धृतराष्ट्र उवाच 001
सर्व एते महोत्साहा ये त्वया परिकीर्तिताः 001a
एकतस्त्वेव ते सर्वे समेता भीम एकतः 001c
भीमसेनाद्धि मे भूयो भयं सञ्जायते महत् 002a
क्रुद्धादमर्षणात्तात व्याघ्रादिव महारुरोः 002c
जागर्मि रात्रयः सर्वा दीर्घमुष्णं च निःश्वसन् 003a
भीतो वृकोदरात्तात सिंहात्पशुरिवाबलः 003c
न हि तस्य महाबाहोः शक्रप्रतिमतेजसः 004a
सैन्येऽस्मिन्प्रतिपश्यामि य एनं विषहेद्युधि 004c
अमर्षणश्च कौन्तेयो दृढवैरश्च पाण्डवः 005a
अनर्महासी सोन्मादस्तिर्यक्प्रेक्षी महास्वनः 005c
महावेगो महोत्साहो महाबाहुर्महाबलः 006a
मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति 006c
ऊरुग्राहगृहीतानां गदां बिभ्रद्वृकोदरः 007a
कुरूणामृषभो युद्धे दण्डपाणिरिवान्तकः 007c
शैक्यायसमयीं घोरां गदां काञ्चनभूषिताम् 008a
मनसाहं प्रपश्यामि ब्रह्मदण्डमिवोद्यतम् 008c
यथा रुरूणां यूथेषु सिंहो जातबलश्चरेत् 009a
मामकेषु तथा भीमो बलेषु विचरिष्यति 009c
सर्वेषां मम पुत्राणां स एकः क्रूरविक्रमः 010a
बह्वाशी विप्रतीपश्च बाल्येऽपि रभसः सदा 010c
उद्वेपते मे हृदयं यदा दुर्योधनादयः 011a
बाल्येऽपि तेन युध्यन्तो वारणेनेव मर्दिताः 011c
तस्य वीर्येण सङ्क्लिष्टा नित्यमेव सुता मम 012a
स एव हेतुर्भेदस्य भीमो भीमपराक्रमः 012c
ग्रसमानमनीकानि नरवारणवाजिनाम् 013a
पश्यामीवाग्रतो भीमं क्रोधमूर्छितमाहवे 013c
अस्त्रे द्रोणार्जुनसमं वायुवेगसमं जवे 014a
सञ्जयाचक्ष्व मे शूरं भीमसेनममर्षणम् 014c
अतिलाभं तु मन्येऽहं यत्तेन रिपुघातिना 015a
तदैव न हताः सर्वे मम पुत्रा मनस्विना 015c
येन भीमबला यक्षा राक्षसाश्च समाहताः 016a
कथं तस्य रणे वेगं मानुषः प्रसहिष्यति 016c
न स जातु वशे तस्थौ मम बालोऽपि सञ्जय 017a
किं पुनर्मम दुष्पुत्रैः क्लिष्टः सम्प्रति पाण्डवः 017c
निष्ठुरः स च नैष्ठुर्याद्भज्येदपि न सन्नमेत् 018a
तिर्यक्प्रेक्षी संहतभ्रूः कथं शाम्येद्वृकोदरः 018c
बृहदंसोऽप्रतिबलो गौरस्ताल इवोद्गतः 019a
प्रमाणतो भीमसेनः प्रादेशेनाधिकोऽर्जुनात् 019c
जवेन वाजिनोऽत्येति बलेनात्येति कुञ्जरान् 020a
अव्यक्तजल्पी मध्वक्षो मध्यमः पाण्डवो बली 020c
इति बाल्ये श्रुतः पूर्वं मया व्यासमुखात्पुरा 021a
रूपतो वीर्यतश्चैव याथातथ्येन पाण्डवः 021c
आयसेन स दण्डेन रथान्नागान्हयान्नरान् 022a
हनिष्यति रणे क्रुद्धो भीमः प्रहरतां वरः 022c
अमर्षी नित्यसंरब्धो रौद्रः क्रूरपराक्रमः 023a
मम तात प्रतीपानि कुर्वन्पूर्वं विमानितः 023c
निष्कीर्णामायसीं स्थूलां सुपर्वां काञ्चनीं गदाम् 024a
शतघ्नीं शतनिर्ह्रादां कथं शक्ष्यन्ति मे सुताः 024c
अपारमप्लवागाधं समुद्रं शरवेगिनम् 025a
भीमसेनमयं दुर्गं तात मन्दास्तितीर्षवः 025c
क्रोशतो मे न शृण्वन्ति बालाः पण्डितमानिनः 026a
विषमं नावबुध्यन्ते प्रपातं मधुदर्शिनः 026c
संयुगं ये करिष्यन्ति नररूपेण वायुना 027a
नियतं चोदिता धात्रा सिंहेनेव महामृगाः 027c
शैक्यां तात चतुष्किष्कुं षडस्रिममितौजसम् 028a
प्रहितां दुःखसंस्पर्शां कथं शक्ष्यन्ति मे सुताः 028c
गदां भ्रामयतस्तस्य भिन्दतो हस्तिमस्तकान् 029a
सृक्किणी लेलिहानस्य बाष्पमुत्सृजतो मुहुः 029c
उद्दिश्य पातान्पततः कुर्वतो भैरवान्रवान् 030a
प्रतीपान्पततो मत्तान्कुञ्जरान्प्रतिगर्जतः 030c
विगाह्य रथमार्गेषु वरानुद्दिश्य निघ्नतः 031a
अग्नेः प्रज्वलितस्येव अपि मुच्येत मे प्रजा 031c
वीथीं कुर्वन्महाबाहुर्द्रावयन्मम वाहिनीम् 032a
नृत्यन्निव गदापाणिर्युगान्तं दर्शयिष्यति 032c
प्रभिन्न इव मातङ्गः प्रभञ्जन्पुष्पितान्द्रुमान् 033a
प्रवेक्ष्यति रणे सेनां पुत्राणां मे वृकोदरः 033c
कुर्वन्रथान्विपुरुषान्विध्वजान्भग्नपुष्करान् 034a
आरुजन्पुरुषव्याघ्रो रथिनः सादिनस्तथा 034c
गङ्गावेग इवानूपांस्तीरजान्विविधान्द्रुमान् 035a
प्रवेक्ष्यति महासेनां पुत्राणां मम सञ्जय 035c
वशं नूनं गमिष्यन्ति भीमसेनबलार्दिताः 036a
मम पुत्राश्च भृत्याश्च राजानश्चैव सञ्जय 036c
येन राजा महावीर्यः प्रविश्यान्तःपुरं पुरा 037a
वासुदेवसहायेन जरासन्धो निपातितः 037c
कृत्स्नेयं पृथिवी देवी जरासन्धेन धीमता 038a
मागधेन्द्रेण बलिना वशे कृत्वा प्रतापिता 038c
भीष्मप्रतापात्कुरवो नयेनान्धकवृष्णयः 039a
ते न तस्य वशं जग्मुः केवलं दैवमेव वा 039c
स गत्वा पाण्डुपुत्रेण तरसा बाहुशालिना 040a
अनायुधेन वीरेण निहतः किं ततोऽधिकम् 040c
दीर्घकालेन संसिक्तं विषमाशीविषो यथा 041a
स मोक्ष्यति रणे तेजः पुत्रेषु मम सञ्जय 041c
महेन्द्र इव वज्रेण दानवान्देवसत्तमः 042a
भीमसेनो गदापाणिः सूदयिष्यति मे सुतान् 042c
अविषह्यमनावार्यं तीव्रवेगपराक्रमम् 043a
पश्यामीवातिताम्राक्षमापतन्तं वृकोदरम् 043c
अगदस्याप्यधनुषो विरथस्य विवर्मणः 044a
बाहुभ्यां युध्यमानस्य कस्तिष्ठेदग्रतः पुमान् 044c
भीष्मो द्रोणश्च विप्रोऽयं कृपः शारद्वतस्तथा 045a
जानन्त्येते यथैवाहं वीर्यज्ञस्तस्य धीमतः 045c
आर्यव्रतं तु जानन्तः सङ्गरान्न बिभित्सवः 046a
सेनामुखेषु स्थास्यन्ति मामकानां नरर्षभाः 046c
बलीयः सर्वतो दिष्टं पुरुषस्य विशेषतः 047a
पश्यन्नपि जयं तेषां न नियच्छामि यत्सुतान् 047c
ते पुराणं महेष्वासा मार्गमैन्द्रं समास्थिताः 048a
त्यक्ष्यन्ति तुमुले प्राणान्रक्षन्तः पार्थिवं यशः 048c
यथैषां मामकास्तात तथैषां पाण्डवा अपि 049a
पौत्रा भीष्मस्य शिष्याश्च द्रोणस्य च कृपस्य च 049c
यत्त्वस्मदाश्रयं किञ्चिद्दत्तमिष्टं च सञ्जय 050a
तस्यापचितिमार्यत्वात्कर्तारः स्थविरास्त्रयः 050c
आददानस्य शस्त्रं हि क्षत्रधर्मं परीप्सतः 051a
निधनं ब्राह्मणस्याजौ वरमेवाहुरुत्तमम् 051c
स वै शोचामि सर्वान्वै ये युयुत्सन्ति पाण्डवान् 052a
विक्रुष्टं विदुरेणादौ तदेतद्भयमागतम् 052c
न तु मन्ये विघाताय ज्ञानं दुःखस्य सञ्जय 053a
भवत्यतिबले ह्येतज्ज्ञानमप्युपघातकम् 053c
ऋषयो ह्यपि निर्मुक्ताः पश्यन्तो लोकसङ्ग्रहान् 054a
सुखे भवन्ति सुखिनस्तथा दुःखेन दुःखिताः 054c
किं पुनर्योऽहमासक्तस्तत्र तत्र सहस्रधा 055a
पुत्रेषु राज्यदारेषु पौत्रेष्वपि च बन्धुषु 055c
संशये तु महत्यस्मिन्किं नु मे क्षममुत्तमम् 056a
विनाशं ह्येव पश्यामि कुरूणामनुचिन्तयन् 056c
द्यूतप्रमुखमाभाति कुरूणां व्यसनं महत् 057a
मन्देनैश्वर्यकामेन लोभात्पापमिदं कृतम् 057c
मन्ये पर्यायधर्मोऽयं कालस्यात्यन्तगामिनः 058a
चक्रे प्रधिरिवासक्तो नास्य शक्यं पलायितुम् 058c
किं नु कार्यं कथं कुर्यां क्व नु गच्छामि सञ्जय 059a
एते नश्यन्ति कुरवो मन्दाः कालवशं गताः 059c
अवशोऽहं पुरा तात पुत्राणां निहते शते 060a
श्रोष्यामि निनदं स्त्रीणां कथं मां मरणं स्पृशेत् 060c
यथा निदाघे ज्वलनः समिद्धो दहेत्कक्षं वायुना चोद्यमानः 061a
गदाहस्तः पाण्डवस्तद्वदेव हन्ता मदीयान्सहितोऽर्जुनेन 061c