक्षं मधुसूदन 040a
यथा राज्यात्परिभ्रष्टो वसामि वसतीरिमाः 040c
ते वयं न श्रियं हातुमलं न्यायेन केनचित् 041a
अत्र नो यतमानानां वधश्चेदपि साधु तत् 041c
तत्र नः प्रथमः कल्पो यद्वयं ते च माधव 042a
प्रशान्ताः समभूताश्च श्रियं तामश्नुवीमहि 042c
तत्रैषा परमा काष्ठा रौद्रकर्मक्षयोदया 043a
यद्वयं कौरवान्हत्वा तानि राष्ट्राण्यशीमहि 043c
ये पुनः स्युरसम्बद्धा अनार्याः कृष्ण शत्रवः 044a
तेषामप्यवधः कार्यः किं पुनर्ये स्युरीदृशाः 044c
ज्ञातयश्च हि भूयिष्ठाः सहाया गुरवश्च नः 045a
तेषां वधोऽतिपापीयान्किं नु युद्धेऽस्ति शोभनम् 045c
पापः क्षत्रियधर्मोऽयं वयं च क्षत्रबान्धवाः 046a
स नः स्वधर्मोऽधर्मो वा वृत्तिरन्या विगर्हिता 046c
शूद्रः करोति शुश्रूषां वैश्या विपणिजीविनः 047a
वयं वधेन जीवामः कपालं ब्राह्मणैर्वृतम् 047c
क्षत्रियः क्षत्रियं हन्ति मत्स्यो मत्स्येन जीवति 048a
श्वा श्वानं हन्ति दाशार्ह पश्य धर्मो यथागतः 048c
युद्धे कृष्ण कलिर्नित्यं प्राणाः सीदन्ति संयुगे 049a
बलं तु नीतिमात्राय हठे जयपराजयौ 049c
नात्मच्छन्देन भूतानां जीवितं मरणं तथा 050a
नाप्यकाले सुखं प्राप्यं दुःखं वापि यदूत्तम 050c
एको ह्यपि बहून्हन्ति घ्नन्त्येकं बहवोऽप्युत 051a
शूरं कापुरुषो हन्ति अयशस्वी यशस्विनम् 051c
जयश्चैवोभयोर्दृष्ट उभयोश्च पराजयः 052a
तथैवापचयो दृष्टो व्यपयाने क्षयव्ययौ 052c
सर्वथा वृजिनं युद्धं को घ्नन्न प्रतिहन्यते 053a
हतस्य च हृषीकेश समौ जयपराजयौ 053c
पराजयश्च मरणान्मन्ये नैव विशिष्यते 054a
यस्य स्याद्विजयः कृष्ण तस्याप्यपचयो ध्रुवम् 054c
अन्ततो दयितं घ्नन्ति केचिदप्यपरे जनाः 055a
तस्याङ्ग बलहीनस्य पुत्रान्भ्रातॄनपश्यतः 055c
निर्वेदो जीविते कृष्ण सर्वतश्चोपजायते 055e
ये ह्येव वीरा ह्रीमन्त आर्याः करुणवेदिनः 056a
त एव युद्धे हन्यन्ते यवीयान्मुच्यते जनः 056c
हत्वाप्यनुशयो नित्यं परानपि जनार्दन 057a
अनुबन्धश्च पापोऽत्र शेषश्चाप्यवशिष्यते 057c
शेषो हि बलमासाद्य न शेषमवशेषयेत् 058a
सर्वोच्छेदे च यतते वैरस्यान्तविधित्सया 058c
जयो वैरं प्रसृजति दुःखमास्ते पराजितः 059a
सुखं प्रशान्तः स्वपिति हित्वा जयपराजयौ 059c
जातवैरश्च पुरुषो दुःखं स्वपिति नित्यदा 060a
अनिर्वृतेन मनसा ससर्प इव वेश्मनि 060c
उत्सादयति यः सर्वं यशसा स वियुज्यते 061a
अकीर्तिं सर्वभूतेषु शाश्वतीं स नियच्छति 061c
न हि वैराणि शाम्यन्ति दीर्घकालकृतान्यपि 062a
आख्यातारश्च विद्यन्ते पुमांश्चोत्पद्यते कुले 062c
न चापि वैरं वैरेण केशव व्युपशाम्यति 063a
हविषाग्निर्यथा कृष्ण भूय एवाभिवर्धते 063c
अतोऽन्यथा नास्ति शान्तिर्नित्यमन्तरमन्ततः 064a
अन्तरं लिप्समानानामयं दोषो निरन्तरः 064c
पौरुषेयो हि बलवानाधिर्हृदयबाधनः 065a
तस्य त्यागेन वा शान्तिर्निवृत्त्या मनसोऽपि वा 065c
अथ वा मूलघातेन द्विषतां मधुसूदन 066a
फलनिर्वृत्तिरिद्धा स्यात्तन्नृशंसतरं भवेत् 066c
या तु त्यागेन शान्तिः स्यात्तदृते वध एव सः 067a
संशयाच्च समुच्छेदाद्द्विषतामात्मनस्तथा 067c
न च त्यक्तुं तदिच्छामो न चेच्छामः कुलक्षयम् 068a
अत्र या प्रणिपातेन शान्तिः सैव गरीयसी 068c
सर्वथा यतमानानामयुद्धमभिकाङ्क्षताम् 069a
सान्त्वे प्रतिहते युद्धं प्रसिद्धमपराक्रमम् 069c
प्रतिघातेन सान्त्वस्य दारुणं सम्प्रवर्तते 070a
तच्छुनामिव गोपादे पण्डितैरुपलक्षितम् 070c
लाङ्गूलचालनं क्ष्वेडः प्रतिरावो विवर्तनम् 071a
दन्तदर्शनमारावस्ततो युद्धं प्रवर्तते 071c
तत्र यो बलवान्कृष्ण जित्वा सोऽत्ति तदामिषम् 072a
एवमेव मनुष्येषु विशेषो नास्ति कश्चन 072c
सर्वथा त्वेतदुचितं दुर्बलेषु बलीयसाम् 073a
अनादरो विरोधश्च प्रणिपाती हि दुर्बलः 073c
पिता राजा च वृद्धश्च सर्वथा मानमर्हति 074a
तस्मान्मान्यश्च पूज्यश्च धृतराष्ट्रो जनार्दन 074c
पुत्रस्नेहस्तु बलवान्धृतराष्ट्रस्य माधव 075a
स पुत्रवशमापन्नः प्रणिपातं प्रहास्यति 075c
तत्र किं मन्यसे कृष्ण प्राप्तकालमनन्तरम् 076a
कथमर्थाच्च धर्माच्च न हीयेमहि माधव 076c
ईदृशे ह्यर्थकृच्छ्रेऽस्मिन्कमन्यं मधुसूदन 077a
उपसम्प्रष्टुमर्हामि त्वामृते पुरुषोत्तम 077c
प्रियश्च प्रियकामश्च गतिज्ञः सर्वकर्मणाम् 078a
को हि कृष्णास्ति नस्त्वादृक्सर्वनिश्चयवित्सुहृत् 078c
वैशम्पायन उवाच 079
एवमुक्तः प्रत्युवाच धर्मराजं जनार्दनः 079a
उभयोरेव वामर्थे यास्यामि कुरुसंसदम् 079c
शमं तत्र लभेयं चेद्युष्मदर्थमहापयन् 080a
पुण्यं मे सुमहद्राजंश्चरितं स्यान्महाफलम् 080c
मोचयेयं मृत्युपाशात्संरब्धान्कुरुसृञ्जयान् 081a
पाण्डवान्धार्तराष्ट्रांश्च सर्वां च पृथिवीमिमाम् 081c
युधिष्ठिर उवाच 082
न ममैतन्मतं कृष्ण यत्त्वं यायाः कुरून्प्रति 082a
सुयोधनः सूक्तमपि न करिष्यति ते वचः 082c
समेतं पार्थिवं क्षत्रं सुयोधनवशानुगम् 083a
तेषां मध्यावतरणं तव कृष्ण न रोचये 083c
न हि नः प्रीणयेद्द्रव्यं न देवत्वं कुतः सुखम् 084a
न च सर्वामरैश्वर्यं तव रोधेन माधव 084c
भगवानुवाच 085
जानाम्येतां महाराज धार्तराष्ट्रस्य पापताम् 085a
अवाच्यास्तु भविष्यामः सर्वलोके महीक्षिताम् 085c
न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः 086a
क्रुद्धस्य प्रमुखे स्थातुं सिंहस्येवेतरे मृगाः 086c
अथ चेत्ते प्रवर्तेरन्मयि किञ्चिदसाम्प्रतम् 087a
निर्दहेयं कुरून्सर्वानिति मे धीयते मतिः 087c
न जातु गमनं तत्र भवेत्पार्थ निरर्थकम् 088a
अर्थप्राप्तिः कदाचित्स्यादन्ततो वाप्यवाच्यता 088c
युधिष्ठिर उवाच 089
यत्तुभ्यं रोचते कृष्ण स्वस्ति प्राप्नुहि कौरवान् 089a
कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामि पुनरागतम् 089c
विष्वक्सेन कुरून्गत्वा भारताञ्शमयेः प्रभो 090a
यथा सर्वे सुमनसः सह स्यामः सुचेतसः 090c
भ्राता चासि सखा चासि बीभत्सोर्मम च प्रियः 091a
सौहृदेनाविशङ्क्योऽसि स्वस्ति प्राप्नुहि भूतये 091c
अस्मान्वेत्थ परान्वेत्थ वेत्थार्थं वेत्थ भाषितम् 092a
यद्यदस्मद्धितं कृष्ण तत्तद्वाच्यः सुयोधनः 092c
यद्यद्धर्मेण संयुक्तमुपपद्येद्धितं वचः 093a
तत्तत्केशव भाषेथाः सान्त्वं वा यदि वेतरत् 093c