धृतराष्ट्र उवाच 001
किमसौ पाण्डवो राजा धर्मपुत्रोऽभ्यभाषत 001a
श्रुत्वेमा बहुलाः सेनाः प्रत्यर्थेन समागताः 001c
किमिच्छत्यभिसंरम्भाद्योत्स्यमानो युधिष्ठिरः 002a
कस्य स्विद्भ्रातृपुत्राणां चिन्तासु मुखमीक्षते 002c
के स्विदेनं वारयन्ति शाम्य युध्येति वा पुनः 003a
निकृत्या कोपितं मन्दैर्धर्मज्ञं धर्मचारिणम् 003c
सञ्जय उवाच 004
राज्ञो मुखमुदीक्षन्ते पाञ्चालाः पाण्डवैः सह 004a
युधिष्ठिरस्य भद्रं ते स सर्वाननुशास्ति च 004c
पृथग्भूताः पाण्डवानां पाञ्चालानां रथव्रजाः 005a
आयान्तमभिनन्दन्ति कुन्तीपुत्रं युधिष्ठिरम् 005c
तमः सूर्यमिवोद्यन्तं कौन्तेयं दीप्ततेजसम् 006a
पाञ्चालाः प्रतिनन्दन्ति तेजोराशिमिवोद्यतम् 006c
आ गोपालाविपालेभ्यो नन्दमानं युधिष्ठिरम् 007a
पाञ्चालाः केकया मत्स्याः प्रतिनन्दन्ति पाण्डवम् 007c
ब्राह्मण्यो राजपुत्र्यश्च विशां दुहितरश्च याः 008a
क्रीडन्त्योऽभिसमायान्ति पार्थं सन्नद्धमीक्षितुम् 008c
धृतराष्ट्र उवाच 009
सञ्जयाचक्ष्व केनास्मान्पाण्डवा अभ्ययुञ्जत 009a
धृष्टद्युम्नेन सेनान्या सोमकाः किम्बला इव 009c
वैशम्पायन उवाच 010
गावल्गणिस्तु तत्पृष्टः सभायां कुरुसंसदि 010a
निःश्वस्य सुभृशं दीर्घं मुहुः सञ्चिन्तयन्निव 010c
तत्रानिमित्ततो दैवात्सूतं कश्मलमाविशत् 010e
तदाचचक्षे पुरुषः सभायां राजसंसदि 011a
सञ्जयोऽयं महाराज मूर्च्छितः पतितो भुवि 011c
वाचं न सृजते काञ्चिद्धीनप्रज्ञोऽल्पचेतनः 011e
धृतराष्ट्र उवाच 012
अपश्यत्सञ्जयो नूनं कुन्तीपुत्रान्महारथान् 012a
तैरस्य पुरुषव्याघ्रैर्भृशमुद्वेजितं मनः 012c
वैशम्पायन उवाच 013
सञ्जयश्चेतनां लब्ध्वा प्रत्याश्वस्येदमब्रवीत् 013a
धृतराष्ट्रं महाराज सभायां कुरुसंसदि 013c
दृष्टवानस्मि राजेन्द्र कुन्तीपुत्रान्महारथान् 014a
मत्स्यराजगृहावासादवरोधेन कर्शितान् 014c
शृणु यैर्हि महाराज पाण्डवा अभ्ययुञ्जत 014e
यो नैव रोषान्न भयान्न कामान्नार्थकारणात् 015a
न हेतुवादाद्धर्मात्मा सत्यं जह्यात्कथञ्चन 015c
यः प्रमाणं महाराज धर्मे धर्मभृतां वरः 016a
अजातशत्रुणा तेन पाण्डवा अभ्ययुञ्जत 016c
यस्य बाहुबले तुल्यः पृथिव्यां नास्ति कश्चन 017a
यो वै सर्वान्महीपालान्वशे चक्रे धनुर्धरः 017c
तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत 017e
निःसृतानां जतुगृहाद्धिडिम्बात्पुरुषादकात् 018a
य एषामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः 018c
याज्ञसेनीमथो यत्र सिन्धुराजोऽपकृष्टवान् 019a
तत्रैषामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः 019c
यश्च तान्सङ्गतान्सर्वान्पाण्डवान्वारणावते 020a
दह्यतो मोचयामास तेन वस्तेऽभ्ययुञ्जत 020c
कृष्णायाश्चरता प्रीतिं येन क्रोधवशा हताः 021a
प्रविश्य विषमं घोरं पर्वतं गन्धमादनम् 021c
यस्य नागायुतं वीर्यं भुजयोः सारमर्पितम् 022a
तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत 022c
कृष्णद्वितीयो विक्रम्य तुष्ट्यर्थं जातवेदसः 023a
अजयद्यः पुरा वीरो युध्यमानं पुरन्दरम् 023c
यः स साक्षान्महादेवं गिरिशं शूलपाणिनम् 024a
तोषयामास युद्धेन देवदेवमुमापतिम् 024c
यश्च सर्वान्वशे चक्रे लोकपालान्धनुर्धरः 025a
तेन वो विजयेनाजौ पाण्डवा अभ्ययुञ्जत 025c
यः प्रतीचीं दिशं चक्रे वशे म्लेच्छगणायुताम् 026a
स तत्र नकुलो योद्धा चित्रयोधी व्यवस्थितः 026c
तेन वो दर्शनीयेन वीरेणातिधनुर्भृता 027a
माद्रीपुत्रेण कौरव्य पाण्डवा अभ्ययुञ्जत 027c
यः काशीनङ्गमगधान्कलिङ्गांश्च युधाजयत् 028a
तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत 028c
यस्य वीर्येण सदृशाश्चत्वारो भुवि मानवाः 029a
अश्वत्थामा धृष्टकेतुः प्रद्युम्नो रुक्मिरेव च 029c
तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत 030a
यवीयसा नृवीरेण माद्रीनन्दिकरेण च 030c
तपश्चचार या घोरं काशिकन्या पुरा सती 031a
भीष्मस्य वधमिच्छन्ती प्रेत्यापि भरतर्षभ 031c
पाञ्चालस्य सुता जज्ञे दैवाच्च स पुनः पुमान् 032a
स्त्रीपुंसोः पुरुषव्याघ्र यः स वेद गुणागुणान् 032c
यः कलिङ्गान्समापेदे पाञ्चालो युद्धदुर्मदः 033a
शिखण्डिना वः कुरवः कृतास्त्रेणाभ्ययुञ्जत 033c
यां यक्षः पुरुषं चक्रे भीष्मस्य निधने किल 034a
महेष्वासेन रौद्रेण पाण्डवा अभ्ययुञ्जत 034c
महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः 035a
सुमृष्टकवचाः शूरास्तैश्च वस्तेऽभ्ययुञ्जत 035c
यो दीर्घबाहुः क्षिप्रास्त्रो धृतिमान्सत्यविक्रमः 036a
तेन वो वृष्णिवीरेण युयुधानेन सङ्गरः 036c
य आसीच्छरणं काले पाण्डवानां महात्मनाम् 037a
रणे तेन विराटेन पाण्डवा अभ्ययुञ्जत 037c
यः स काशिपती राजा वाराणस्यां महारथः 038a
स तेषामभवद्योद्धा तेन वस्तेऽभ्ययुञ्जत 038c
शिशुभिर्दुर्जयैः सङ्ख्ये द्रौपदेयैर्महात्मभिः 039a
आशीविषसमस्पर्शैः पाण्डवा अभ्ययुञ्जत 039c
यः कृष्णसदृशो वीर्ये युधिष्ठिरसमो दमे 040a
तेनाभिमन्युना सङ्ख्ये पाण्डवा अभ्ययुञ्जत 040c
यश्चैवाप्रतिमो वीर्ये धृष्टकेतुर्महायशाः 041a
दुःसहः समरे क्रुद्धः शैशुपालिर्महारथः 041c
तेन वश्चेदिराजेन पाण्डवा अभ्ययुञ्जत 041e
यः संश्रयः पाण्डवानां देवानामिव वासवः 042a
तेन वो वासुदेवेन पाण्डवा अभ्ययुञ्जत 042c
तथा चेदिपतेर्भ्राता शरभो भरतर्षभ 043a
करकर्षेण सहितस्ताभ्यां वस्तेऽभ्ययुञ्जत 043c
जारासन्धिः सहदेवो जयत्सेनश्च तावुभौ 044a
द्रुपदश्च महातेजा बलेन महता वृतः 044c
त्यक्तात्मा पाण्डवार्थाय योत्स्यमानो व्यवस्थितः 044e
एते चान्ये च बहवः प्राच्योदीच्या महीक्षितः 045a
शतशो यानपाश्रित्य धर्मराजो व्यवस्थितः 045c