धृतराष्ट्र उवाच 001
कांस्तत्र सञ्जयापश्यः प्रत्यर्थेन समागतान् 001a
ये योत्स्यन्ते पाण्डवार्थे पुत्रस्य मम वाहिनीम् 001c
सञ्जय उवाच 002
मुख्यमन्धकवृष्णीनामपश्यं कृष्णमागतम् 002a
चेकितानं च तत्रैव युयुधानं च सात्यकिम् 002c
पृथगक्षौहिणीभ्यां तौ पाण्डवानभिसंश्रितौ 003a
महारथौ समाख्यातावुभौ पुरुषमानिनौ 003c
अक्षौहिण्याथ पाञ्चाल्यो दशभिस्तनयैर्वृतः 004a
सत्यजित्प्रमुखैर्वीरैर्धृष्टद्युम्नपुरोगमैः 004c
द्रुपदो वर्धयन्मानं शिखण्डिपरिपालितः 005a
उपायात्सर्वसैन्यानां प्रतिच्छाद्य तदा वपुः 005c
विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च 006a
सूर्यदत्तादिभिर्वीरैर्मदिराश्वपुरोगमैः 006c
सहितः पृथिवीपालो भ्रातृभिस्तनयैस्तथा 007a
अक्षौहिण्यैव सैन्यस्य वृतः पार्थं समाश्रितः 007c
जारासन्धिर्मागधश्च धृष्टकेतुश्च चेदिराट् 008a
पृथक्पृथगनुप्राप्तौ पृथगक्षौहिणीवृतौ 008c
केकया भ्रातरः पञ्च सर्वे लोहितकध्वजाः 009a
अक्षौहिणीपरिवृताः पाण्डवानभिसंश्रिताः 009c
एतानेतावतस्तत्र यानपश्यं समागतान् 010a
ये पाण्डवार्थे योत्स्यन्ति धार्तराष्ट्रस्य वाहिनीम् 010c
यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम् 011a
स तस्य सेनाप्रमुखे धृष्टद्युम्नो महामनाः 011c
भीष्मः शान्तनवो राजन्भागः कॢप्तः शिखण्डिनः 012a
तं विराटोऽनु संयाता सह मत्स्यैः प्रहारिभिः 012c
ज्येष्ठस्य पाण्डुपुत्रस्य भागो मद्राधिपो बली 013a
तौ तु तत्राब्रुवन्केचिद्विषमौ नो मताविति 013c
दुर्योधनः सहसुतः सार्धं भ्रातृशतेन च 014a
प्राच्याश्च दाक्षिणात्याश्च भीमसेनस्य भागतः 014c
अर्जुनस्य तु भागेन कर्णो वैकर्तनो मतः 015a
अश्वत्थामा विकर्णश्च सैन्धवश्च जयद्रथः 015c
अशक्याश्चैव ये केचित्पृथिव्यां शूरमानिनः 016a
सर्वांस्तानर्जुनः पार्थः कल्पयामास भागतः 016c
महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः 017a
केकयानेव भागेन कृत्वा योत्स्यन्ति संयुगे 017c
तेषामेव कृतो भागो मालवाः शाल्वकेकयाः 018a
त्रिगर्तानां च द्वौ मुख्यौ यौ तौ संशप्तकाविति 018c
दुर्योधनसुताः सर्वे तथा दुःशासनस्य च 019a
सौभद्रेण कृतो भागो राजा चैव बृहद्बलः 019c
द्रौपदेया महेष्वासाः सुवर्णविकृतध्वजाः 020a
धृष्टद्युम्नमुखा द्रोणमभियास्यन्ति भारत 020c
चेकितानः सोमदत्तं द्वैरथे योद्धुमिच्छति 021a
भोजं तु कृतवर्माणं युयुधानो युयुत्सति 021c
सहदेवस्तु माद्रेयः शूरः सङ्क्रन्दनो युधि 022a
स्वमंशं कल्पयामास श्यालं ते सुबलात्मजम् 022c
उलूकं चापि कैतव्यं ये च सारस्वता गणाः 023a
नकुलः कल्पयामास भागं माद्रवतीसुतः 023c
ये चान्ये पार्थिवा राजन्प्रत्युद्यास्यन्ति संयुगे 024a
समाह्वानेन तांश्चापि पाण्डुपुत्रा अकल्पयन् 024c
एवमेषामनीकानि प्रविभक्तानि भागशः 025a
यत्ते कार्यं सपुत्रस्य क्रियतां तदकालिकम् 025c
धृतराष्ट्र उवाच 026
न सन्ति सर्वे पुत्रा मे मूढा दुर्द्यूतदेविनः 026a
येषां युद्धं बलवता भीमेन रणमूर्धनि 026c
राजानः पार्थिवाः सर्वे प्रोक्षिताः कालधर्मणा 027a
गाण्डीवाग्निं प्रवेक्ष्यन्ति पतङ्गा इव पावकम् 027c
विद्रुतां वाहिनीं मन्ये कृतवैरैर्महात्मभिः 028a
तां रणे केऽनुयास्यन्ति प्रभग्नां पाण्डवैर्युधि 028c
सर्वे ह्यतिरथाः शूराः कीर्तिमन्तः प्रतापिनः 029a
सूर्यपावकयोस्तुल्यास्तेजसा समितिञ्जयाः 029c
येषां युधिष्ठिरो नेता गोप्ता च मधुसूदनः 030a
योधौ च पाण्डवौ वीरौ सव्यसाचिवृकोदरौ 030c
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः 031a
सात्यकिर्द्रुपदश्चैव धृष्टद्युम्नस्य चात्मजः 031c
उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः 032a
शिखण्डी क्षत्रदेवश्च तथा वैराटिरुत्तरः 032c
काशयश्चेदयश्चैव मत्स्याः सर्वे च सृञ्जयाः 033a
विराटपुत्रो बभ्रुश्च पाञ्चालाश्च प्रभद्रकाः 033c
येषामिन्द्रोऽप्यकामानां न हरेत्पृथिवीमिमाम् 034a
वीराणां रणधीराणां ये भिन्द्युः पर्वतानपि 034c
तान्सर्वान्गुणसम्पन्नानमनुष्यप्रतापिनः 035a
क्रोशतो मम दुष्पुत्रो योद्धुमिच्छति सञ्जय 035c
दुर्योधन उवाच 036
उभौ स्व एकजातीयौ तथोभौ भूमिगोचरौ 036a
अथ कस्मात्पाण्डवानामेकतो मन्यसे जयम् 036c
पितामहं च द्रोणं च कृपं कर्णं च दुर्जयम् 037a
जयद्रथं सोमदत्तमश्वत्थामानमेव च 037c
सुचेतसो महेष्वासानिन्द्रोऽपि सहितोऽमरैः 038a
अशक्तः समरे जेतुं किं पुनस्तात पाण्डवाः 038c
सर्वा च पृथिवी सृष्टा मदर्थे तात पाण्डवान् 039a
आर्यान्धृतिमतः शूरानग्निकल्पान्प्रबाधितुम् 039c
न मामकान्पाण्डवास्ते समर्थाः प्रतिवीक्षितुम् 040a
पराक्रान्तो ह्यहं पाण्डून्सपुत्रान्योद्धुमाहवे 040c
मत्प्रियं पार्थिवाः सर्वे ये चिकीर्षन्ति भारत 041a
ते तानावारयिष्यन्ति ऐणेयानिव तन्तुना 041c
महता रथवंशेन शरजालैश्च मामकैः 042a
अभिद्रुता भविष्यन्ति पाञ्चालाः पाण्डवैः सह 042c
धृतराष्ट्र उवाच 043
उन्मत्त इव मे पुत्रो विलपत्येष सञ्जय 043a
न हि शक्तो युधा जेतुं धर्मराजं युधिष्ठिरम् 043c
जानाति हि सदा भीष्मः पाण्डवानां यशस्विनाम् 044a
बलवत्तां सपुत्राणां धर्मज्ञानां महात्मनाम् 044c
यतो नारोचयमहं विग्रहं तैर्महात्मभिः 045a
किं तु सञ्जय मे ब्रूहि पुनस्तेषां विचेष्टितम् 045c
कस्तांस्तरस्विनो भूयः सन्दीपयति पाण्डवान् 046a
अर्चिष्मतो महेष्वासान्हविषा पावकानिव 046c
सञ्जय उवाच 047
धृष्टद्युम्नः सदैवैतान्सन्दीपयति भारत 047a
युध्यध्वमिति मा भैष्ट युद्धाद्भरतसत्तमाः 047c
ये केचित्पार्थिवास्तत्र धार्तराष्ट्रेण संवृताः 048a
युद्धे समागमिष्यन्ति तुमुले कवचह्रदे 048c
तान्सर्वानाहवे क्रुद्धान्सानुबन्धान्समागतान् 049a
अहमेकः समादास्ये तिमिर्मत्स्यानिवौदकान् 049c
भीष्मं द्रोणं कृपं कर्णं द्रौणिं शल्यं सुयोधनम् 050a
एतांश्चापि निरोत्स्यामि वेलेव मकरालयम् 050c
तथा ब्रुवाणं धर्मात्मा प्राह राजा युधिष्ठिरः 051a
तव धैर्यं च वीर्यं च पाञ्चालाः पाण्डवैः सह 051c
सर्वे समधिरूढाः स्म सङ्ग्रामान्नः समुद्धर 051e
जानामि त्वां महाबाहो क्षत्रधर्मे व्यवस्थितम् 052a
समर्थमेकं पर्याप्तं कौरवाणां युयुत्सताम् 052c
भवता यद्विधातव्यं तन्नः श्रेयः परन्तप 052e
सङ्ग्रामादपयातानां भग्नानां शरणैषिणाम् 053a
पौरुषं दर्शयञ्शूरो यस्तिष्ठेदग्रतः पुमान् 053c
क्रीणीयात्तं सहस्रेण नीतिमन्नाम तत्पदम् 053e
स त्वं शूरश्च वीरश्च विक्रान्तश्च नरर्षभ 054a
भयार्तानां परित्राता संयुगेषु न संशयः 054c
एवं ब्रुवति कौन्तेये धर्मात्मनि युधिष्ठिरे 055a
धृष्टद्युम्न उवाचेदं मां वचो गतसाध्वसः 055c
सर्वाञ्जनपदान्सूत योधा दुर्योधनस्य ये 056a
सबाह्लीकान्कुरून्ब्रूयाः प्रातिपेयाञ्शरद्वतः 056c
सूतपुत्रं तथा द्रोणं सहपुत्रं जयद्रथम् 057a
दुःशासनं विकर्णं च तथा दुर्योधनं नृपम् 057c
भीष्मं चैव ब्रूहि गत्वा त्वमाशु युधिष्ठिरं साधुनैवाभ्युपेत 058a
मा वो वधीदर्जुनो देवगुप्तः क्षिप्रं याचध्वं पाण्डवं लोकवीरम् 058c
नैतादृशो हि योधोऽस्ति पृथिव्यामिह कश्चन 059a
यथाविधः सव्यसाची पाण्डवः शस्त्रवित्तमः 059c
देवैर्हि सम्भृतो दिव्यो रथो गाण्डीवधन्वनः 060a
न स जेयो मनुष्येण मा स्म कृध्वं मनो युधि 060c