धृतराष्ट्र उवाच 001
यस्य वै नानृता वाचः प्रवृत्ता अनुशुश्रुमः 001a
त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनञ्जयः 001c
तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः 002a
अनिशं चिन्तयानोऽपि यः प्रतीयाद्रथेन तम् 002c
अस्यतः कर्णिनालीकान्मार्गणान्हृदयच्छिदः 003a
प्रत्येता न समः कश्चिद्युधि गाण्डीवधन्वनः 003c
द्रोणकर्णौ प्रतीयातां यदि वीरौ नरर्षभौ 004a
माहात्म्यात्संशयो लोके न त्वस्ति विजयो मम 004c
घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः 005a
समर्थो बलवान्पार्थो दृढधन्वा जितक्लमः 005c
भवेत्सुतुमुलं युद्धं सर्वशोऽप्यपराजयः 005e
सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः 006a
अपि सर्वामरैश्वर्यं त्यजेयुर्न पुनर्जयम् 006c
वधे नूनं भवेच्छान्तिस्तयोर्वा फल्गुनस्य वा 006e
न तु जेतार्जुनस्यास्ति हन्ता चास्य न विद्यते 007a
मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति य उत्थितः 007c
अन्येऽप्यस्त्राणि जानन्ति जीयन्ते च जयन्ति च 008a
एकान्तविजयस्त्वेव श्रूयते फल्गुनस्य ह 008c
त्रयस्त्रिंशत्समाहूय खाण्डवेऽग्निमतर्पयत् 009a
जिगाय च सुरान्सर्वान्नास्य वेद्मि पराजयम् 009c
यस्य यन्ता हृषीकेशः शीलवृत्तसमो युधि 010a
ध्रुवस्तस्य जयस्तात यथेन्द्रस्य जयस्तथा 010c
कृष्णावेकरथे यत्तावधिज्यं गाण्डिवं धनुः 011a
युगपत्त्रीणि तेजांसि समेतान्यनुशुश्रुमः 011c
नैव नोऽस्ति धनुस्तादृङ्न योद्धा न च सारथिः 012a
तच्च मन्दा न जानन्ति दुर्योधनवशानुगाः 012c
शेषयेदशनिर्दीप्तो निपतन्मूर्ध्नि सञ्जय 013a
न तु शेषं शराः कुर्युरस्तास्तात किरीटिना 013c
अपि चास्यन्निवाभाति निघ्नन्निव च फल्गुनः 014a
उद्धरन्निव कायेभ्यः शिरांसि शरवृष्टिभिः 014c
अपि बाणमयं तेजः प्रदीप्तमिव सर्वतः 015a
गाण्डीवेद्धं दहेताजौ पुत्राणां मम वाहिनीम् 015c
अपि सा रथघोषेण भयार्ता सव्यसाचिनः 016a
वित्रस्ता बहुला सेना भारती प्रतिभाति मे 016c
यथा कक्षं दहत्यग्निः प्रवृद्धः सर्वतश्चरन् 017a
महार्चिरनिलोद्धूतस्तद्वद्धक्ष्यति मामकान् 017c
यदोद्वमन्निशितान्बाणसङ्घान्स्थाताततायी समरे किरीटी 018a
सृष्टोऽन्तकः सर्वहरो विधात्रा यथा भवेत्तद्वदवारणीयः 018c
यदा ह्यभीक्ष्णं सुबहून्प्रकाराञ्श्रोतास्मि तानावसथे कुरूणाम् 019a
तेषां समन्ताच्च तथा रणाग्रे क्षयः किलायं भरतानुपैति 019c