वैशम्पायन उवाच 001
दुर्योधने धार्तराष्ट्रे तद्वचोऽप्रतिनन्दति 001a
तूष्णीम्भूतेषु सर्वेषु समुत्तस्थुर्नरेश्वराः 001c
उत्थितेषु महाराज पृथिव्यां सर्वराजसु 002a
रहिते सञ्जयं राजा परिप्रष्टुं प्रचक्रमे 002c
आशंसमानो विजयं तेषां पुत्रवशानुगः 003a
आत्मनश्च परेषां च पाण्डवानां च निश्चयम् 003c
धृतराष्ट्र उवाच 004
गावल्गणे ब्रूहि नः सारफल्गु स्वसेनायां यावदिहास्ति किञ्चित् 004a
त्वं पाण्डवानां निपुणं वेत्थ सर्वं किमेषां ज्यायः किमु तेषां कनीयः 004c
त्वमेतयोः सारवित्सर्वदर्शी धर्मार्थयोर्निपुणो निश्चयज्ञः 005a
स मे पृष्टः सञ्जय ब्रूहि सर्वं युध्यमानाः कतरेऽस्मिन्न सन्ति 005c
सञ्जय उवाच 006
न त्वां ब्रूयां रहिते जातु किं चिदसूया हि त्वां प्रसहेत राजन् 006a
आनयस्व पितरं संशितव्रतं गान्धारीं च महिषीमाजमीढ 006c
तौ तेऽसूयां विनयेतां नरेन्द्र धर्मज्ञौ तौ निपुणौ निश्चयज्ञौ 007a
तयोस्तु त्वां सन्निधौ तद्वदेयं कृत्स्नं मतं वासुदेवार्जुनाभ्याम् 007c
वैशम्पायन उवाच 008
ततस्तन्मतमाज्ञाय सञ्जयस्यात्मजस्य च 008a
अभ्युपेत्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत् 008c
सम्पृच्छते धृतराष्ट्राय सञ्जय आचक्ष्व सर्वं यावदेषोऽनुयुङ्क्ते 009a
सर्वं यावद्वेत्थ तस्मिन्यथावद्याथातथ्यं वासुदेवेऽर्जुने च 009c