धृतराष्ट्र उवाच 001
भूयो मे पुण्डरीकाक्षं सञ्जयाचक्ष्व पृच्छते 001a
नामकर्मार्थवित्तात प्राप्नुयां पुरुषोत्तमम् 001c
सञ्जय उवाच 002
श्रुतं मे तस्य देवस्य नामनिर्वचनं शुभम् 002a
यावत्तत्राभिजानेऽहमप्रमेयो हि केशवः 002c
वसनात्सर्वभूतानां वसुत्वाद्देवयोनितः 003a
वासुदेवस्ततो वेद्यो वृषत्वाद्वृष्णिरुच्यते 003c
मौनाद्ध्यानाच्च योगाच्च विद्धि भारत माधवम् 004a
सर्वतत्त्वलयाच्चैव मधुहा मधुसूदनः 004c
कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः 005a
कृष्णस्तद्भावयोगाच्च कृष्णो भवति शाश्वतः 005c
पुण्डरीकं परं धाम नित्यमक्षयमक्षरम् 006a
तद्भावात्पुण्डरीकाक्षो दस्युत्रासाज्जनार्दनः 006c
यतः सत्त्वं न च्यवते यच्च सत्त्वान्न हीयते 007a
सत्त्वतः सात्वतस्तस्मादार्षभाद्वृषभेक्षणः 007c
न जायते जनित्र्यां यदजस्तस्मादनीकजित् 008a
देवानां स्वप्रकाशत्वाद्दमाद्दामोदरं विदुः 008c
हर्षात्सौख्यात्सुखैश्वर्याद्धृषीकेशत्वमश्नुते 009a
बाहुभ्यां रोदसी बिभ्रन्महाबाहुरिति स्मृतः 009c
अधो न क्षीयते जातु यस्मात्तस्मादधोक्षजः 010a
नराणामयनाच्चापि तेन नारायणः स्मृतः 010c
पूरणात्सदनाच्चैव ततोऽसौ पुरुषोत्तमः 010e
असतश्च सतश्चैव सर्वस्य प्रभवाप्ययात् 011a
सर्वस्य च सदा ज्ञानात्सर्वमेनं प्रचक्षते 011c
सत्ये प्रतिष्ठितः कृष्णः सत्यमत्र प्रतिष्ठितम् 012a
सत्यात्सत्यं च गोविन्दस्तस्मात्सत्योऽपि नामतः 012c
विष्णुर्विक्रमणादेव जयनाज्जिष्णुरुच्यते 013a
शाश्वतत्वादनन्तश्च गोविन्दो वेदनाद्गवाम् 013c
अतत्त्वं कुरुते तत्त्वं तेन मोहयते प्रजाः 014a
एवंविधो धर्मनित्यो भगवान्मुनिभिः सह 014c
आगन्ता हि महाबाहुरानृशंस्यार्थमच्युतः 014e