धृतराष्ट्र उवाच 001
कथं त्वं माधवं वेत्थ सर्वलोकमहेश्वरम् 001a
कथमेनं न वेदाहं तन्ममाचक्ष्व सञ्जय 001c
सञ्जय उवाच 002
विद्या राजन्न ते विद्या मम विद्या न हीयते 002a
विद्याहीनस्तमोध्वस्तो नाभिजानाति केशवम् 002c
विद्यया तात जानामि त्रियुगं मधुसूदनम् 003a
कर्तारमकृतं देवं भूतानां प्रभवाप्ययम् 003c
धृतराष्ट्र उवाच 004
गावल्गणेऽत्र का भक्तिर्या ते नित्या जनार्दने 004a
यया त्वमभिजानासि त्रियुगं मधुसूदनम् 004c
सञ्जय उवाच 005
मायां न सेवे भद्रं ते न वृथाधर्ममाचरे 005a
शुद्धभावं गतो भक्त्या शास्त्राद्वेद्मि जनार्दनम् 005c
धृतराष्ट्र उवाच 006
दुर्योधन हृषीकेशं प्रपद्यस्व जनार्दनम् 006a
आप्तो नः सञ्जयस्तात शरणं गच्छ केशवम् 006c
दुर्योधन उवाच 007
भगवान्देवकीपुत्रो लोकं चेन्निहनिष्यति 007a
प्रवदन्नर्जुने सख्यं नाहं गच्छेऽद्य केशवम् 007c
धृतराष्ट्र उवाच 008
अवाग्गान्धारि पुत्रस्ते गच्छत्येष सुदुर्मतिः 008a
ईर्ष्युर्दुरात्मा मानी च श्रेयसां वचनातिगः 008c
गान्धार्युवाच 009
ऐश्वर्यकाम दुष्टात्मन्वृद्धानां शासनातिग 009a
ऐश्वर्यजीविते हित्वा पितरं मां च बालिश 009c
वर्धयन्दुर्हृदां प्रीतिं मां च शोकेन वर्धयन् 010a
निहतो भीमसेनेन स्मर्तासि वचनं पितुः 010c
व्यास उवाच 011
दयितोऽसि राजन्कृष्णस्य धृतराष्ट्र निबोध मे 011a
यस्य ते सञ्जयो दूतो यस्त्वां श्रेयसि योक्ष्यते 011c
जानात्येष हृषीकेशं पुराणं यच्च वै नवम् 012a
शुश्रूषमाणमेकाग्रं मोक्ष्यते महतो भयात् 012c
वैचित्रवीर्य पुरुषाः क्रोधहर्षतमोवृताः 013a
सिता बहुविधैः पाशैर्ये न तुष्टाः स्वकैर्धनैः 013c
यमस्य वशमायान्ति काममूढाः पुनः पुनः 014a
अन्धनेत्रा यथैवान्धा नीयमानाः स्वकर्मभिः 014c
एष एकायनः पन्था येन यान्ति मनीषिणः 015a
तं दृष्ट्वा मृत्युमत्येति महांस्तत्र न सज्जते 015c
धृतराष्ट्र उवाच 016
अङ्ग सञ्जय मे शंस पन्थानमकुतोभयम् 016a
येन गत्वा हृषीकेशं प्राप्नुयां शान्तिमुत्तमाम् 016c
सञ्जय उवाच 017
नाकृतात्मा कृतात्मानं जातु विद्याज्जनार्दनम् 017a
आत्मनस्तु क्रियोपायो नान्यत्रेन्द्रियनिग्रहात् 017c
इन्द्रियाणामुदीर्णानां कामत्यागोऽप्रमादतः 018a
अप्रमादोऽविहिंसा च ज्ञानयोनिरसंशयम् 018c
इन्द्रियाणां यमे यत्तो भव राजन्नतन्द्रितः 019a
बुद्धिश्च मा ते च्यवतु नियच्छैतां यतस्ततः 019c
एतज्ज्ञानं विदुर्विप्रा ध्रुवमिन्द्रियधारणम् 020a
एतज्ज्ञानं च पन्थाश्च येन यान्ति मनीषिणः 020c
अप्राप्यः केशवो राजन्निन्द्रियैरजितैर्नृभिः 021a
आगमाधिगतो योगाद्वशी तत्त्वे प्रसीदति 021c