वैशम्पायन उवाच 001
एवमुक्त्वा महाप्राज्ञो धृतराष्ट्रः सुयोधनम् 001a
पुनरेव महाभागः सञ्जयं पर्यपृच्छत 001c
ब्रूहि सञ्जय यच्छेषं वासुदेवादनन्तरम् 002a
यदर्जुन उवाच त्वां परं कौतूहलं हि मे 002c
सञ्जय उवाच 003
वासुदेववचः श्रुत्वा कुन्तीपुत्रो धनञ्जयः 003a
उवाच काले दुर्धर्षो वासुदेवस्य शृण्वतः 003c
पितामहं शान्तनवं धृतराष्ट्रं च सञ्जय 004a
द्रोणं कृपं च कर्णं च महाराजं च बाह्लिकम् 004c
द्रौणिं च सोमदत्तं च शकुनिं चापि सौबलम् 005a
दुःशासनं शलं चैव पुरुमित्रं विविंशतिम् 005c
विकर्णं चित्रसेनं च जयत्सेनं च पार्थिवम् 006a
विन्दानुविन्दावावन्त्यौ दुर्मुखं चापि कौरवम् 006c
सैन्धवं दुःसहं चैव भूरिश्रवसमेव च 007a
भगदत्तं च राजानं जलसन्धं च पार्थिवम् 007c
ये चाप्यन्ये पार्थिवास्तत्र योद्धुं समागताः कौरवाणां प्रियार्थम् 008a
मुमूर्षवः पाण्डवाग्नौ प्रदीप्ते समानीता धार्तराष्ट्रेण सूत 008c
यथान्यायं कौशलं वन्दनं च समागता मद्वचनेन वाच्याः 009a
इदं ब्रूयाः सञ्जय राजमध्ये सुयोधनं पापकृतां प्रधानम् 009c
अमर्षणं दुर्मतिं राजपुत्रं पापात्मानं धार्तराष्ट्रं सुलुब्धम् 010a
सर्वं ममैतद्वचनं समग्रं सहामात्यं सञ्जय श्रावयेथाः 010c
एवं प्रतिष्ठाप्य धनञ्जयो मां ततोऽर्थवद्धर्मवच्चापि वाक्यम् 011a
प्रोवाचेदं वासुदेवं समीक्ष्य पार्थो धीमाल्ँलोहितान्तायताक्षः 011c
यथा श्रुतं ते वदतो महात्मनो मधुप्रवीरस्य वचः समाहितम् 012a
तथैव वाच्यं भवता हि मद्वचः समागतेषु क्षितिपेषु सर्वशः 012c
शराग्निधूमे रथनेमिनादिते धनुःस्रुवेणास्त्रबलापहारिणा 013a
यथा न होमः क्रियते महामृधे तथा समेत्य प्रयतध्वमादृताः 013c
न चेत्प्रयच्छध्वममित्रघातिनो युधिष्ठिरस्यांशमभीप्सितं स्वकम् 014a
नयामि वः स्वाश्वपदातिकुञ्जरान्दिशं पितॄणामशिवां शितैः शरैः 014c
ततोऽहमामन्त्र्य चतुर्भुजं हरिं धनञ्जयं चैव नमस्य सत्वरः 015a
जवेन सम्प्राप्त इहामरद्युते तवान्तिकं प्रापयितुं वचो महत् 015c