धृतराष्ट्र उवाच 001
ऋचो यजूंष्यधीते यः सामवेदं च यो द्विजः 001a
पापानि कुर्वन्पापेन लिप्यते न स लिप्यते 001c
सनत्सुजात उवाच 002
नैनं सामान्यृचो वापि न यजूंषि विचक्षण 002a
त्रायन्ते कर्मणः पापान्न ते मिथ्या ब्रवीम्यहम् 002c
न छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया वर्तमानम् 003a
नीडं शकुन्ता इव जातपक्षाश्छन्दांस्येनं प्रजहत्यन्तकाले 003c
धृतराष्ट्र उवाच 004
न चेद्वेदा वेदविदं शक्तास्त्रातुं विचक्षण 004a
अथ कस्मात्प्रलापोऽयं ब्राह्मणानां सनातनः 004c
सनत्सुजात उवाच 005
अस्मिल्ँलोके तपस्तप्तं फलमन्यत्र दृश्यते 005a
ब्राह्मणानामिमे लोका ऋद्धे तपसि संयताः 005c
धृतराष्ट्र उवाच 006
कथं समृद्धमप्यृद्धं तपो भवति केवलम् 006a
सनत्सुजात तद्ब्रूहि यथा विद्याम तद्वयम् 006c
सनत्सुजात उवाच 007
क्रोधादयो द्वादश यस्य दोषास्तथा नृशंसादि षडत्र राजन् 007a
धर्मादयो द्वादश चाततानाः शास्त्रे गुणा ये विदिता द्विजानाम् 007c
क्रोधः कामो लोभमोहौ विवित्साकृपासूया मानशोकौ स्पृहा च 008a
ईर्ष्या जुगुप्सा च मनुष्यदोषा वर्ज्याः सदा द्वादशैते नरेण 008c
एकैकमेते राजेन्द्र मनुष्यान्पर्युपासते 009a
लिप्समानोऽन्तरं तेषां मृगाणामिव लुब्धकः 009c
विकत्थनः स्पृहयालुर्मनस्वी बिभ्रत्कोपं चपलोऽरक्षणश्च 010a
एते प्राप्ताः षण्नरान्पापधर्मान्प्रकुर्वते नोत सन्तः सुदुर्गे 010c
सम्भोगसंविद्द्विषमेधमानो दत्तानुतापी कृपणोऽबलीयान् 011a
वर्गप्रशंसी वनितासु द्वेष्टा एतेऽपरे सप्त नृशंसधर्माः 011c
धर्मश्च सत्यं च दमस्तपश्च अमात्सर्यं ह्रीस्तितिक्षानसूया 012a
यज्ञश्च दानं च धृतिः श्रुतं च महाव्रता द्वादश ब्राह्मणस्य 012c
यस्त्वेतेभ्यः प्रवसेद्द्वादशेभ्यः सर्वामपीमां पृथिवीं प्रशिष्यात् 013a
त्रिभिर्द्वाभ्यामेकतो वा विशिष्टो नास्य स्वमस्तीति स वेदितव्यः 013c
दमस्त्यागोऽप्रमादश्च एतेष्वमृतमाहितम् 014a
तानि सत्यमुखान्याहुर्ब्राह्मणा ये मनीषिणः 014c
दमोऽष्टादशदोषः स्यात्प्रतिकूलं कृताकृते 015a
अनृतं चाभ्यसूया च कामार्थौ च तथा स्पृहा 015c
क्रोधः शोकस्तथा तृष्णा लोभः पैशुन्यमेव च 016a
मत्सरश्च विवित्सा च परितापस्तथा रतिः 016c
अपस्मारः सातिवादस्तथा सम्भावनात्मनि 017a
एतैर्विमुक्तो दोषैर्यः स दमः सद्भिरुच्यते 017c
श्रेयांस्तु षड्विधस्त्यागः प्रियं प्राप्य न हृष्यति 018a
अप्रिये तु समुत्पन्ने व्यथां जातु न चार्च्छति 018c
इष्टान्दारांश्च पुत्रांश्च न चान्यं यद्वचो भवेत् 019a
अर्हते याचमानाय प्रदेयं तद्वचो भवेत् 019c
अप्यवाच्यं वदत्येव स तृतीयो गुणः स्मृतः 019e
त्यक्तैर्द्रव्यैर्यो भवति नोपयुङ्क्ते च कामतः 020a
न च कर्मसु तद्धीनः शिष्यबुद्धिर्नरो यथा 020c
सर्वैरेव गुणैर्युक्तो द्रव्यवानपि यो भवेत् 020e
अप्रमादोऽष्टदोषः स्यात्तान्दोषान्परिवर्जयेत् 021a
इन्द्रियेभ्यश्च पञ्चभ्यो मनसश्चैव भारत 021c
अतीतानागतेभ्यश्च मुक्तो ह्येतैः सुखी भवेत् 021e
दोषैरेतैर्विमुक्तं तु गुणैरेतैः समन्वितम् 022a
एतत्समृद्धमप्यृद्धं तपो भवति केवलम् 022c
यन्मां पृच्छसि राजेन्द्र किं भूयः श्रोतुमिच्छसि 022e
धृतराष्ट्र उवाच 023
आख्यानपञ्चमैर्वेदैर्भूयिष्ठं कथ्यते जनः 023a
तथैवान्ये चतुर्वेदास्त्रिवेदाश्च तथापरे 023c
द्विवेदाश्चैकवेदाश्च अनृचश्च तथापरे 024a
तेषां तु कतमः स स्याद्यमहं वेद ब्राह्मणम् 024c
सनत्सुजात उवाच 025
एकस्य वेदस्याज्ञानाद्वेदास्ते बहवोऽभवन् 025a
सत्यस्यैकस्य राजेन्द्र सत्ये कश्चिदवस्थितः 025c
एवं वेदमनुत्साद्य प्रज्ञां महति कुर्वते 025e
दानमध्ययनं यज्ञो लोभादेतत्प्रवर्तते 026a
सत्यात्प्रच्यवमानानां सङ्कल्पो वितथो भवेत् 026c
ततो यज्ञः प्रतायेत सत्यस्यैवावधारणात् 027a
मनसान्यस्य भवति वाचान्यस्योत कर्मणा 027c
सङ्कल्पसिद्धः पुरुषः सङ्कल्पानधितिष्ठति 027e
अनैभृत्येन वै तस्य दीक्षितव्रतमाचरेत् 028a
नामैतद्धातुनिर्वृत्तं सत्यमेव सतां परम् 028c
ज्ञानं वै नाम प्रत्यक्षं परोक्षं जायते तपः 028e
विद्याद्बहु पठन्तं तु बहुपाठीति ब्राह्मणम् 029a
तस्मात्क्षत्रिय मा मंस्था जल्पितेनैव ब्राह्मणम् 029c
य एव सत्यान्नापैति स ज्ञेयो ब्राह्मणस्त्वया 029e
छन्दांसि नाम क्षत्रिय तान्यथर्वा जगौ पुरस्तादृषिसर्ग एषः 030a
छन्दोविदस्ते य उ तानधीत्य न वेद्यवेदस्य विदुर्न वेद्यम् 030c
न वेदानां वेदिता कश्चिदस्ति कश्चिद्वेदान्बुध्यते वापि राजन् 031a
यो वेद वेदान्न स वेद वेद्यं सत्ये स्थितो यस्तु स वेद वेद्यम् 031c
अभिजानामि ब्राह्मणमाख्यातारं विचक्षणम् 032a
यश्छिन्नविचिकित्सः सन्नाचष्टे सर्वसंशयान् 032c
तस्य पर्येषणं गच्छेत्प्राचीनं नोत दक्षिणम् 033a
नार्वाचीनं कुतस्तिर्यङ्नादिशं तु कथञ्चन 033c
तूष्णीम्भूत उपासीत न चेष्टेन्मनसा अपि 034a
अभ्यावर्तेत ब्रह्मास्य अन्तरात्मनि वै श्रितम् 034c
मौनाद्धि स मुनिर्भवति नारण्यवसनान्मुनिः 035a
अक्षरं तत्तु यो वेद स मुनिः श्रेष्ठ उच्यते 035c
सर्वार्थानां व्याकरणाद्वैयाकरण उच्यते 036a
प्रत्यक्षदर्शी लोकानां सर्वदर्शी भवेन्नरः 036c
सत्ये वै ब्राह्मणस्तिष्ठन्ब्रह्म पश्यति क्षत्रिय 037a
वेदानां चानुपूर्व्येण एतद्विद्वन्ब्रवीमि ते 037c