सञ्जय उवाच 001
अर्जुनो वासुदेवश्च धन्विनौ परमार्चितौ 001a
कामादन्यत्र सम्भूतौ सर्वाभावाय सम्मितौ 001c
द्यामन्तरं समास्थाय यथायुक्तं मनस्विनः 002a
चक्रं तद्वासुदेवस्य मायया वर्तते विभो 002c
सापह्नवं पाण्डवेषु पाण्डवानां सुसम्मतम् 003a
सारासारबलं ज्ञात्वा तत्समासेन मे शृणु 003c
नरकं शम्बरं चैव कंसं चैद्यं च माधवः 004a
जितवान्घोरसङ्काशान्क्रीडन्निव जनार्दनः 004c
पृथिवीं चान्तरिक्षं च द्यां चैव पुरुषोत्तमः 005a
मनसैव विशिष्टात्मा नयत्यात्मवशं वशी 005c
भूयो भूयो हि यद्राजन्पृच्छसे पाण्डवान्प्रति 006a
सारासारबलं ज्ञातुं तन्मे निगदतः शृणु 006c
एकतो वा जगत्कृत्स्नमेकतो वा जनार्दनः 007a
सारतो जगतः कृत्स्नादतिरिक्तो जनार्दनः 007c
भस्म कुर्याज्जगदिदं मनसैव जनार्दनः 008a
न तु कृत्स्नं जगच्छक्तं भस्म कर्तुं जनार्दनम् 008c
यतः सत्यं यतो धर्मो यतो ह्रीरार्जवं यतः 009a
ततो भवति गोविन्दो यतः कृष्णस्ततो जयः 009c
पृथिवीं चान्तरिक्षं च दिवं च पुरुषोत्तमः 010a
विचेष्टयति भूतात्मा क्रीडन्निव जनार्दनः 010c
स कृत्वा पाण्डवान्सत्रं लोकं सम्मोहयन्निव 011a
अधर्मनिरतान्मूढान्दग्धुमिच्छति ते सुतान् 011c
कालचक्रं जगच्चक्रं युगचक्रं च केशवः 012a
आत्मयोगेन भगवान्परिवर्तयतेऽनिशम् 012c
कालस्य च हि मृत्योश्च जङ्गमस्थावरस्य च 013a
ईशते भगवानेकः सत्यमेतद्ब्रवीमि ते 013c
ईशन्नपि महायोगी सर्वस्य जगतो हरिः 014a
कर्माण्यारभते कर्तुं कीनाश इव दुर्बलः 014c
तेन वञ्चयते लोकान्मायायोगेन केशवः 015a
ये तमेव प्रपद्यन्ते न ते मुह्यन्ति मानवाः 015c