वैशम्पायन उवाच 001
एवं सनत्सुजातेन विदुरेण च धीमता 001a
सार्धं कथयतो राज्ञः सा व्यतीयाय शर्वरी 001c
तस्यां रजन्यां व्युष्टायां राजानः सर्व एव ते 002a
सभामाविविशुर्हृष्टाः सूतस्योपदिदृक्षया 002c
शुश्रूषमाणाः पार्थानां वचो धर्मार्थसंहितम् 003a
धृतराष्ट्रमुखाः सर्वे ययू राजसभां शुभाम् 003c
सुधावदातां विस्तीर्णां कनकाजिरभूषिताम् 004a
चन्द्रप्रभां सुरुचिरां सिक्तां परमवारिणा 004c
रुचिरैरासनैः स्तीर्णां काञ्चनैर्दारवैरपि 005a
अश्मसारमयैर्दान्तैः स्वास्तीर्णैः सोत्तरच्छदैः 005c
भीष्मो द्रोणः कृपः शल्यः कृतवर्मा जयद्रथः 006a
अश्वत्थामा विकर्णश्च सोमदत्तश्च बाह्लिकः 006c
विदुरश्च महाप्राज्ञो युयुत्सुश्च महारथः 007a
सर्वे च सहिताः शूराः पार्थिवा भरतर्षभ 007c
धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां शुभाम् 007e
दुःशासनश्चित्रसेनः शकुनिश्चापि सौबलः 008a
दुर्मुखो दुःसहः कर्ण उलूकोऽथ विविंशतिः 008c
कुरुराजं पुरस्कृत्य दुर्योधनममर्षणम् 009a
विविशुस्तां सभां राजन्सुराः शक्रसदो यथा 009c
आविशद्भिस्तदा राजञ्शूरैः परिघबाहुभिः 010a
शुशुभे सा सभा राजन्सिंहैरिव गिरेर्गुहा 010c
ते प्रविश्य महेष्वासाः सभां समितिशोभनाः 011a
आसनानि महार्हाणि भेजिरे सूर्यवर्चसः 011c
आसनस्थेषु सर्वेषु तेषु राजसु भारत 012a
द्वाःस्थो निवेदयामास सूतपुत्रमुपस्थितम् 012c
अयं स रथ आयाति योऽयासीत्पाण्डवान्प्रति 013a
दूतो नस्तूर्णमायातः सैन्धवैः साधुवाहिभिः 013c
उपयाय तु स क्षिप्रं रथात्प्रस्कन्द्य कुण्डली 014a
प्रविवेश सभां पूर्णां महीपालैर्महात्मभिः 014c
सञ्जय उवाच 015
प्राप्तोऽस्मि पाण्डवान्गत्वा तद्विजानीत कौरवाः 015a
यथावयः कुरून्सर्वान्प्रतिनन्दन्ति पाण्डवाः 015c
अभिवादयन्ति वृद्धांश्च वयस्यांश्च वयस्यवत् 016a
यूनश्चाभ्यवदन्पार्थाः प्रतिपूज्य यथावयः 016c
यथाहं धृतराष्ट्रेण शिष्टः पूर्वमितो गतः 017a
अब्रुवं पाण्डवान्गत्वा तन्निबोधत पार्थिवाः 017c