धृतराष्ट्र उवाच 001
यदब्रूतां महात्मानौ वासुदेवधनञ्जयौ 001a
तन्मे ब्रूहि महाप्राज्ञ शुश्रूषे वचनं तव 001c
सञ्जय उवाच 002
शृणु राजन्यथा दृष्टौ मया कृष्णधनञ्जयौ 002a
ऊचतुश्चापि यद्वीरौ तत्ते वक्ष्यामि भारत 002c
पादाङ्गुलीरभिप्रेक्षन्प्रयतोऽहं कृताञ्जलिः 003a
शुद्धान्तं प्राविशं राजन्नाख्यातुं नरदेवयोः 003c
नैवाभिमन्युर्न यमौ तं देशमभियान्ति वै 004a
यत्र कृष्णौ च कृष्णा च सत्यभामा च भामिनी 004c
उभौ मध्वासवक्षीबावुभौ चन्दनरूषितौ 005a
स्रग्विणौ वरवस्त्रौ तौ दिव्याभरणभूषितौ 005c
नैकरत्नविचित्रं तु काञ्चनं महदासनम् 006a
विविधास्तरणास्तीर्णं यत्रासातामरिन्दमौ 006c
अर्जुनोत्सङ्गगौ पादौ केशवस्योपलक्षये 007a
अर्जुनस्य च कृष्णायां सत्यायां च महात्मनः 007c
काञ्चनं पादपीठं तु पार्थो मे प्रादिशत्तदा 008a
तदहं पाणिना स्पृष्ट्वा ततो भूमावुपाविशम् 008c
ऊर्ध्वरेखतलौ पादौ पार्थस्य शुभलक्षणौ 009a
पादपीठादपहृतौ तत्रापश्यमहं शुभौ 009c
श्यामौ बृहन्तौ तरुणौ शालस्कन्धाविवोद्गतौ 010a
एकासनगतौ दृष्ट्वा भयं मां महदाविशत् 010c
इन्द्रविष्णुसमावेतौ मन्दात्मा नावबुध्यते 011a
संश्रयाद्द्रोणभीष्माभ्यां कर्णस्य च विकत्थनात् 011c
निदेशस्थाविमौ यस्य मानसस्तस्य सेत्स्यते 012a
सङ्कल्पो धर्मराजस्य निश्चयो मे तदाभवत् 012c
सत्कृतश्चान्नपानाभ्यामाच्छन्नो लब्धसत्क्रियः 013a
अञ्जलिं मूर्ध्नि सन्धाय तौ सन्देशमचोदयम् 013c
धनुर्बाणोचितेनैकपाणिना शुभलक्षणम् 014a
पादमानमयन्पार्थः केशवं समचोदयत् 014c
इन्द्रकेतुरिवोत्थाय सर्वाभरणभूषितः 015a
इन्द्रवीर्योपमः कृष्णः संविष्टो माभ्यभाषत 015c
वाचं स वदतां श्रेष्ठो ह्लादिनीं वचनक्षमाम् 016a
त्रासनीं धार्तराष्ट्राणां मृदुपूर्वां सुदारुणाम् 016c
वाचं तां वचनार्हस्य शिक्षाक्षरसमन्विताम् 017a
अश्रौषमहमिष्टार्थां पश्चाद्धृदयशोषिणीम् 017c
वासुदेव उवाच 018
सञ्जयेदं वचो ब्रूया धृतराष्ट्रं मनीषिणम् 018a
शृण्वतः कुरुमुख्यस्य द्रोणस्यापि च शृण्वतः 018c
यजध्वं विपुलैर्यज्ञैर्विप्रेभ्यो दत्त दक्षिणाः 019a
पुत्रैर्दारैश्च मोदध्वं महद्वो भयमागतम् 019c
अर्थांस्त्यजत पात्रेभ्यः सुतान्प्राप्नुत कामजान् 020a
प्रियं प्रियेभ्यश्चरत राजा हि त्वरते जये 020c
ऋणमेतत्प्रवृद्धं मे हृदयान्नापसर्पति 021a
यद्गोविन्देति चुक्रोश कृष्णा मां दूरवासिनम् 021c
तेजोमयं दुराधर्षं गाण्डीवं यस्य कार्मुकम् 022a
मद्द्वितीयेन तेनेह वैरं वः सव्यसाचिना 022c
मद्द्वितीयं पुनः पार्थं कः प्रार्थयितुमिच्छति 023a
यो न कालपरीतो वाप्यपि साक्षात्पुरन्दरः 023c
बाहुभ्यामुद्वहेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः 024a
पातयेत्त्रिदिवाद्देवान्योऽर्जुनं समरे जयेत् 024c
देवासुरमनुष्येषु यक्षगन्धर्वभोगिषु 025a
न तं पश्याम्यहं युद्धे पाण्डवं योऽभ्ययाद्रणे 025c
यत्तद्विराटनगरे श्रूयते महदद्भुतम् 026a
एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् 026c
एकेन पाण्डुपुत्रेण विराटनगरे यदा 027a
भग्नाः पलायन्त दिशः पर्याप्तं तन्निदर्शनम् 027c
बलं वीर्यं च तेजश्च शीघ्रता लघुहस्तता 028a
अविषादश्च धैर्यं च पार्थान्नान्यत्र विद्यते 028c
सञ्जय उवाच 029
इत्यब्रवीद्धृषीकेशः पार्थमुद्धर्षयन्गिरा 029a
गर्जन्समयवर्षीव गगने पाकशासनः 029c
केशवस्य वचः श्रुत्वा किरीटी श्वेतवाहनः 030a
अर्जुनस्तन्महद्वाक्यमब्रवील्लोमहर्षणम् 030c