धृतराष्ट्र उवाच 001
दुर्योधन विजानीहि यत्त्वां वक्ष्यामि पुत्रक 001a
उत्पथं मन्यसे मार्गमनभिज्ञ इवाध्वगः 001c
पञ्चानां पाण्डुपुत्राणां यत्तेजः प्रमिमीषसि 002a
पञ्चानामिव भूतानां महतां सुमहात्मनाम् 002c
युधिष्ठिरं हि कौन्तेयं परं धर्ममिहास्थितम् 003a
परां गतिमसम्प्रेक्ष्य न त्वं वेत्तुमिहार्हसि 003c
भीमसेनं च कौन्तेयं यस्य नास्ति समो बले 004a
रणान्तकं तर्कयसे महावातमिव द्रुमः 004c
सर्वशस्त्रभृतां श्रेष्ठं मेरुं शिखरिणामिव 005a
युधि गाण्डीवधन्वानं को नु युध्येत बुद्धिमान् 005c
धृष्टद्युम्नश्च पाञ्चाल्यः कमिवाद्य न शातयेत् 006a
शत्रुमध्ये शरान्मुञ्चन्देवराडशनीमिव 006c
सात्यकिश्चापि दुर्धर्षः सम्मतोऽन्धकवृष्णिषु 007a
ध्वंसयिष्यति ते सेनां पाण्डवेयहिते रतः 007c
यः पुनः प्रतिमानेन त्रील्ँलोकानतिरिच्यते 008a
तं कृष्णं पुण्डरीकाक्षं को नु युध्येत बुद्धिमान् 008c
एकतो ह्यस्य दाराश्च ज्ञातयश्च सबान्धवाः 009a
आत्मा च पृथिवी चेयमेकतश्च धनञ्जयः 009c
वासुदेवोऽपि दुर्धर्षो यतात्मा यत्र पाण्डवः 010a
अविषह्यं पृथिव्यापि तद्बलं यत्र केशवः 010c
तिष्ठ तात सतां वाक्ये सुहृदामर्थवादिनाम् 011a
वृद्धं शान्तनवं भीष्मं तितिक्षस्व पितामहम् 011c
मां च ब्रुवाणं शुश्रूष कुरूणामर्थवादिनम् 012a
द्रोणं कृपं विकर्णं च महाराजं च बाह्लिकम् 012c
एते ह्यपि यथैवाहं मन्तुमर्हसि तांस्तथा 013a
सर्वे धर्मविदो ह्येते तुल्यस्नेहाश्च भारत 013c
यत्तद्विराटनगरे सह भ्रातृभिरग्रतः 014a
उत्सृज्य गाः सुसन्त्रस्तं बलं ते समशीर्यत 014c
यच्चैव तस्मिन्नगरे श्रूयते महदद्भुतम् 015a
एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् 015c
अर्जुनस्तत्तथाकार्षीत्किं पुनः सर्व एव ते 016a
सभ्रातॄनभिजानीहि वृत्त्या च प्रतिपादय 016c