दुर्योधन उवाच 001
न भेतव्यं महाराज न शोच्या भवता वयम् 001a
समर्थाः स्म परान्राजन्विजेतुं समरे विभो 001c
वनं प्रव्राजितान्पार्थान्यदायान्मधुसूदनः 002a
महता बलचक्रेण परराष्ट्रावमर्दिना 002c
केकया धृष्टकेतुश्च धृष्टद्युम्नश्च पार्षतः 003a
राजानश्चान्वयुः पार्थान्बहवोऽन्येऽनुयायिनः 003c
इन्द्रप्रस्थस्य चादूरात्समाजग्मुर्महारथाः 004a
व्यगर्हयंश्च सङ्गम्य भवन्तं कुरुभिः सह 004c
ते युधिष्ठिरमासीनमजिनैः प्रतिवासितम् 005a
कृष्णप्रधानाः संहत्य पर्युपासन्त भारत 005c
प्रत्यादानं च राज्यस्य कार्यमूचुर्नराधिपाः 006a
भवतः सानुबन्धस्य समुच्छेदं चिकीर्षवः 006c
श्रुत्वा चैतन्मयोक्तास्तु भीष्मद्रोणकृपास्तदा 007a
ज्ञातिक्षयभयाद्राजन्भीतेन भरतर्षभ 007c
न ते स्थास्यन्ति समये पाण्डवा इति मे मतिः 008a
समुच्छेदं हि नः कृत्स्नं वासुदेवश्चिकीर्षति 008c
ऋते च विदुरं सर्वे यूयं वध्या महात्मनः 009a
धृतराष्ट्रश्च धर्मज्ञो न वध्यः कुरुसत्तमः 009c
समुच्छेदं च कृत्स्नं नः कृत्वा तात जनार्दनः 010a
एकराज्यं कुरूणां स्म चिकीर्षति युधिष्ठिरे 010c
तत्र किं प्राप्तकालं नः प्रणिपातः पलायनम् 011a
प्राणान्वा सम्परित्यज्य प्रतियुध्यामहे परान् 011c
प्रतियुद्धे तु नियतः स्यादस्माकं पराजयः 012a
युधिष्ठिरस्य सर्वे हि पार्थिवा वशवर्तिनः 012c
विरक्तराष्ट्राश्च वयं मित्राणि कुपितानि नः 013a
धिक्कृताः पार्थिवैः सर्वैः स्वजनेन च सर्वशः 013c
प्रणिपाते तु दोषोऽस्ति बन्धूनां शाश्वतीः समाः 014a
पितरं त्वेव शोचामि प्रज्ञानेत्रं जनेश्वरम् 014c
मत्कृते दुःखमापन्नं क्लेशं प्राप्तमनन्तकम् 014e
कृतं हि तव पुत्रैश्च परेषामवरोधनम् 015a
मत्प्रियार्थं पुरैवैतद्विदितं ते नरोत्तम 015c
ते राज्ञो धृतराष्ट्रस्य सामात्यस्य महारथाः 016a
वैरं प्रतिकरिष्यन्ति कुलोच्छेदेन पाण्डवाः 016c
ततो द्रोणोऽब्रवीद्भीष्मः कृपो द्रौणिश्च भारत 017a
मत्वा मां महतीं चिन्तामास्थितं व्यथितेन्द्रियम् 017c
अभिद्रुग्धाः परे चेन्नो न भेतव्यं परन्तप 018a
असमर्थाः परे जेतुमस्मान्युधि जनेश्वर 018c
एकैकशः समर्थाः स्मो विजेतुं सर्वपार्थिवान् 019a
आगच्छन्तु विनेष्यामो दर्पमेषां शितैः शरैः 019c
पुरैकेन हि भीष्मेण विजिताः सर्वपार्थिवाः 020a
मृते पितर्यभिक्रुद्धो रथेनैकेन भारत 020c
जघान सुबहूंस्तेषां संरब्धः कुरुसत्तमः 021a
ततस्ते शरणं जग्मुर्देवव्रतमिमं भयात् 021c
स भीष्मः सुसमर्थोऽयमस्माभिः सहितो रणे 022a
परान्विजेतुं तस्मात्ते व्येतु भीर्भरतर्षभ 022c
इत्येषां निश्चयो ह्यासीत्तत्कालममितौजसाम् 022e
पुरा परेषां पृथिवी कृत्स्नासीद्वशवर्तिनी 023a
अस्मान्पुनरमी नाद्य समर्था जेतुमाहवे 023c
छिन्नपक्षाः परे ह्यद्य वीर्यहीनाश्च पाण्डवाः 023e
अस्मत्संस्था च पृथिवी वर्तते भरतर्षभ 024a
एकार्थाः सुखदुःखेषु मयानीताश्च पार्थिवाः 024c
अप्यग्निं प्रविशेयुस्ते समुद्रं वा परन्तप 025a
मदर्थे पार्थिवाः सर्वे तद्विद्धि कुरुसत्तम 025c
उन्मत्तमिव चापि त्वां प्रहसन्तीह दुःखितम् 026a
विलपन्तं बहुविधं भीतं परविकत्थने 026c
एषां ह्येकैकशो राज्ञां समर्थः पाण्डवान्प्रति 027a
आत्मानं मन्यते सर्वो व्येतु ते भयमागतम् 027c
सर्वां समग्रां सेनां मे वासवोऽपि न शक्नुयात् 028a
हन्तुमक्षय्यरूपेयं ब्रह्मणापि स्वयम्भुवा 028c
युधिष्ठिरः पुरं हित्वा पञ्च ग्रामान्स याचति 029a
भीतो हि मामकात्सैन्यात्प्रभावाच्चैव मे प्रभो 029c
समर्थं मन्यसे यच्च कुन्तीपुत्रं वृकोदरम् 030a
तन्मिथ्या न हि मे कृत्स्नं प्रभावं वेत्थ भारत 030c
मत्समो हि गदायुद्धे पृथिव्यां नास्ति कश्चन 031a
नासीत्कश्चिदतिक्रान्तो भविता न च कश्चन 031c
युक्तो दुःखोचितश्चाहं विद्यापारगतस्तथा 032a
तस्मान्न भीमान्नान्येभ्यो भयं मे विद्यते क्वचित् 032c
दुर्योधनसमो नास्ति गदायामिति निश्चयः 033a
सङ्कर्षणस्य भद्रं ते यत्तदैनमुपावसम् 033c
युद्धे सङ्कर्षणसमो बलेनाभ्यधिको भुवि 034a
गदाप्रहारं भीमो मे न जातु विषहेद्युधि 034c
एकं प्रहारं यं दद्यां भीमाय रुषितो नृप 035a
स एवैनं नयेद्घोरं क्षिप्रं वैवस्वतक्षयम् 035c
इच्छेयं च गदाहस्तं राजन्द्रष्टुं वृकोदरम् 036a
सुचिरं प्रार्थितो ह्येष मम नित्यं मनोरथः 036c
गदया निहतो ह्याजौ मम पार्थो वृकोदरः 037a
विशीर्णगात्रः पृथिवीं परासुः प्रपतिष्यति 037c
गदाप्रहाराभिहतो हिमवानपि पर्वतः 038a
सकृन्मया विशीर्येत गिरिः शतसहस्रधा 038c
स चाप्येतद्विजानाति वासुदेवार्जुनौ तथा 039a
दुर्योधनसमो नास्ति गदायामिति निश्चयः 039c
तत्ते वृकोदरमयं भयं व्येतु महाहवे 040a
व्यपनेष्याम्यहं ह्येनं मा राजन्विमना भव 040c
तस्मिन्मया हते क्षिप्रमर्जुनं बहवो रथाः 041a
तुल्यरूपा विशिष्टाश्च क्षेप्स्यन्ति भरतर्षभ 041c
भीष्मो द्रोणः कृपो द्रौणिः कर्णो भूरिश्रवास्तथा 042a
प्राग्ज्योतिषाधिपः शल्यः सिन्धुराजो जयद्रथः 042c
एकैक एषां शक्तस्तु हन्तुं भारत पाण्डवान् 043a
समस्तास्तु क्षणेनैतान्नेष्यन्ति यमसादनम् 043c
समग्रा पार्थिवी सेना पार्थमेकं धनञ्जयम् 044a
कस्मादशक्ता निर्जेतुमिति हेतुर्न विद्यते 044c
शरव्रातैस्तु भीष्मेण शतशोऽथ सहस्रशः 045a
द्रोणद्रौणिकृपैश्चैव गन्ता पार्थो यमक्षयम् 045c
पितामहो हि गाङ्गेयः शन्तनोरधि भारत 046a
ब्रह्मर्षिसदृशो जज्ञे देवैरपि दुरुत्सहः 046c
पित्रा ह्युक्तः प्रसन्नेन नाकामस्त्वं मरिष्यसि 046e
ब्रह्मर्षेश्च भरद्वाजाद्द्रोण्यां द्रोणो व्यजायत 047a
द्रोणाज्जज्ञे महाराज द्रौणिश्च परमास्त्रवित् 047c
कृपश्चाचार्यमुख्योऽयं महर्षेर्गौतमादपि 048a
शरस्तम्बोद्भवः श्रीमानवध्य इति मे मतिः 048c
अयोनिजं त्रयं ह्येतत्पिता माता च मातुलः 049a
अश्वत्थाम्नो महाराज स च शूरः स्थितो मम 049c
सर्व एते महाराज देवकल्पा महारथाः 050a
शक्रस्यापि व्यथां कुर्युः संयुगे भरतर्षभ 050c
भीष्मद्रोणकृपाणां च तुल्यः कर्णो मतो मम 051a
अनुज्ञातश्च रामेण मत्समोऽसीति भारत 051c
कुण्डले रुचिरे चास्तां कर्णस्य सहजे शुभे 052a
ते शच्यर्थे महेन्द्रेण याचितः स परन्तपः 052c
अमोघया महाराज शक्त्या परमभीमया 052e
तस्य शक्त्योपगूढस्य कस्माज्जीवेद्धनञ्जयः 053a
विजयो मे ध्रुवं राजन्फलं पाणाविवाहितम् 053c
अभिव्यक्तः परेषां च कृत्स्नो भुवि पराजयः 053e
अह्ना ह्येकेन भीष्मोऽयमयुतं हन्ति भारत 054a
तत्समाश्च महेष्वासा द्रोणद्रौणिकृपा अपि 054c
संशप्तानि च वृन्दानि क्षत्रियाणां परन्तप 055a
अर्जुनं वयमस्मान्वा धनञ्जय इति स्म ह 055c
तांश्चालमिति मन्यन्ते सव्यसाचिवधे विभो 056a
पार्थिवाः स भवान्राजन्नकस्माद्व्यथते कथम् 056c
भीमसेने च निहते कोऽन्यो युध्येत भारत 057a
परेषां तन्ममाचक्ष्व यदि वेत्थ परन्तप 057c
पञ्च ते भ्रातरः सर्वे धृष्टद्युम्नोऽथ सात्यकिः 058a
परेषां सप्त ये राजन्योधाः परमकं बलम् 058c
अस्माकं तु विशिष्टा ये भीष्मद्रोणकृपादयः 059a
द्रौणिर्वैकर्तनः कर्णः सोमदत्तोऽथ बाह्लिकः 059c
प्राग्ज्योतिषाधिपः शल्य आवन्त्योऽथ जयद्रथः 060a
दुःशासनो दुर्मुखश्च दुःसहश्च विशां पते 060c
श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः 061a
शलो भूरिश्रवाश्चोभौ विकर्णश्च तवात्मजः 061c
अक्षौहिण्यो हि मे राजन्दशैका च समाहृताः 062a
न्यूनाः परेषां सप्तैव कस्मान्मे स्यात्पराजयः 062c
बलं त्रिगुणतो हीनं योध्यं प्राह बृहस्पतिः 063a
परेभ्यस्त्रिगुणा चेयं मम राजन्ननीकिनी 063c
गुणहीनं परेषां च बहु पश्यामि भारत 064a
गुणोदयं बहुगुणमात्मनश्च विशां पते 064c
एतत्सर्वं समाज्ञाय बलाग्र्यं मम भारत 065a
न्यूनतां पाण्डवानां च न मोहं गन्तुमर्हसि 065c
वैशम्पायन उवाच 066
इत्युक्त्वा सञ्जयं भूयः पर्यपृच्छत भारत 066a
विधित्सुः प्राप्तकालानि ज्ञात्वा परपुरञ्जयः 066c