दुर्योधन उवाच 001
अक्षौहिणीः सप्त लब्ध्वा राजभिः सह सञ्जय 001a
किं स्विदिच्छति कौन्तेयो युद्धप्रेप्सुर्युधिष्ठिरः 001c
सञ्जय उवाच 002
अतीव मुदितो राजन्युद्धप्रेप्सुर्युधिष्ठिरः 002a
भीमसेनार्जुनौ चोभौ यमावपि न बिभ्यतः 002c
रथं तु दिव्यं कौन्तेयः सर्वा विभ्राजयन्दिशः 003a
मन्त्रं जिज्ञासमानः सन्बीभत्सुः समयोजयत् 003c
तमपश्याम सन्नद्धं मेघं विद्युत्प्रभं यथा 004a
स मन्त्रान्समभिध्याय हृष्यमाणोऽभ्यभाषत 004c
पूर्वरूपमिदं पश्य वयं जेष्याम सञ्जय 005a
बीभत्सुर्मां यथोवाच तथावैम्यहमप्युत 005c
दुर्योधन उवाच 006
प्रशंसस्यभिनन्दंस्तान्पार्थानक्षपराजितान् 006a
अर्जुनस्य रथे ब्रूहि कथमश्वाः कथं ध्वजः 006c
सञ्जय उवाच 007
भौवनः सह शक्रेण बहुचित्रं विशां पते 007a
रूपाणि कल्पयामास त्वष्टा धात्रा सहाभिभो 007c
ध्वजे हि तस्मिन्रूपाणि चक्रुस्ते देवमायया 008a
महाधनानि दिव्यानि महान्ति च लघूनि च 008c
सर्वा दिशो योजनमात्रमन्तरं स तिर्यगूर्ध्वं च रुरोध वै ध्वजः 009a
न संसज्जेत्तरुभिः संवृतोऽपि तथा हि माया विहिता भौवनेन 009c
यथाकाशे शक्रधनुः प्रकाशते न चैकवर्णं न च विद्म किं नु तत् 010a
तथा ध्वजो विहितो भौवनेन बह्वाकारं दृश्यते रूपमस्य 010c
यथाग्निधूमो दिवमेति रुद्ध्वा वर्णान्बिभ्रत्तैजसं तच्छरीरम् 011a
तथा ध्वजो विहितो भौवनेन न चेद्भारो भविता नोत रोधः 011c
श्वेतास्तस्मिन्वातवेगाः सदश्वा दिव्या युक्ताश्चित्ररथेन दत्ताः 012a
शतं यत्तत्पूर्यते नित्यकालं हतं हतं दत्तवरं पुरस्तात् 012c
तथा राज्ञो दन्तवर्णा बृहन्तो रथे युक्ता भान्ति तद्वीर्यतुल्याः 013a
ऋश्यप्रख्या भीमसेनस्य वाहा रणे वायोस्तुल्यवेगा बभूवुः 013c
कल्माषाङ्गास्तित्तिरिचित्रपृष्ठा भ्रात्रा दत्ताः प्रीयता फल्गुनेन 014a
भ्रातुर्वीरस्य स्वैस्तुरङ्गैर्विशिष्टा मुदा युक्ताः सहदेवं वहन्ति 014c
माद्रीपुत्रं नकुलं त्वाजमीढं महेन्द्रदत्ता हरयो वाजिमुख्याः 015a
समा वायोर्बलवन्तस्तरस्विनो वहन्ति वीरं वृत्रशत्रुं यथेन्द्रम् 015c
तुल्याश्चैभिर्वयसा विक्रमेण जवेन चैवाप्रतिरूपाः सदश्वाः 016a
सौभद्रादीन्द्रौपदेयान्कुमारान्वहन्त्यश्वा देवदत्ता बृहन्तः 016c