सनत्सुजात उवाच 001
यत्तच्छुक्रं महज्ज्योतिर्दीप्यमानं महद्यशः 001a
तद्वै देवा उपासन्ते यस्मादर्को विराजते 001c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 001e
शुक्राद्ब्रह्म प्रभवति ब्रह्म शुक्रेण वर्धते 002a
तच्छुक्रं ज्योतिषां मध्येऽतप्तं तपति तापनम् 002c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 002e
आपोऽथ अद्भ्यः सलिलस्य मध्ये उभौ देवौ शिश्रियातेऽन्तरिक्षे 003a
स सध्रीचीः स विषूचीर्वसाना उभे बिभर्ति पृथिवीं दिवं च 003c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 003e
उभौ च देवौ पृथिवीं दिवं च दिशश्च शुक्रं भुवनं बिभर्ति 004a
तस्माद्दिशः सरितश्च स्रवन्ति तस्मात्समुद्रा विहिता महान्तः 004c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 004e
चक्रे रथस्य तिष्ठन्तं ध्रुवस्याव्ययकर्मणः 005a
केतुमन्तं वहन्त्यश्वास्तं दिव्यमजरं दिवि 005c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 005e
न सादृश्ये तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चिदेनम् 006a
मनीषयाथो मनसा हृदा च य एवं विदुरमृतास्ते भवन्ति 006c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 006e
द्वादशपूगां सरितं देवरक्षितम् 007a
मधु ईशन्तस्तदा सञ्चरन्ति घोरम् 007c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 007e
तदर्धमासं पिबति सञ्चित्य भ्रमरो मधु 008a
ईशानः सर्वभूतेषु हविर्भूतमकल्पयत् 008c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 008e
हिरण्यपर्णमश्वत्थमभिपत्य अपक्षकाः 009a
ते तत्र पक्षिणो भूत्वा प्रपतन्ति यथादिशम् 009c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 009e
पूर्णात्पूर्णान्युद्धरन्ति पूर्णात्पूर्णानि चक्रिरे 010a
हरन्ति पूर्णात्पूर्णानि पूर्णमेवावशिष्यते 010c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 010e
तस्माद्वै वायुरायातस्तस्मिंश्च प्रयतः सदा 011a
तस्मादग्निश्च सोमश्च तस्मिंश्च प्राण आततः 011c
सर्वमेव ततो विद्यात्तत्तद्वक्तुं न शक्नुमः 012a
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 012c
अपानं गिरति प्राणः प्राणं गिरति चन्द्रमाः 013a
आदित्यो गिरते चन्द्रमादित्यं गिरते परः 013c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 013e
एकं पादं नोत्क्षिपति सलिलाद्धंस उच्चरन् 014a
तं चेत्सततमृत्विजं न मृत्युर्नामृतं भवेत् 014c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 014e
एवं देवो महात्मा स पावकं पुरुषो गिरन् 015a
यो वै तं पुरुषं वेद तस्येहात्मा न रिष्यते 015c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 015e
यः सहस्रं सहस्राणां पक्षान्सन्तत्य सन्पतेत् 016a
मध्यमे मध्य आगच्छेदपि चेत्स्यान्मनोजवः 016c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 016e
न दर्शने तिष्ठति रूपमस्य पश्यन्ति चैनं सुविशुद्धसत्त्वाः 017a
हितो मनीषी मनसाभिपश्येद्ये तं श्रयेयुरमृतास्ते भवन्ति 017c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 017e
गूहन्ति सर्पा इव गह्वराणि स्वशिक्षया स्वेन वृत्तेन मर्त्याः 018a
तेषु प्रमुह्यन्ति जना विमूढा यथाध्वानं मोहयन्ते भयाय 018c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 018e
सदा सदासत्कृतः स्यान्न मृत्युरमृतं कुतः 019a
सत्यानृते सत्यसमानबन्धने सतश्च योनिरसतश्चैक एव 019c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 019e
न साधुना नोत असाधुना वा समानमेतद्दृश्यते मानुषेषु 020a
समानमेतदमृतस्य विद्यादेवंयुक्तो मधु तद्वै परीप्सेत् 020c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 020e
नास्यातिवादा हृदयं तापयन्ति नानधीतं नाहुतमग्निहोत्रम् 021a
मनो ब्राह्मीं लघुतामादधीत प्रज्ञानमस्य नाम धीरा लभन्ते 021c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् 021e
एवं यः सर्वभूतेषु आत्मानमनुपश्यति 022a
अन्यत्रान्यत्र युक्तेषु किं स शोचेत्ततः परम् 022c
यथोदपाने महति सर्वतः सम्प्लुतोदके 023a
एवं सर्वेषु वेदेषु ब्राह्मणस्य विजानतः 023c
अङ्गुष्ठमात्रः पुरुषो महात्मा न दृश्यतेऽसौ हृदये निविष्टः 024a
अजश्चरो दिवारात्रमतन्द्रितश्च स तं मत्वा कविरास्ते प्रसन्नः 024c
अहमेवास्मि वो माता पिता पुत्रोऽस्म्यहं पुनः 025a
आत्माहमपि सर्वस्य यच्च नास्ति यदस्ति च 025c
पितामहोऽस्मि स्थविरः पिता पुत्रश्च भारत 026a
ममैव यूयमात्मस्था न मे यूयं न वोऽप्यहम् 026c
आत्मैव स्थानं मम जन्म चात्मा वेदप्रोक्तोऽहमजरप्रतिष्ठः 027a
अणोरणीयान्सुमनाः सर्वभूतेषु जागृमि 028a
पितरं सर्वभूतानां पुष्करे निहितं विदुः 028c