सञ्जय उवाच 001
एवमेतन्महाराज यथा वदसि भारत 001a
युद्धे विनाशः क्षत्रस्य गाण्डीवेन प्रदृश्यते 001c
इदं तु नाभिजानामि तव धीरस्य नित्यशः 002a
यत्पुत्रवशमागच्छेः सत्त्वज्ञः सव्यसाचिनः 002c
नैष कालो महाराज तव शश्वत्कृतागसः 003a
त्वया ह्येवादितः पार्था निकृता भरतर्षभ 003c
पिता श्रेष्ठः सुहृद्यश्च सम्यक्प्रणिहितात्मवान् 004a
आस्थेयं हि हितं तेन न द्रोग्धा गुरुरुच्यते 004c
इदं जितमिदं लब्धमिति श्रुत्वा पराजितान् 005a
द्यूतकाले महाराज स्मयसे स्म कुमारवत् 005c
परुषाण्युच्यमानान्स्म पुरा पार्थानुपेक्षसे 006a
कृत्स्नं राज्यं जयन्तीति प्रपातं नानुपश्यसि 006c
पित्र्यं राज्यं महाराज कुरवस्ते सजाङ्गलाः 007a
अथ वीरैर्जितां भूमिमखिलां प्रत्यपद्यथाः 007c
बाहुवीर्यार्जिता भूमिस्तव पार्थैर्निवेदिता 008a
मयेदं कृतमित्येव मन्यसे राजसत्तम 008c
ग्रस्तान्गन्धर्वराजेन मज्जतो ह्यप्लवेऽम्भसि 009a
आनिनाय पुनः पार्थः पुत्रांस्ते राजसत्तम 009c
कुमारवच्च स्मयसे द्यूते विनिकृतेषु यत् 010a
पाण्डवेषु वनं राजन्प्रव्रजत्सु पुनः पुनः 010c
प्रवर्षतः शरव्रातानर्जुनस्य शितान्बहून् 011a
अप्यर्णवा विशुष्येयुः किं पुनर्मांसयोनयः 011c
अस्यतां फल्गुनः श्रेष्ठो गाण्डीवं धनुषां वरम् 012a
केशवः सर्वभूतानां चक्राणां च सुदर्शनम् 012c
वानरो रोचमानश्च केतुः केतुमतां वरः 013a
एवमेतानि सरथो वहञ्श्वेतहयो रणे 013c
क्षपयिष्यति नो राजन्कालचक्रमिवोद्यतम् 013e
तस्याद्य वसुधा राजन्निखिला भरतर्षभ 014a
यस्य भीमार्जुनौ योधौ स राजा राजसत्तम 014c
तथा भीमहतप्रायां मज्जन्तीं तव वाहिनीम् 015a
दुर्योधनमुखा दृष्ट्वा क्षयं यास्यन्ति कौरवाः 015c
न हि भीमभयाद्भीता लप्स्यन्ते विजयं विभो 016a
तव पुत्रा महाराज राजानश्चानुसारिणः 016c
मत्स्यास्त्वामद्य नार्चन्ति पाञ्चालाश्च सकेकयाः 017a
शाल्वेयाः शूरसेनाश्च सर्वे त्वामवजानते 017c
पार्थं ह्येते गताः सर्वे वीर्यज्ञास्तस्य धीमतः 017e
अनर्हानेव तु वधे धर्मयुक्तान्विकर्मणा 018a
सर्वोपायैर्नियन्तव्यः सानुगः पापपूरुषः 018c
तव पुत्रो महाराज नात्र शोचितुमर्हसि 018e
द्यूतकाले मया चोक्तं विदुरेण च धीमता 019a
यदिदं ते विलपितं पाण्डवान्प्रति भारत 019c
अनीशेनेव राजेन्द्र सर्वमेतन्निरर्थकम् 019e