धृतराष्ट्र उवाच 001
क्षत्रतेजा ब्रह्मचारी कौमारादपि पाण्डवः 001a
तेन संयुगमेष्यन्ति मन्दा विलपतो मम 001c
दुर्योधन निवर्तस्व युद्धाद्भरतसत्तम 002a
न हि युद्धं प्रशंसन्ति सर्वावस्थमरिन्दम 002c
अलमर्धं पृथिव्यास्ते सहामात्यस्य जीवितुम् 003a
प्रयच्छ पाण्डुपुत्राणां यथोचितमरिन्दम 003c
एतद्धि कुरवः सर्वे मन्यन्ते धर्मसंहितम् 004a
यत्त्वं प्रशान्तिमिच्छेथाः पाण्डुपुत्रैर्महात्मभिः 004c
अङ्गेमां समवेक्षस्व पुत्र स्वामेव वाहिनीम् 005a
जात एव तव स्रावस्त्वं तु मोहान्न बुध्यसे 005c
न ह्यहं युद्धमिच्छामि नैतदिच्छति बाह्लिकः 006a
न च भीष्मो न च द्रोणो नाश्वत्थामा न सञ्जयः 006c
न सोमदत्तो न शल्यो न कृपो युद्धमिच्छति 007a
सत्यव्रतः पुरुमित्रो जयो भूरिश्रवास्तथा 007c
येषु सम्प्रतितिष्ठेयुः कुरवः पीडिताः परैः 008a
ते युद्धं नाभिनन्दन्ति तत्तुभ्यं तात रोचताम् 008c
न त्वं करोषि कामेन कर्णः कारयिता तव 009a
दुःशासनश्च पापात्मा शकुनिश्चापि सौबलः 009c
दुर्योधन उवाच 010
नाहं भवति न द्रोणे नाश्वत्थाम्नि न सञ्जये 010a
न विकर्णे न काम्बोजे न कृपे न च बाह्लिके 010c
सत्यव्रते पुरुमित्रे भूरिश्रवसि वा पुनः 011a
अन्येषु वा तावकेषु भारं कृत्वा समाह्वये 011c
अहं च तात कर्णश्च रणयज्ञं वितत्य वै 012a
युधिष्ठिरं पशुं कृत्वा दीक्षितौ भरतर्षभ 012c
रथो वेदी स्रुवः खड्गो गदा स्रुक्कवचं सदः 013a
चातुर्होत्रं च धुर्या मे शरा दर्भा हविर्यशः 013c
आत्मयज्ञेन नृपते इष्ट्वा वैवस्वतं रणे 014a
विजित्य स्वयमेष्यावो हतामित्रौ श्रिया वृतौ 014c
अहं च तात कर्णश्च भ्राता दुःशासनश्च मे 015a
एते वयं हनिष्यामः पाण्डवान्समरे त्रयः 015c
अहं हि पाण्डवान्हत्वा प्रशास्ता पृथिवीमिमाम् 016a
मां वा हत्वा पाण्डुपुत्रा भोक्तारः पृथिवीमिमाम् 016c
त्यक्तं मे जीवितं राजन्धनं राज्यं च पार्थिव 017a
न जातु पाण्डवैः सार्धं वसेयमहमच्युत 017c
यावद्धि सूच्यास्तीक्ष्णाया विध्येदग्रेण मारिष 018a
तावदप्यपरित्याज्यं भूमेर्नः पाण्डवान्प्रति 018c
धृतराष्ट्र उवाच 019
सर्वान्वस्तात शोचामि त्यक्तो दुर्योधनो मया 019a
ये मन्दमनुयास्यध्वं यान्तं वैवस्वतक्षयम् 019c
रुरूणामिव यूथेषु व्याघ्राः प्रहरतां वराः 020a
वरान्वरान्हनिष्यन्ति समेता युधि पाण्डवाः 020c
प्रतीपमिव मे भाति युयुधानेन भारती 021a
व्यस्ता सीमन्तिनी त्रस्ता प्रमृष्टा दीर्घबाहुना 021c
सम्पूर्णं पूरयन्भूयो बलं पार्थस्य माधवः 022a
शैनेयः समरे स्थाता बीजवत्प्रवपञ्शरान् 022c
सेनामुखे प्रयुद्धानां भीमसेनो भविष्यति 023a
तं सर्वे संश्रयिष्यन्ति प्राकारमकुतोभयम् 023c
यदा द्रक्ष्यसि भीमेन कुञ्जरान्विनिपातितान् 024a
विशीर्णदन्तान्गिर्याभान्भिन्नकुम्भान्सशोणितान् 024c
तानभिप्रेक्ष्य सङ्ग्रामे विशीर्णानिव पर्वतान् 025a
भीतो भीमस्य संस्पर्शात्स्मर्तासि वचनस्य मे 025c
निर्दग्धं भीमसेनेन सैन्यं हतरथद्विपम् 026a
गतिमग्नेरिव प्रेक्ष्य स्मर्तासि वचनस्य मे 026c
महद्वो भयमागामि न चेच्छाम्यथ पाण्डवैः 027a
गदया भीमसेनेन हताः शममुपैष्यथ 027c
महावनमिव छिन्नं यदा द्रक्ष्यसि पातितम् 028a
बलं कुरूणां सङ्ग्रामे तदा स्मर्तासि मे वचः 028c
वैशम्पायन उवाच 029
एतावदुक्त्वा राजा तु स सर्वान्पृथिवीपतीन् 029a
अनुभाष्य महाराज पुनः पप्रच्छ सञ्जयम् 029c