धृतराष्ट्र उवाच 001
यथैव पाण्डवाः सर्वे पराक्रान्ता जिगीषवः 001a
तथैवाभिसरास्तेषां त्यक्तात्मानो जये धृताः 001c
त्वमेव हि पराक्रान्तानाचक्षीथाः परान्मम 002a
पाञ्चालान्केकयान्मत्स्यान्मागधान्वत्सभूमिपान् 002c
यश्च सेन्द्रानिमाल्ँलोकानिच्छन्कुर्याद्वशे बली 003a
स श्रेष्ठो जगतः कृष्णः पाण्डवानां जये धृतः 003c
समस्तामर्जुनाद्विद्यां सात्यकिः क्षिप्रमाप्तवान् 004a
शैनेयः समरे स्थाता बीजवत्प्रवपञ्शरान् 004c
धृष्टद्युम्नश्च पाञ्चाल्यः क्रूरकर्मा महारथः 005a
मामकेषु रणं कर्ता बलेषु परमास्त्रवित् 005c
युधिष्ठिरस्य च क्रोधादर्जुनस्य च विक्रमात् 006a
यमाभ्यां भीमसेनाच्च भयं मे तात जायते 006c
अमानुषं मनुष्येन्द्रैर्जालं विततमन्तरा 007a
मम सेनां हनिष्यन्ति ततः क्रोशामि सञ्जय 007c
दर्शनीयो मनस्वी च लक्ष्मीवान्ब्रह्मवर्चसी 008a
मेधावी सुकृतप्रज्ञो धर्मात्मा पाण्डुनन्दनः 008c
मित्रामात्यैः सुसम्पन्नः सम्पन्नो योज्ययोजकैः 009a
भ्रातृभिः श्वशुरैः पुत्रैरुपपन्नो महारथैः 009c
धृत्या च पुरुषव्याघ्रो नैभृत्येन च पाण्डवः 010a
अनृशंसो वदान्यश्च ह्रीमान्सत्यपराक्रमः 010c
बहुश्रुतः कृतात्मा च वृद्धसेवी जितेन्द्रियः 011a
तं सर्वगुणसम्पन्नं समिद्धमिव पावकम् 011c
तपन्तमिव को मन्दः पतिष्यति पतङ्गवत् 012a
पाण्डवाग्निमनावार्यं मुमूर्षुर्मूढचेतनः 012c
तनुरुच्चः शिखी राजा शुद्धजाम्बूनदप्रभः 013a
मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति 013c
तैरयुद्धं साधु मन्ये कुरवस्तन्निबोधत 014a
युद्धे विनाशः कृत्स्नस्य कुलस्य भविता ध्रुवम् 014c
एषा मे परमा शान्तिर्यया शाम्यति मे मनः 015a
यदि त्वयुद्धमिष्टं वो वयं शान्त्यै यतामहे 015c
न तु नः शिक्षमाणानामुपेक्षेत युधिष्ठिरः 016a
जुगुप्सति ह्यधर्मेण मामेवोद्दिश्य कारणम् 016c