वैशम्पायन उवाच 001
पितुरेतद्वचः श्रुत्वा धार्तराष्ट्रोऽत्यमर्षणः 001a
आधाय विपुलं क्रोधं पुनरेवेदमब्रवीत् 001c
अशक्या देवसचिवाः पार्थाः स्युरिति यद्भवान् 002a
मन्यते तद्भयं व्येतु भवतो राजसत्तम 002c
अकामद्वेषसंयोगाद्द्रोहाल्लोभाच्च भारत 003a
उपेक्षया च भावानां देवा देवत्वमाप्नुवन् 003c
इति द्वैपायनो व्यासो नारदश्च महातपाः 004a
जामदग्न्यश्च रामो नः कथामकथयत्पुरा 004c
नैव मानुषवद्देवाः प्रवर्तन्ते कदाचन 005a
कामाल्लोभादनुक्रोशाद्द्वेषाच्च भरतर्षभ 005c
यदि ह्यग्निश्च वायुश्च धर्म इन्द्रोऽश्विनावपि 006a
कामयोगात्प्रवर्तेरन्न पार्था दुःखमाप्नुयुः 006c
तस्मान्न भवता चिन्ता कार्यैषा स्यात्कदाचन 007a
दैवेष्वपेक्षका ह्येते शश्वद्भावेषु भारत 007c
अथ चेत्कामसंयोगाद्द्वेषाल्लोभाच्च लक्ष्यते 008a
देवेषु देवप्रामाण्यं नैव तद्विक्रमिष्यति 008c
मयाभिमन्त्रितः शश्वज्जातवेदाः प्रशंसति 009a
दिधक्षुः सकलाल्ँलोकान्परिक्षिप्य समन्ततः 009c
यद्वा परमकं तेजो येन युक्ता दिवौकसः 010a
ममाप्यनुपमं भूयो देवेभ्यो विद्धि भारत 010c
प्रदीर्यमाणां वसुधां गिरीणां शिखराणि च 011a
लोकस्य पश्यतो राजन्स्थापयाम्यभिमन्त्रणात् 011c
चेतनाचेतनस्यास्य जङ्गमस्थावरस्य च 012a
विनाशाय समुत्पन्नं महाघोरं महास्वनम् 012c
अश्मवर्षं च वायुं च शमयामीह नित्यशः 013a
जगतः पश्यतोऽभीक्ष्णं भूतानामनुकम्पया 013c
स्तम्भितास्वप्सु गच्छन्ति मया रथपदातयः 014a
देवासुराणां भावानामहमेकः प्रवर्तिता 014c
अक्षौहिणीभिर्यान्देशान्यामि कार्येण केनचित् 015a
तत्रापो मे प्रवर्तन्ते यत्र यत्राभिकामये 015c
भयानि विषये राजन्व्यालादीनि न सन्ति मे 016a
मत्तः सुप्तानि भूतानि न हिंसन्ति भयङ्कराः 016c
निकामवर्षी पर्जन्यो राजन्विषयवासिनाम् 017a
धर्मिष्ठाश्च प्रजाः सर्वा ईतयश्च न सन्ति मे 017c
अश्विनावथ वाय्वग्नी मरुद्भिः सह वृत्रहा 018a
धर्मश्चैव मया द्विष्टान्नोत्सहन्तेऽभिरक्षितुम् 018c
यदि ह्येते समर्थाः स्युर्मद्द्विषस्त्रातुमोजसा 019a
न स्म त्रयोदश समाः पार्था दुःखमवाप्नुयुः 019c
नैव देवा न गन्धर्वा नासुरा न च राक्षसाः 020a
शक्तास्त्रातुं मया द्विष्टं सत्यमेतद्ब्रवीमि ते 020c
यदभिध्याम्यहं शश्वच्छुभं वा यदि वाशुभम् 021a
नैतद्विपन्नपूर्वं मे मित्रेष्वरिषु चोभयोः 021c
भविष्यतीदमिति वा यद्ब्रवीमि परन्तप 022a
नान्यथा भूतपूर्वं तत्सत्यवागिति मां विदुः 022c
लोकसाक्षिकमेतन्मे माहात्म्यं दिक्षु विश्रुतम् 023a
आश्वासनार्थं भवतः प्रोक्तं न श्लाघया नृप 023c
न ह्यहं श्लाघनो राजन्भूतपूर्वः कदाचन 024a
असदाचरितं ह्येतद्यदात्मानं प्रशंसति 024c
पाण्डवांश्चैव मत्स्यांश्च पाञ्चालान्केकयैः सह 025a
सात्यकिं वासुदेवं च श्रोतासि विजितान्मया 025c
सरितः सागरं प्राप्य यथा नश्यन्ति सर्वशः 026a
तथैव ते विनङ्क्ष्यन्ति मामासाद्य सहान्वयाः 026c
परा बुद्धिः परं तेजो वीर्यं च परमं मयि 027a
परा विद्या परो योगो मम तेभ्यो विशिष्यते 027c
पितामहश्च द्रोणश्च कृपः शल्यः शलस्तथा 028a
अस्त्रेषु यत्प्रजानन्ति सर्वं तन्मयि विद्यते 028c
इत्युक्त्वा सञ्जयं भूयः पर्यपृच्छत भारत 029a
ज्ञात्वा युयुत्सुः कार्याणि प्राप्तकालमरिन्दम 029c