दुर्योधन उवाच 001
सदृशानां मनुष्येषु सर्वेषां तुल्यजन्मनाम् 001a
कथमेकान्ततस्तेषां पार्थानां मन्यसे जयम् 001c
सर्वे स्म समजातीयाः सर्वे मानुषयोनयः 002a
पितामह विजानीषे पार्थेषु विजयं कथम् 002c
नाहं भवति न द्रोणे न कृपे न च बाह्लिके 003a
अन्येषु च नरेन्द्रेषु पराक्रम्य समारभे 003c
अहं वैकर्तनः कर्णो भ्राता दुःशासनश्च मे 004a
पाण्डवान्समरे पञ्च हनिष्यामः शितैः शरैः 004c
ततो राजन्महायज्ञैर्विविधैर्भूरिदक्षिणैः 005a
ब्राह्मणांस्तर्पयिष्यामि गोभिरश्वैर्धनेन च 005c
विदुर उवाच 006
शकुनीनामिहार्थाय पाशं भूमावयोजयत् 006a
कश्चिच्छाकुनिकस्तात पूर्वेषामिति शुश्रुम 006c
तस्मिन्द्वौ शकुनौ बद्धौ युगपत्समपौरुषौ 007a
तावुपादाय तं पाशं जग्मतुः खचरावुभौ 007c
तौ विहायसमाक्रान्तौ दृष्ट्वा शाकुनिकस्तदा 008a
अन्वधावदनिर्विण्णो येन येन स्म गच्छतः 008c
तथा तमनुधावन्तं मृगयुं शकुनार्थिनम् 009a
आश्रमस्थो मुनिः कश्चिद्ददर्शाथ कृताह्निकः 009c
तावन्तरिक्षगौ शीघ्रमनुयान्तं महीचरम् 010a
श्लोकेनानेन कौरव्य पप्रच्छ स मुनिस्तदा 010c
विचित्रमिदमाश्चर्यं मृगहन्प्रतिभाति मे 011a
प्लवमानौ हि खचरौ पदातिरनुधावसि 011c
शाकुनिक उवाच 012
पाशमेकमुभावेतौ सहितौ हरतो मम 012a
यत्र वै विवदिष्येते तत्र मे वशमेष्यतः 012c
विदुर उवाच 013
तौ विवादमनुप्राप्तौ शकुनौ मृत्युसन्धितौ 013a
विगृह्य च सुदुर्बुद्धी पृथिव्यां सन्निपेततुः 013c
तौ युध्यमानौ संरब्धौ मृत्युपाशवशानुगौ 014a
उपसृत्यापरिज्ञातो जग्राह मृगयुस्तदा 014c
एवं ये ज्ञातयोऽर्थेषु मिथो गच्छन्ति विग्रहम् 015a
तेऽमित्रवशमायान्ति शकुनाविव विग्रहात् 015c
सम्भोजनं सङ्कथनं सम्प्रश्नोऽथ समागमः 016a
एतानि ज्ञातिकार्याणि न विरोधः कदाचन 016c
यस्मिन्काले सुमनसः सर्वे वृद्धानुपासते 017a
सिंहगुप्तमिवारण्यमप्रधृष्या भवन्ति ते 017c
येऽर्थं सन्ततमासाद्य दीना इव समासते 018a
श्रियं ते सम्प्रयच्छन्ति द्विषद्भ्यो भरतर्षभ 018c
धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च 019a
धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ 019c
इदमन्यत्प्रवक्ष्यामि यथा दृष्टं गिरौ मया 020a
श्रुत्वा तदपि कौरव्य यथा श्रेयस्तथा कुरु 020c
वयं किरातैः सहिता गच्छामो गिरिमुत्तरम् 021a
ब्राह्मणैर्देवकल्पैश्च विद्याजम्भकवातिकैः 021c
कुञ्जभूतं गिरिं सर्वमभितो गन्धमादनम् 022a
दीप्यमानौषधिगणं सिद्धगन्धर्वसेवितम् 022c
तत्र पश्यामहे सर्वे मधु पीतममाक्षिकम् 023a
मरुप्रपाते विषमे निविष्टं कुम्भसम्मितम् 023c
आशीविषै रक्ष्यमाणं कुबेरदयितं भृशम् 024a
यत्प्राश्य पुरुषो मर्त्यो अमरत्वं निगच्छति 024c
अचक्षुर्लभते चक्षुर्वृद्धो भवति वै युवा 025a
इति ते कथयन्ति स्म ब्राह्मणा जम्भसाधकाः 025c
ततः किरातास्तद्दृष्ट्वा प्रार्थयन्तो महीपते 026a
विनेशुर्विषमे तस्मिन्ससर्पे गिरिगह्वरे 026c
तथैव तव पुत्रोऽयं पृथिवीमेक इच्छति 027a
मधु पश्यति सम्मोहात्प्रपातं नानुपश्यति 027c
दुर्योधनो योद्धुमनाः समरे सव्यसाचिना 028a
न च पश्यामि तेजोऽस्य विक्रमं वा तथाविधम् 028c
एकेन रथमास्थाय पृथिवी येन निर्जिता 029a
प्रतीक्षमाणो यो वीरः क्षमते वीक्षितं तव 029c
द्रुपदो मत्स्यराजश्च सङ्क्रुद्धश्च धनञ्जयः 030a
न शेषयेयुः समरे वायुयुक्ता इवाग्नयः 030c
अङ्के कुरुष्व राजानं धृतराष्ट्र युधिष्ठिरम् 031a
युध्यतोर्हि द्वयोर्युद्धे नैकान्तेन भवेज्जयः 031c