वैशम्पायन उवाच 001
तथा तु पृच्छन्तमतीव पार्थान्वैचित्रवीर्यं तमचिन्तयित्वा 001a
उवाच कर्णो धृतराष्ट्रपुत्रं प्रहर्षयन्संसदि कौरवाणाम् 001c
मिथ्या प्रतिज्ञाय मया यदस्त्रं रामाद्धृतं ब्रह्मपुरं पुरस्तात् 002a
विज्ञाय तेनास्मि तदैवमुक्तस्तवान्तकालेऽप्रतिभास्यतीति 002c
महापराधे ह्यपि सन्नतेन महर्षिणाहं गुरुणा च शप्तः 003a
शक्तः प्रदग्धुं ह्यपि तिग्मतेजाः ससागरामप्यवनिं महर्षिः 003c
प्रसादितं ह्यस्य मया मनोऽभूच्छुश्रूषया स्वेन च पौरुषेण 004a
ततस्तदस्त्रं मम सावशेषं तस्मात्समर्थोऽस्मि ममैष भारः 004c
निमेषमात्रं तमृषिप्रसादमवाप्य पाञ्चालकरूषमत्स्यान् 005a
निहत्य पार्थांश्च सपुत्रपौत्राल्ँलोकानहं शस्त्रजितान्प्रपत्स्ये 005c
पितामहस्तिष्ठतु ते समीपे द्रोणश्च सर्वे च नरेन्द्रमुख्याः 006a
यथाप्रधानेन बलेन यात्वा पार्थान्हनिष्यामि ममैष भारः 006c
एवं ब्रुवाणं तमुवाच भीष्मः किं कत्थसे कालपरीतबुद्धे 007a
न कर्ण जानासि यथा प्रधाने हते हताः स्युर्धृतराष्ट्रपुत्राः 007c
यत्खाण्डवं दाहयता कृतं हि कृष्णद्वितीयेन धनञ्जयेन 008a
श्रुत्वैव तत्कर्म नियन्तुमात्मा शक्यस्त्वया वै सह बान्धवेन 008c
यां चापि शक्तिं त्रिदशाधिपस्ते ददौ महात्मा भगवान्महेन्द्रः 009a
भस्मीकृतां तां पतितां विशीर्णां चक्राहतां द्रक्ष्यसि केशवेन 009c
यस्ते शरः सर्पमुखो विभाति सदाग्र्यमाल्यैर्महितः प्रयत्नात् 010a
स पाण्डुपुत्राभिहतः शरौघैः सह त्वया यास्यति कर्ण नाशम् 010c
बाणस्य भौमस्य च कर्ण हन्ता किरीटिनं रक्षति वासुदेवः 011a
यस्त्वादृशानां च गरीयसां च हन्ता रिपूणां तुमुले प्रगाढे 011c
कर्ण उवाच 012
असंशयं वृष्णिपतिर्यथोक्तस्तथा च भूयश्च ततो महात्मा 012a
अहं यदुक्तः परुषं तु किञ्चित्पितामहस्तस्य फलं शृणोतु 012c
न्यस्यामि शस्त्राणि न जातु सङ्ख्ये पितामहो द्रक्ष्यति मां सभायाम् 013a
त्वयि प्रशान्ते तु मम प्रभावं द्रक्ष्यन्ति सर्वे भुवि भूमिपालाः 013c
वैशम्पायन उवाच 014
इत्येवमुक्त्वा स महाधनुष्मान्हित्वा सभां स्वं भवनं जगाम 014a
भीष्मस्तु दुर्योधनमेव राजन्मध्ये कुरूणां प्रहसन्नुवाच 014c
सत्यप्रतिज्ञः किल सूतपुत्रस्तथा स भारं विषहेत कस्मात् 015a
व्यूहं प्रतिव्यूह्य शिरांसि भित्त्वा लोकक्षयं पश्यत भीमसेनात् 015c
आवन्त्यकालिङ्गजयद्रथेषु वेदिध्वजे तिष्ठति बाह्लिके च 016a
अहं हनिष्यामि सदा परेषां सहस्रशश्चायुतशश्च योधान् 016c
यदैव रामे भगवत्यनिन्द्ये ब्रह्म ब्रुवाणः कृतवांस्तदस्त्रम् 017a
तदैव धर्मश्च तपश्च नष्टं वैकर्तनस्याधमपूरुषस्य 017c
अथोक्तवाक्ये नृपतौ तु भीष्मे निक्षिप्य शस्त्राणि गते च कर्णे 018a
वैचित्रवीर्यस्य सुतोऽल्पबुद्धिर्दुर्योधनः शान्तनवं बभाषे 018c