वैशम्पायन उवाच 001
समवेतेषु सर्वेषु तेषु राजसु भारत 001a
दुर्योधनमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् 001c
बृहस्पतिश्चोशना च ब्रह्माणं पर्युपस्थितौ 002a
मरुतश्च सहेन्द्रेण वसवश्च सहाश्विनौ 002c
आदित्याश्चैव साध्याश्च ये च सप्तर्षयो दिवि 003a
विश्वावसुश्च गन्धर्वः शुभाश्चाप्सरसां गणाः 003c
नमस्कृत्वोपजग्मुस्ते लोकवृद्धं पितामहम् 004a
परिवार्य च विश्वेशं पर्यासत दिवौकसः 004c
तेषां मनश्च तेजश्चाप्याददानौ दिवौकसाम् 005a
पूर्वदेवौ व्यतिक्रान्तौ नरनारायणावृषी 005c
बृहस्पतिश्च पप्रच्छ ब्राह्मणं काविमाविति 006a
भवन्तं नोपतिष्ठेते तौ नः शंस पितामह 006c
ब्रह्मोवाच 007
यावेतौ पृथिवीं द्यां च भासयन्तौ तपस्विनौ 007a
ज्वलन्तौ रोचमानौ च व्याप्यातीतौ महाबलौ 007c
नरनारायणावेतौ लोकाल्लोकं समास्थितौ 008a
ऊर्जितौ स्वेन तपसा महासत्त्वपराक्रमौ 008c
एतौ हि कर्मणा लोकान्नन्दयामासतुर्ध्रुवौ 009a
असुराणामभावाय देवगन्धर्वपूजितौ 009c
वैशम्पायन उवाच 010
जगाम शक्रस्तच्छ्रुत्वा यत्र तौ तेपतुस्तपः 010a
सार्धं देवगणैः सर्वैर्बृहस्पतिपुरोगमैः 010c
तदा देवासुरे घोरे भये जाते दिवौकसाम् 011a
अयाचत महात्मानौ नरनारायणौ वरम् 011c
तावब्रूतां वृणीष्वेति तदा भरतसत्तम 012a
अथैतावब्रवीच्छक्रः साह्यं नः क्रियतामिति 012c
ततस्तौ शक्रमब्रूतां करिष्यावो यदिच्छसि 013a
ताभ्यां च सहितः शक्रो विजिग्ये दैत्यदानवान् 013c
नर इन्द्रस्य सङ्ग्रामे हत्वा शत्रून्परन्तपः 014a
पौलोमान्कालखञ्जांश्च सहस्राणि शतानि च 014c
एष भ्रान्ते रथे तिष्ठन्भल्लेनापहरच्छिरः 015a
जम्भस्य ग्रसमानस्य यज्ञमर्जुन आहवे 015c
एष पारे समुद्रस्य हिरण्यपुरमारुजत् 016a
हत्वा षष्टिसहस्राणि निवातकवचान्रणे 016c
एष देवान्सहेन्द्रेण जित्वा परपुरञ्जयः 017a
अतर्पयन्महाबाहुरर्जुनो जातवेदसम् 017c
नारायणस्तथैवात्र भूयसोऽन्याञ्जघान ह 017e
एवमेतौ महावीर्यौ तौ पश्यत समागतौ 018a
वासुदेवार्जुनौ वीरौ समवेतौ महारथौ 018c
नरनारायणौ देवौ पूर्वदेवाविति श्रुतिः 019a
अजेयौ मानुषे लोके सेन्द्रैरपि सुरासुरैः 019c
एष नारायणः कृष्णः फल्गुनस्तु नरः स्मृतः 020a
नारायणो नरश्चैव सत्त्वमेकं द्विधाकृतम् 020c
एतौ हि कर्मणा लोकानश्नुवातेऽक्षयान्ध्रुवान् 021a
तत्र तत्रैव जायेते युद्धकाले पुनः पुनः 021c
तस्मात्कर्मैव कर्तव्यमिति होवाच नारदः 022a
एतद्धि सर्वमाचष्ट वृष्णिचक्रस्य वेदवित् 022c
शङ्खचक्रगदाहस्तं यदा द्रक्ष्यसि केशवम् 023a
पर्याददानं चास्त्राणि भीमधन्वानमर्जुनम् 023c
सनातनौ महात्मानौ कृष्णावेकरथे स्थितौ 024a
दुर्योधन तदा तात स्मर्तासि वचनं मम 024c
नो चेदयमभावः स्यात्कुरूणां प्रत्युपस्थितः 025a
अर्थाच्च तात धर्माच्च तव बुद्धिरुपप्लुता 025c
न चेद्ग्रहीष्यसे वाक्यं श्रोतासि सुबहून्हतान् 026a
तवैव हि मतं सर्वे कुरवः पर्युपासते 026c
त्रयाणामेव च मतं तत्त्वमेकोऽनुमन्यसे 027a
रामेण चैव शप्तस्य कर्णस्य भरतर्षभ 027c
दुर्जातेः सूतपुत्रस्य शकुनेः सौबलस्य च 028a
तथा क्षुद्रस्य पापस्य भ्रातुर्दुःशासनस्य च 028c
कर्ण उवाच 029
नैवमायुष्मता वाच्यं यन्मामात्थ पितामह 029a
क्षत्रधर्मे स्थितो ह्यस्मि स्वधर्मादनपेयिवान् 029c
किं चान्यन्मयि दुर्वृत्तं येन मां परिगर्हसे 030a
न हि मे वृजिनं किञ्चिद्धार्तराष्ट्रा विदुः क्वचित् 030c
राज्ञो हि धृतराष्ट्रस्य सर्वं कार्यं प्रियं मया 031a
तथा दुर्योधनस्यापि स हि राज्ये समाहितः 031c
वैशम्पायन उवाच 032
कर्णस्य तु वचः श्रुत्वा भीष्मः शान्तनवः पुनः 032a
धृतराष्ट्रं महाराजमाभाष्येदं वचोऽब्रवीत् 032c
यदयं कत्थते नित्यं हन्ताहं पाण्डवानिति 033a
नायं कलापि सम्पूर्णा पाण्डवानां महात्मनाम् 033c
अनयो योऽयमागन्ता पुत्राणां ते दुरात्मनाम् 034a
तदस्य कर्म जानीहि सूतपुत्रस्य दुर्मतेः 034c
एनमाश्रित्य पुत्रस्ते मन्दबुद्धिः सुयोधनः 035a
अवमन्यत तान्वीरान्देवपुत्रानरिन्दमान् 035c
किं चाप्यनेन तत्कर्म कृतं पूर्वं सुदुष्करम् 036a
तैर्यथा पाण्डवैः सर्वैरेकैकेन कृतं पुरा 036c
दृष्ट्वा विराटनगरे भ्रातरं निहतं प्रियम् 037a
धनञ्जयेन विक्रम्य किमनेन तदा कृतम् 037c
सहितान्हि कुरून्सर्वानभियातो धनञ्जयः 038a
प्रमथ्य चाच्छिनद्गावः किमयं प्रोषितस्तदा 038c
गन्धर्वैर्घोषयात्रायां ह्रियते यत्सुतस्तव 039a
क्व तदा सूतपुत्रोऽभूद्य इदानीं वृषायते 039c
ननु तत्रापि पार्थेन भीमेन च महात्मना 040a
यमाभ्यामेव चागम्य गन्धर्वास्ते पराजिताः 040c
एतान्यस्य मृषोक्तानि बहूनि भरतर्षभ 041a
विकत्थनस्य भद्रं ते सदा धर्मार्थलोपिनः 041c
भीष्मस्य तु वचः श्रुत्वा भारद्वाजो महामनाः 042a
धृतराष्ट्रमुवाचेदं राजमध्येऽभिपूजयन् 042c
यदाह भरतश्रेष्ठो भीष्मस्तत्क्रियतां नृप 043a
न काममर्थलिप्सूनां वचनं कर्तुमर्हसि 043c
पुरा युद्धात्साधु मन्ये पाण्डवैः सह सङ्गमम् 044a
यद्वाक्यमर्जुनेनोक्तं सञ्जयेन निवेदितम् 044c
सर्वं तदभिजानामि करिष्यति च पाण्डवः 045a
न ह्यस्य त्रिषु लोकेषु सदृशोऽस्ति धनुर्धरः 045c
अनादृत्य तु तद्वाक्यमर्थवद्द्रोणभीष्मयोः 046a
ततः स सञ्जयं राजा पर्यपृच्छत पाण्डवम् 046c
तदैव कुरवः सर्वे निराशा जीवितेऽभवन् 047a
भीष्मद्रोणौ यदा राजा न सम्यगनुभाषते 047c