धृतराष्ट्र उवाच 001
पृच्छामि त्वां सञ्जय राजमध्ये किमब्रवीद्वाक्यमदीनसत्त्वः 001a
धनञ्जयस्तात युधां प्रणेता दुरात्मनां जीवितच्छिन्महात्मा 001c
सञ्जय उवाच 002
दुर्योधनो वाचमिमां शृणोतु यदब्रवीदर्जुनो योत्स्यमानः 002a
युधिष्ठिरस्यानुमते महात्मा धनञ्जयः शृण्वतः केशवस्य 002c
अन्वत्रस्तो बाहुवीर्यं विदान उपह्वरे वासुदेवस्य धीरः 003a
अवोचन्मां योत्स्यमानः किरीटी मध्ये ब्रूया धार्तराष्ट्रं कुरूणाम् 003c
ये वै राजानः पाण्डवायोधनाय समानीताः शृण्वतां चापि तेषाम् 004a
यथा समग्रं वचनं मयोक्तं सहामात्यं श्रावयेथा नृपं तम् 004c
यथा नूनं देवराजस्य देवाः शुश्रूषन्ते वज्रहस्तस्य सर्वे 005a
तथाशृण्वन्पाण्डवाः सृञ्जयाश्च किरीटिना वाचमुक्तां समर्थाम् 005c
इत्यब्रवीदर्जुनो योत्स्यमानो गाण्डीवधन्वा लोहितपद्मनेत्रः 006a
न चेद्राज्यं मुञ्चति धार्तराष्ट्रो युधिष्ठिरस्याजमीढस्य राज्ञः 006c
अस्ति नूनं कर्म कृतं पुरस्तादनिर्विष्टं पापकं धार्तराष्ट्रैः 006e
येषां युद्धं भीमसेनार्जुनाभ्यां तथाश्विभ्यां वासुदेवेन चैव 007a
शैनेयेन ध्रुवमात्तायुधेन धृष्टद्युम्नेनाथ शिखण्डिना च 007c
युधिष्ठिरेणेन्द्रकल्पेन चैव योऽपध्यानान्निर्दहेद्गां दिवं च 007e
तैश्चेद्युद्धं मन्यते धार्तराष्ट्रो निर्वृत्तोऽर्थः सकलः पाण्डवानाम् 008a
मा तत्कार्षीः पाण्डवार्थाय हेतोरुपैहि युद्धं यदि मन्यसे त्वम् 008c
यां तां वने दुःखशय्यामुवास प्रव्राजितः पाण्डवो धर्मचारी 009a
आशिष्यते दुःखतरामनर्थामन्त्यां शय्यां धार्तराष्ट्रः परासुः 009c
ह्रिया ज्ञानेन तपसा दमेन क्रोधेनाथो धर्मगुप्त्या धनेन 010a
अन्यायवृत्तः कुरुपाण्डवेयानध्यातिष्ठद्धार्तराष्ट्रो दुरात्मा 010c
मायोपधः प्रणिधानार्जवाभ्यां तपोदमाभ्यां धर्मगुप्त्या बलेन 011a
सत्यं ब्रुवन्प्रीतियुक्त्यानृतेन तितिक्षमाणः क्लिश्यमानोऽतिवेलम् 011c
यदा ज्येष्ठः पाण्डवः संशितात्मा क्रोधं यत्तं वर्षपूगान्सुघोरम् 012a
अवस्रष्टा कुरुषूद्वृत्तचेतास्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 012c
कृष्णवर्त्मेव ज्वलितः समिद्धो यथा दहेत्कक्षमग्निर्निदाघे 013a
एवं दग्धा धार्तराष्ट्रस्य सेनां युधिष्ठिरः क्रोधदीप्तोऽनुवीक्ष्य 013c
यदा द्रष्टा भीमसेनं रणस्थं गदाहस्तं क्रोधविषं वमन्तम् 014a
दुर्मर्षणं पाण्डवं भीमवेगं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 014c
महासिंहो गाव इव प्रविश्य गदापाणिर्धार्तराष्ट्रानुपेत्य 015a
यदा भीमो भीमरूपो निहन्ता तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 015c
महाभये वीतभयः कृतास्त्रः समागमे शत्रुबलावमर्दी 016a
सकृद्रथेन प्रतियाद्रथौघान्पदातिसङ्घान्गदयाभिनिघ्नन् 016c
सैन्याननेकांस्तरसा विमृद्नन्यदा क्षेप्ता धार्तराष्ट्रस्य सैन्यम् 017a
छिन्दन्वनं परशुनेव शूरस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 017c
तृणप्रायं ज्वलनेनेव दग्धं ग्रामं यथा धार्तराष्ट्रः समीक्ष्य 018a
पक्वं सस्यं वैद्युतेनेव दग्धं परासिक्तं विपुलं स्वं बलौघम् 018c
हतप्रवीरं विमुखं भयार्तं पराङ्मुखं प्रायशोऽधृष्टयोधम् 019a
शस्त्रार्चिषा भीमसेनेन दग्धं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 019c
उपासङ्गादुद्धरन्दक्षिणेन परःशतान्नकुलश्चित्रयोधी 020a
यदा रथाग्र्यो रथिनः प्रचेता तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 020c
सुखोचितो दुःखशय्यां वनेषु दीर्घं कालं नकुलो यामशेत 021a
आशीविषः क्रुद्ध इव श्वसन्भृशं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 021c
त्यक्तात्मानः पार्थिवायोधनाय समादिष्टा धर्मराजेन वीराः 022a
रथैः शुभ्रैः सैन्यमभिद्रवन्तो दृष्ट्वा पश्चात्तप्स्यते धार्तराष्ट्रः 022c
शिशून्कृतास्त्रानशिशुप्रकाशान्यदा द्रष्टा कौरवः पञ्च शूरान् 023a
त्यक्त्वा प्राणान्केकयानाद्रवन्तस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 023c
यदा गतोद्वाहमकूजनाक्षं सुवर्णतारं रथमाततायी 024a
दान्तैर्युक्तं सहदेवोऽधिरूढः शिरांसि राज्ञां क्षेप्स्यते मार्गणौघैः 024c
महाभये सम्प्रवृत्ते रथस्थं विवर्तमानं समरे कृतास्त्रम् 025a
सर्वां दिशं सम्पतन्तं समीक्ष्य तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 025c
ह्रीनिषेधो निपुणः सत्यवादी महाबलः सर्वधर्मोपपन्नः 026a
गान्धारिमार्च्छंस्तुमुले क्षिप्रकारी क्षेप्ता जनान्सहदेवस्तरस्वी 026c
यदा द्रष्टा द्रौपदेयान्महेषूञ्शूरान्कृतास्त्रान्रथयुद्धकोविदान् 027a
आशीविषान्घोरविषानिवायतस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 027c
यदाभिमन्युः परवीरघाती शरैः परान्मेघ इवाभिवर्षन् 028a
विगाहिता कृष्णसमः कृतास्त्रस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 028c
यदा द्रष्टा बालमबालवीर्यं द्विषच्चमूं मृत्युमिवापतन्तम् 029a
सौभद्रमिन्द्रप्रतिमं कृतास्त्रं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 029c
प्रभद्रकाः शीघ्रतरा युवानो विशारदाः सिंहसमानवीर्याः 030a
यदा क्षेप्तारो धार्तराष्ट्रान्ससैन्यांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 030c
वृद्धौ विराटद्रुपदौ महारथौ पृथक्चमूभ्यामभिवर्तमानौ 031a
यदा द्रष्टारौ धार्तराष्ट्रान्ससैन्यांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 031c
यदा कृतास्त्रो द्रुपदः प्रचिन्वञ्शिरांसि यूनां समरे रथस्थः 032a
क्रुद्धः शरैश्छेत्स्यति चापमुक्तैस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 032c
यदा विराटः परवीरघाती मर्मान्तरे शत्रुचमूं प्रवेष्टा 033a
मत्स्यैः सार्धमनृशंसरूपैस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 033c
ज्येष्ठं मात्स्यानामनृशंसरूपं विराटपुत्रं रथिनं पुरस्तात् 034a
यदा द्रष्टा दंशितं पाण्डवार्थे तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 034c
रणे हते कौरवाणां प्रवीरे शिखण्डिना सत्तमे शन्तनूजे 035a
न जातु नः शत्रवो धारयेयुरसंशयं सत्यमेतद्ब्रवीमि 035c
यदा शिखण्डी रथिनः प्रचिन्वन्भीष्मं रथेनाभियाता वरूथी 036a
दिव्यैर्हयैरवमृद्नन्रथौघांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 036c
यदा द्रष्टा सृञ्जयानामनीके धृष्टद्युम्नं प्रमुखे रोचमानम् 037a
अस्त्रं यस्मै गुह्यमुवाच धीमान्द्रोणस्तदा तप्स्यति धार्तराष्ट्रः 037c
यदा स सेनापतिरप्रमेयः पराभवन्निषुभिर्धार्तराष्ट्रान् 038a
द्रोणं रणे शत्रुसहोऽभियाता तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 038c
ह्रीमान्मनीषी बलवान्मनस्वी स लक्ष्मीवान्सोमकानां प्रबर्हः 039a
न जातु तं शत्रवोऽन्ये सहेरन्येषां स स्यादग्रणीर्वृष्णिसिंहः 039c
ब्रूयाच्च मा प्रवृणीष्वेति लोके युद्धेऽद्वितीयं सचिवं रथस्थम् 040a
शिनेर्नप्तारं प्रवृणीम सात्यकिं महाबलं वीतभयं कृतास्त्रम् 040c
यदा शिनीनामधिपो मयोक्तः शरैः परान्मेघ इव प्रवर्षन् 041a
प्रच्छादयिष्यञ्शरजालेन योधांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 041c
यदा धृतिं कुरुते योत्स्यमानः स दीर्घबाहुर्दृढधन्वा महात्मा 042a
सिंहस्येव गन्धमाघ्राय गावः संवेष्टन्ते शत्रवोऽस्माद्यथाग्नेः 042c
स दीर्घबाहुर्दृढधन्वा महात्मा भिन्द्याद्गिरीन्संहरेत्सर्वलोकान् 043a
अस्त्रे कृती निपुणः क्षिप्रहस्तो दिवि स्थितः सूर्य इवाभिभाति 043c
चित्रः सूक्ष्मः सुकृतो यादवस्य अस्त्रे योगो वृष्णिसिंहस्य भूयान् 044a
यथाविधं योगमाहुः प्रशस्तं सर्वैर्गुणैः सात्यकिस्तैरुपेतः 044c
हिरण्मयं श्वेतहयैश्चतुर्भिर्यदा युक्तं स्यन्दनं माधवस्य 045a
द्रष्टा युद्धे सात्यकेर्वै सुयोधनस्तदा तप्स्यत्यकृतात्मा स मन्दः 045c
यदा रथं हेममणिप्रकाशं श्वेताश्वयुक्तं वानरकेतुमुग्रम् 046a
द्रष्टा रणे संयतं केशवेन तदा तप्स्यत्यकृतात्मा स मन्दः 046c
यदा मौर्व्यास्तलनिष्पेषमुग्रं महाशब्दं वज्रनिष्पेषतुल्यम् 047a
विधूयमानस्य महारणे मया गाण्डीवस्य श्रोष्यति मन्दबुद्धिः 047c
तदा मूढो धृतराष्ट्रस्य पुत्रस्तप्ता युद्धे दुर्मतिर्दुःसहायः 048a
दृष्ट्वा सैन्यं बाणवर्षान्धकारं प्रभज्यन्तं गोकुलवद्रणाग्रे 048c
बलाहकादुच्चरन्तीव विद्युत्सहस्रघ्नी द्विषतां सङ्गमेषु 049a
अस्थिच्छिदो मर्मभिदो वमेच्छरांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 049c
यदा द्रष्टा ज्यामुखाद्बाणसङ्घान्गाण्डीवमुक्तान्पततः शिताग्रान् 050a
नागान्हयान्वर्मिणश्चाददानांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 050c
यदा मन्दः परबाणान्विमुक्तान्ममेषुभिर्ह्रियमाणान्प्रतीपम् 051a
तिर्यग्विद्वांश्छिद्यमानान्क्षुरप्रैस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 051c
यदा विपाठा मद्भुजविप्रमुक्ता द्विजाः फलानीव महीरुहाग्रात् 052a
प्रच्छेत्तार उत्तमाङ्गानि यूनां तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 052c
यदा द्रष्टा पततः स्यन्दनेभ्यो महागजेभ्योऽश्वगतांश्च योधान् 053a
शरैर्हतान्पातितांश्चैव रङ्गे तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् 053c
पदातिसङ्घान्रथसङ्घान्समन्ताद्व्यात्ताननः काल इवाततेषुः 054a
प्रणोत्स्यामि ज्वलितैर्बाणवर्षैः शत्रूंस्तदा तप्स्यति मन्दबुद्धिः 054c
सर्वा दिशः सम्पतता रथेन रजोध्वस्तं गाण्डिवेनापकृत्तम् 055a
यदा द्रष्टा स्वबलं सम्प्रमूढं तदा पश्चात्तप्स्यति मन्दबुद्धिः 055c
कान्दिग्भूतं छिन्नगात्रं विसञ्ज्ञं दुर्योधनो द्रक्ष्यति सर्वसैन्यम् 056a
हताश्ववीराग्र्यनरेन्द्रनागं पिपासितं श्रान्तपत्रं भयार्तम् 056c
आर्तस्वरं हन्यमानं हतं च विकीर्णकेशास्थिकपालसङ्घम् 057a
प्रजापतेः कर्म यथार्धनिष्ठितं तदा दृष्ट्वा तप्स्यते मन्दबुद्धिः 057c
यदा रथे गाण्डिवं वासुदेवं दिव्यं शङ्खं पाञ्चजन्यं हयांश्च 058a
तूणावक्षय्यौ देवदत्तं च मां च द्रष्टा युद्धे धार्तराष्ट्रः समेतान् 058c
उद्वर्तयन्दस्युसङ्घान्समेतान्प्रवर्तयन्युगमन्यद्युगान्ते 059a
यदा धक्ष्याम्यग्निवत्कौरवेयांस्तदा तप्ता धृतराष्ट्रः सपुत्रः 059c
सहभ्राता सहपुत्रः ससैन्यो भ्रष्टैश्वर्यः क्रोधवशोऽल्पचेताः 060a
दर्पस्यान्ते विहिते वेपमानः पश्चान्मन्दस्तप्स्यति धार्तराष्ट्रः 060c
पूर्वाह्णे मां कृतजप्यं कदा चिद्विप्रः प्रोवाचोदकान्ते मनोज्ञम् 061a
कर्तव्यं ते दुष्करं कर्म पार्थ योद्धव्यं ते शत्रुभिः सव्यसाचिन् 061c
इन्द्रो वा ते हरिवान्वज्रहस्तः पुरस्ताद्यातु समरेऽरीन्विनिघ्नन् 062a
सुग्रीवयुक्तेन रथेन वा ते पश्चात्कृष्णो रक्षतु वासुदेवः 062c
वव्रे चाहं वज्रहस्तान्महेन्द्रादस्मिन्युद्धे वासुदेवं सहायम् 063a
स मे लब्धो दस्युवधाय कृष्णो मन्ये चैतद्विहितं दैवतैर्मे 063c
अयुध्यमानो मनसापि यस्य जयं कृष्णः पुरुषस्याभिनन्देत् 064a
ध्रुवं सर्वान्सोऽभ्यतीयादमित्रान्सेन्द्रान्देवान्मानुषे नास्ति चिन्ता 064c
स बाहुभ्यां सागरमुत्तितीर्षेन्महोदधिं सलिलस्याप्रमेयम् 065a
तेजस्विनं कृष्णमत्यन्तशूरं युद्धेन यो वासुदेवं जिगीषेत् 065c
गिरिं य इच्छेत तलेन भेत्तुं शिलोच्चयं श्वेतमतिप्रमाणम् 066a
तस्यैव पाणिः सनखो विशीर्येन्न चापि किञ्चित्स गिरेस्तु कुर्यात् 066c
अग्निं समिद्धं शमयेद्भुजाभ्यां चन्द्रं च सूर्यं च निवारयेत 067a
हरेद्देवानाममृतं प्रसह्य युद्धेन यो वासुदेवं जिगीषेत् 067c
यो रुक्मिणीमेकरथेन भोज्यामुत्साद्य राज्ञां विषयं प्रसह्य 068a
उवाह भार्यां यशसा ज्वलन्तीं यस्यां जज्ञे रौक्मिणेयो महात्मा 068c
अयं गान्धारांस्तरसा सम्प्रमथ्य जित्वा पुत्रान्नग्नजितः समग्रान् 069a
बद्धं मुमोच विनदन्तं प्रसह्य सुदर्शनीयं देवतानां ललामम् 069c
अयं कवाटे निजघान पाण्ड्यं तथा कलिङ्गान्दन्तकूरे ममर्द 070a
अनेन दग्धा वर्षपूगान्विनाथा वाराणसी नगरी सम्बभूव 070c
यं स्म युद्धे मन्यतेऽन्यैरजेयमेकलव्यं नाम निषादराजम् 071a
वेगेनेव शैलमभिहत्य जम्भः शेते स कृष्णेन हतः परासुः 071c
तथोग्रसेनस्य सुतं प्रदुष्टं वृष्ण्यन्धकानां मध्यगां तपन्तम् 072a
अपातयद्बलदेवद्वितीयो हत्वा ददौ चोग्रसेनाय राज्यम् 072c
अयं सौभं योधयामास खस्थं विभीषणं मायया शाल्वराजम् 073a
सौभद्वारि प्रत्यगृह्णाच्छतघ्नीं दोर्भ्यां क एनं विषहेत मर्त्यः 073c
प्राग्ज्योतिषं नाम बभूव दुर्गं पुरं घोरमसुराणामसह्यम् 074a
महाबलो नरकस्तत्र भौमो जहारादित्या मणिकुण्डले शुभे 074c
न तं देवाः सह शक्रेण सेहिरे समागता आहरणाय भीताः 075a
दृष्ट्वा च ते विक्रमं केशवस्य बलं तथैवास्त्रमवारणीयम् 075c
जानन्तोऽस्य प्रकृतिं केशवस्य न्ययोजयन्दस्युवधाय कृष्णम् 076a
स तत्कर्म प्रतिशुश्राव दुष्करमैश्वर्यवान्सिद्धिषु वासुदेवः 076c
निर्मोचने षट्सहस्राणि हत्वा सञ्छिद्य पाशान्सहसा क्षुरान्तान् 077a
मुरं हत्वा विनिहत्यौघराक्षसं निर्मोचनं चापि जगाम वीरः 077c
तत्रैव तेनास्य बभूव युद्धं महाबलेनातिबलस्य विष्णोः 078a
शेते स कृष्णेन हतः परासुर्वातेनेव मथितः कर्णिकारः 078c
आहृत्य कृष्णो मणिकुण्डले ते हत्वा च भौमं नरकं मुरं च 079a
श्रिया वृतो यशसा चैव धीमान्प्रत्याजगामाप्रतिमप्रभावः 079c
तस्मै वरानददंस्तत्र देवा दृष्ट्वा भीमं कर्म रणे कृतं तत् 080a
श्रमश्च ते युध्यमानस्य न स्यादाकाशे वा अप्सु चैव क्रमः स्यात् 080c
शस्त्राणि गात्रे च न ते क्रमेरन्नित्येव कृष्णश्च ततः कृतार्थः 081a
एवंरूपे वासुदेवेऽप्रमेये महाबले गुणसम्पत्सदैव 081c
तमसह्यं विष्णुमनन्तवीर्यमाशंसते धार्तराष्ट्रो बलेन 082a
यदा ह्येनं तर्कयते दुरात्मा तच्चाप्ययं सहतेऽस्मान्समीक्ष्य 082c
पर्यागतं मम कृष्णस्य चैव यो मन्यते कलहं सम्प्रयुज्य 083a
शक्यं हर्तुं पाण्डवानां ममत्वं तद्वेदिता संयुगं तत्र गत्वा 083c
नमस्कृत्वा शान्तनवाय राज्ञे द्रोणायाथो सहपुत्राय चैव 084a
शारद्वतायाप्रतिद्वन्द्विने च योत्स्याम्यहं राज्यमभीप्समानः 084c
धर्मेणास्त्रं नियतं तस्य मन्ये यो योत्स्यते पाण्डवैर्धर्मचारी 085a
मिथ्याग्लहे निर्जिता वै नृशंसैः संवत्सरान्द्वादश पाण्डुपुत्राः 085c
अवाप्य कृच्छ्रं विहितं ह्यरण्ये दीर्घं कालं चैकमज्ञातचर्याम् 086a
ते ह्यकस्माज्जीवितं पाण्डवानां न मृष्यन्ते धार्तराष्ट्राः पदस्थाः 086c
ते चेदस्मान्युध्यमानाञ्जयेयुर्देवैरपीन्द्रप्रमुखैः सहायैः 087a
धर्मादधर्मश्चरितो गरीयानिति ध्रुवं नास्ति कृतं न साधु 087c
न चेदिमं पुरुषं कर्मबद्धं न चेदस्मान्मन्यतेऽसौ विशिष्टान् 088a
आशंसेऽहं वासुदेवद्वितीयो दुर्योधनं सानुबन्धं निहन्तुम् 088c
न चेदिदं कर्म नरेषु बद्धं न विद्यते पुरुषस्य स्वकर्म 089a
इदं च तच्चापि समीक्ष्य नूनं पराजयो धार्तराष्ट्रस्य साधुः 089c
प्रत्यक्षं वः कुरवो यद्ब्रवीमि युध्यमाना धार्तराष्ट्रा न सन्ति 090a
अन्यत्र युद्धात्कुरवः परीप्सन्न युध्यतां शेष इहास्ति कश्चित् 090c
हत्वा त्वहं धार्तराष्ट्रान्सकर्णान्राज्यं कुरूणामवजेता समग्रम् 091a
यद्वः कार्यं तत्कुरुध्वं यथास्वमिष्टान्दारानात्मजांश्चोपभुङ्क्त 091c
अप्येवं नो ब्राह्मणाः सन्ति वृद्धा बहुश्रुताः शीलवन्तः कुलीनाः 092a
सांवत्सरा ज्योतिषि चापि युक्ता नक्षत्रयोगेषु च निश्चयज्ञाः 092c
उच्चावचं दैवयुक्तं रहस्यं दिव्याः प्रश्ना मृगचक्रा मुहूर्ताः 093a
क्षयं महान्तं कुरुसृञ्जयानां निवेदयन्ते पाण्डवानां जयं च 093c
तथा हि नो मन्यतेऽजातशत्रुः संसिद्धार्थो द्विषतां निग्रहाय 094a
जनार्दनश्चाप्यपरोक्षविद्यो न संशयं पश्यति वृष्णिसिंहः 094c
अहं च जानामि भविष्यरूपं पश्यामि बुद्ध्या स्वयमप्रमत्तः 095a
दृष्टिश्च मे न व्यथते पुराणी युध्यमाना धार्तराष्ट्रा न सन्ति 095c
अनालब्धं जृम्भति गाण्डिवं धनुरनालब्धा कम्पति मे धनुर्ज्या 096a
बाणाश्च मे तूणमुखाद्विसृज्य मुहुर्मुहुर्गन्तुमुशन्ति चैव 096c
सैक्यः कोशान्निःसरति प्रसन्नो हित्वेव जीर्णामुरगस्त्वचं स्वाम् 097a
ध्वजे वाचो रौद्ररूपा वदन्ति कदा रथो योक्ष्यते ते किरीटिन् 097c
गोमायुसङ्घाश्च वदन्ति रात्रौ रक्षांस्यथो निष्पतन्त्यन्तरिक्षात् 098a
मृगाः शृगालाः शितिकण्ठाश्च काका गृध्रा बडाश्चैव तरक्षवश्च 098c
सुपर्णपाताश्च पतन्ति पश्चाद्दृष्ट्वा रथं श्वेतहयप्रयुक्तम् 099a
अहं ह्येकः पार्थिवान्सर्वयोधाञ्शरान्वर्षन्मृत्युलोकं नयेयम् 099c
समाददानः पृथगस्त्रमार्गान्यथाग्निरिद्धो गहनं निदाघे 100a
स्थूणाकर्णं पाशुपतं च घोरं तथा ब्रह्मास्त्रं यच्च शक्रो विवेद 100c
वधे धृतो वेगवतः प्रमुञ्चन्नाहं प्रजाः किञ्चिदिवावशिष्ये 101a
शान्तिं लप्स्ये परमो ह्येष भावः स्थिरो मम ब्रूहि गावल्गणे तान् 101c
नित्यं पुनः सचिवैर्यैरवोचद्देवानपीन्द्रप्रमुखान्सहायान् 102a
तैर्मन्यते कलहं सम्प्रयुज्य स धार्तराष्ट्रः पश्यत मोहमस्य 102c
वृद्धो भीष्मः शान्तनवः कृपश्च द्रोणः सपुत्रो विदुरश्च धीमान् 103a
एते सर्वे यद्वदन्ते तदस्तु आयुष्मन्तः कुरवः सन्तु सर्वे 103c