वैशम्पायन उवाच 001
सञ्जयस्य वचः श्रुत्वा प्रज्ञाचक्षुर्नरेश्वरः 001a
ततः सङ्ख्यातुमारेभे तद्वचो गुणदोषतः 001c
प्रसङ्ख्याय च सौक्ष्म्येण गुणदोषान्विचक्षणः 002a
यथावन्मतितत्त्वेन जयकामः सुतान्प्रति 002c
बलाबले विनिश्चित्य याथातथ्येन बुद्धिमान् 003a
शक्तिं सङ्ख्यातुमारेभे तदा वै मनुजाधिपः 003c
देवमानुषयोः शक्त्या तेजसा चैव पाण्डवान् 004a
कुरूञ्शक्त्याल्पतरया दुर्योधनमथाब्रवीत् 004c
दुर्योधनेयं चिन्ता मे शश्वन्नाप्युपशाम्यति 005a
सत्यं ह्येतदहं मन्ये प्रत्यक्षं नानुमानतः 005c
आत्मजेषु परं स्नेहं सर्वभूतानि कुर्वते 006a
प्रियाणि चैषां कुर्वन्ति यथाशक्ति हितानि च 006c
एवमेवोपकर्तॄणां प्रायशो लक्षयामहे 007a
इच्छन्ति बहुलं सन्तः प्रतिकर्तुं महत्प्रियम् 007c
अग्निः साचिव्यकर्ता स्यात्खाण्डवे तत्कृतं स्मरन् 008a
अर्जुनस्यातिभीमेऽस्मिन्कुरुपाण्डुसमागमे 008c
जातगृध्याभिपन्नाश्च पाण्डवानामनेकशः 009a
धर्मादयो भविष्यन्ति समाहूता दिवौकसः 009c
भीष्मद्रोणकृपादीनां भयादशनिसम्मितम् 010a
रिरक्षिषन्तः संरम्भं गमिष्यन्तीति मे मतिः 010c
ते देवसहिताः पार्था न शक्याः प्रतिवीक्षितुम् 011a
मानुषेण नरव्याघ्रा वीर्यवन्तोऽस्त्रपारगाः 011c
दुरासदं यस्य दिव्यं गाण्डीवं धनुरुत्तमम् 012a
वारुणौ चाक्षयौ दिव्यौ शरपूर्णौ महेषुधी 012c
वानरश्च ध्वजो दिव्यो निःसङ्गो धूमवद्गतिः 013a
रथश्च चतुरन्तायां यस्य नास्ति समस्त्विषा 013c
महामेघनिभश्चापि निर्घोषः श्रूयते जनैः 014a
महाशनिसमः शब्दः शात्रवाणां भयङ्करः 014c
यं चातिमानुषं वीर्ये कृत्स्नो लोको व्यवस्यति 015a
देवानामपि जेतारं यं विदुः पार्थिवा रणे 015c
शतानि पञ्च चैवेषूनुद्वपन्निव दृश्यते 016a
निमेषान्तरमात्रेण मुञ्चन्दूरं च पातयन् 016c
यमाह भीष्मो द्रोणश्च कृपो द्रौणिस्तथैव च 017a
मद्रराजस्तथा शल्यो मध्यस्था ये च मानवाः 017c
युद्धायावस्थितं पार्थं पार्थिवैरतिमानुषैः 018a
अशक्यं रथशार्दूलं पराजेतुमरिन्दमम् 018c
क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः 019a
सदृशं बाहुवीर्येण कार्तवीर्यस्य पाण्डवम् 019c
तमर्जुनं महेष्वासं महेन्द्रोपेन्द्ररक्षितम् 020a
निघ्नन्तमिव पश्यामि विमर्देऽस्मिन्महामृधे 020c
इत्येवं चिन्तयन्कृत्स्नमहोरात्राणि भारत 021a
अनिद्रो निःसुखश्चास्मि कुरूणां शमचिन्तया 021c
क्षयोदयोऽयं सुमहान्कुरूणां प्रत्युपस्थितः 022a
अस्य चेत्कलहस्यान्तः शमादन्यो न विद्यते 022c
शमो मे रोचते नित्यं पार्थैस्तात न विग्रहः 023a
कुरुभ्यो हि सदा मन्ये पाण्डवाञ्शक्तिमत्तरान् 023c