धृतराष्ट्र उवाच 001
सनत्सुजात यदिमां परार्थां ब्राह्मीं वाचं प्रवदसि विश्वरूपाम् 001a
परां हि कामेषु सुदुर्लभां कथां तद्ब्रूहि मे वाक्यमेतत्कुमार 001c
सनत्सुजात उवाच 002
नैतद्ब्रह्म त्वरमाणेन लभ्यं यन्मां पृच्छस्यभिहृष्यस्यतीव 002a
अव्यक्तविद्यामभिधास्ये पुराणीं बुद्ध्या च तेषां ब्रह्मचर्येण सिद्धाम् 002c
धृतराष्ट्र उवाच 003
अव्यक्तविद्यामिति यत्सनातनीं ब्रवीषि त्वं ब्रह्मचर्येण सिद्धाम् 003a
अनारभ्या वसतीहार्य काले कथं ब्राह्मण्यममृतत्वं लभेत 003c
सनत्सुजात उवाच 004
येऽस्मिल्ँलोके विजयन्तीह कामान्ब्राह्मीं स्थितिमनुतितिक्षमाणाः 004a
त आत्मानं निर्हरन्तीह देहान्मुञ्जादिषीकामिव सत्त्वसंस्थाः 004c
शरीरमेतौ कुरुतः पिता माता च भारत 005a
आचार्यशास्ता या जातिः सा सत्या साजरामरा 005c
आचार्ययोनिमिह ये प्रविश्य भूत्वा गर्भं ब्रह्मचर्यं चरन्ति 006a
इहैव ते शास्त्रकारा भवन्ति प्रहाय देहं परमं यान्ति योगम् 006c
य आवृणोत्यवितथेन कर्णावृतं कुर्वन्नमृतं सम्प्रयच्छन् 007a
तं मन्येत पितरं मातरं च तस्मै न द्रुह्येत्कृतमस्य जानन् 007c
गुरुं शिष्यो नित्यमभिमन्यमानः स्वाध्यायमिच्छेच्छुचिरप्रमत्तः 008a
मानं न कुर्यान्न दधीत रोषमेष प्रथमो ब्रह्मचर्यस्य पादः 008c
आचार्यस्य प्रियं कुर्यात्प्राणैरपि धनैरपि 009a
कर्मणा मनसा वाचा द्वितीयः पाद उच्यते 009c
समा गुरौ यथा वृत्तिर्गुरुपत्न्यां तथा भवेत् 010a
यथोक्तकारी प्रियकृत्तृतीयः पाद उच्यते 010c
नाचार्यायेहोपकृत्वा प्रवादं प्राज्ञः कुर्वीत नैतदहं करोमि 011a
इतीव मन्येत न भाषयेत स वै चतुर्थो ब्रह्मचर्यस्य पादः 011c
एवं वसन्तं यदुपप्लवेद्धनमाचार्याय तदनुप्रयच्छेत् 012a
सतां वृत्तिं बहुगुणामेवमेति गुरोः पुत्रे भवति च वृत्तिरेषा 012c
एवं वसन्सर्वतो वर्धतीह बहून्पुत्राल्ँलभते च प्रतिष्ठाम् 013a
वर्षन्ति चास्मै प्रदिशो दिशश्च वसन्त्यस्मिन्ब्रह्मचर्ये जनाश्च 013c
एतेन ब्रह्मचर्येण देवा देवत्वमाप्नुवन् 014a
ऋषयश्च महाभागा ब्रह्मलोकं मनीषिणः 014c
गन्धर्वाणामनेनैव रूपमप्सरसामभूत् 015a
एतेन ब्रह्मचर्येण सूर्यो अह्नाय जायते 015c
य आशयेत्पाटयेच्चापि राजन्सर्वं शरीरं तपसा तप्यमानः 016a
एतेनासौ बाल्यमत्येति विद्वान्मृत्युं तथा रोधयत्यन्तकाले 016c
अन्तवन्तः क्षत्रिय ते जयन्ति लोकाञ्जनाः कर्मणा निर्मितेन 017a
ब्रह्मैव विद्वांस्तेन अभ्येति सर्वं नान्यः पन्था अयनाय विद्यते 017c
धृतराष्ट्र उवाच 018
आभाति शुक्लमिव लोहितमिव अथो कृष्णमथाञ्जनं काद्रवं वा 018a
तद्ब्राह्मणः पश्यति योऽत्र विद्वान्कथंरूपं तदमृतमक्षरं पदम् 018c
सनत्सुजात उवाच 019
नाभाति शुक्लमिव लोहितमिव अथो कृष्णमायसमर्कवर्णम् 019a
न पृथिव्यां तिष्ठति नान्तरिक्षे नैतत्समुद्रे सलिलं बिभर्ति 019c
न तारकासु न च विद्युदाश्रितं न चाभ्रेषु दृश्यते रूपमस्य 020a
न चापि वायौ न च देवतासु न तच्चन्द्रे दृश्यते नोत सूर्ये 020c
नैवर्क्षु तन्न यजुःषु नाप्यथर्वसु न चैव दृश्यत्यमलेषु सामसु 021a
रथन्तरे बार्हते चापि राजन्महाव्रते नैव दृश्येद्ध्रुवं तत् 021c
अपारणीयं तमसः परस्तात्तदन्तकोऽप्येति विनाशकाले 022a
अणीयरूपं क्षुरधारया तन्महच्च रूपं त्वपि पर्वतेभ्यः 022c
सा प्रतिष्ठा तदमृतं लोकास्तद्ब्रह्म तद्यशः 023a
भूतानि जज्ञिरे तस्मात्प्रलयं यान्ति तत्र च 023c
अनामयं तन्महदुद्यतं यशो वाचो विकारान्कवयो वदन्ति 024a
तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं ये तद्विदुरमृतास्ते भवन्ति 024c