वैशम्पायन उवाच 001
ततो राजा धृतराष्ट्रो मनीषी सम्पूज्य वाक्यं विदुरेरितं तत् 001a
सनत्सुजातं रहिते महात्मा पप्रच्छ बुद्धिं परमां बुभूषन् 001c
धृतराष्ट्र उवाच 002
सनत्सुजात यदीदं शृणोमि मृत्युर्हि नास्तीति तवोपदेशम् 002a
देवासुरा ह्याचरन्ब्रह्मचर्यममृत्यवे तत्कतरन्नु सत्यम् 002c
सनत्सुजात उवाच 003
अमृत्युः कर्मणा केचिन्मृत्युर्नास्तीति चापरे 003a
शृणु मे ब्रुवतो राजन्यथैतन्मा विशङ्किथाः 003c
उभे सत्ये क्षत्रियाद्यप्रवृत्ते मोहो मृत्युः सम्मतो यः कवीनाम् 004a
प्रमादं वै मृत्युमहं ब्रवीमि सदाप्रमादममृतत्वं ब्रवीमि 004c
प्रमादाद्वै असुराः पराभवन्नप्रमादाद्ब्रह्मभूता भवन्ति 005a
न वै मृत्युर्व्याघ्र इवात्ति जन्तून्न ह्यस्य रूपमुपलभ्यते ह 005c
यमं त्वेके मृत्युमतोऽन्यमाहुरात्मावसन्नममृतं ब्रह्मचर्यम् 006a
पितृलोके राज्यमनुशास्ति देवः शिवः शिवानामशिवोऽशिवानाम् 006c
आस्यादेष निःसरते नराणां क्रोधः प्रमादो मोहरूपश्च मृत्युः 007a
ते मोहितास्तद्वशे वर्तमाना इतः प्रेतास्तत्र पुनः पतन्ति 007c
ततस्तं देवा अनु विप्लवन्ते अतो मृत्युर्मरणाख्यामुपैति 008a
कर्मोदये कर्मफलानुरागास्तत्रानु यान्ति न तरन्ति मृत्युम् 008c
योऽभिध्यायन्नुत्पतिष्णून्निहन्यादनादरेणाप्रतिबुध्यमानः 009a
स वै मृत्युर्मृत्युरिवात्ति भूत्वा एवं विद्वान्यो विनिहन्ति कामान् 009c
कामानुसारी पुरुषः कामाननु विनश्यति 010a
कामान्व्युदस्य धुनुते यत्किञ्चित्पुरुषो रजः 010c
तमोऽप्रकाशो भूतानां नरकोऽयं प्रदृश्यते 011a
गृह्यन्त इव धावन्ति गच्छन्तः श्वभ्रमुन्मुखाः 011c
अभिध्या वै प्रथमं हन्ति चैनं कामक्रोधौ गृह्य चैनं तु पश्चात् 012a
एते बालान्मृत्यवे प्रापयन्ति धीरास्तु धैर्येण तरन्ति मृत्युम् 012c
अमन्यमानः क्षत्रिय किञ्चिदन्यन्नाधीयते तार्ण इवास्य व्याघ्रः 013a
क्रोधाल्लोभान्मोहमयान्तरात्मा स वै मृत्युस्त्वच्छरीरे य एषः 013c
एवं मृत्युं जायमानं विदित्वा ज्ञाने तिष्ठन्न बिभेतीह मृत्योः 014a
विनश्यते विषये तस्य मृत्युर्मृत्योर्यथा विषयं प्राप्य मर्त्यः 014c
धृतराष्ट्र उवाच 015
येऽस्मिन्धर्मान्नाचरन्तीह के चित्तथा धर्मान्केचिदिहाचरन्ति 015a
धर्मः पापेन प्रतिहन्यते स्म उताहो धर्मः प्रतिहन्ति पापम् 015c
सनत्सुजात उवाच 016
उभयमेव तत्रोपभुज्यते फलं धर्मस्यैवेतरस्य च 016a
धर्मेणाधर्मं प्रणुदतीह विद्वान्धर्मो बलीयानिति तस्य विद्धि 016c
धृतराष्ट्र उवाच 017
यानिमानाहुः स्वस्य धर्मस्य लोकान्द्विजातीनां पुण्यकृतां सनातनान् 017a
तेषां परिक्रमान्कथयन्तस्ततोऽन्यान्नैतद्विद्वन्नैव कृतं च कर्म 017c
सनत्सुजात उवाच 018
येषां बले न विस्पर्धा बले बलवतामिव 018a
ते ब्राह्मणा इतः प्रेत्य स्वर्गलोके प्रकाशते 018c
यत्र मन्येत भूयिष्ठं प्रावृषीव तृणोलपम् 019a
अन्नं पानं च ब्राह्मणस्तज्जीवन्नानुसञ्ज्वरेत् 019c
यत्राकथयमानस्य प्रयच्छत्यशिवं भयम् 020a
अतिरिक्तमिवाकुर्वन्स श्रेयान्नेतरो जनः 020c
यो वाकथयमानस्य आत्मानं नानुसञ्ज्वरेत् 021a
ब्रह्मस्वं नोपभुञ्जेद्वा तदन्नं सम्मतं सताम् 021c
यथा स्वं वान्तमश्नाति श्वा वै नित्यमभूतये 022a
एवं ते वान्तमश्नन्ति स्ववीर्यस्योपजीवनात् 022c
नित्यमज्ञातचर्या मे इति मन्येत ब्राह्मणः 023a
ज्ञातीनां तु वसन्मध्ये नैव विद्येत किञ्चन 023c
को ह्येवमन्तरात्मानं ब्राह्मणो हन्तुमर्हति 024a
तस्माद्धि किञ्चित्क्षत्रिय ब्रह्मावसति पश्यति 024c
अश्रान्तः स्यादनादानात्सम्मतो निरुपद्रवः 025a
शिष्टो न शिष्टवत्स स्याद्ब्राह्मणो ब्रह्मवित्कविः 025c
अनाढ्या मानुषे वित्ते आढ्या वेदेषु ये द्विजाः 026a
ते दुर्धर्षा दुष्प्रकम्प्या विद्यात्तान्ब्रह्मणस्तनुम् 026c
सर्वान्स्विष्टकृतो देवान्विद्याद्य इह कश्चन 027a
न समानो ब्राह्मणस्य यस्मिन्प्रयतते स्वयम् 027c
यमप्रयतमानं तु मानयन्ति स मानितः 028a
न मान्यमानो मन्येत नामानादभिसञ्ज्वरेत् 028c
विद्वांसो मानयन्तीह इति मन्येत मानितः 029a
अधर्मविदुषो मूढा लोकशास्त्रविशारदाः 029c
न मान्यं मानयिष्यन्ति इति मन्येदमानितः 029e
न वै मानं च मौनं च सहितौ चरतः सदा 030a
अयं हि लोको मानस्य असौ मानस्य तद्विदुः 030c
श्रीः सुखस्येह संवासः सा चापि परिपन्थिनी 031a
ब्राह्मी सुदुर्लभा श्रीर्हि प्रज्ञाहीनेन क्षत्रिय 031c
द्वाराणि तस्या हि वदन्ति सन्तो बहुप्रकाराणि दुरावराणि 032a
सत्यार्जवे ह्रीर्दमशौचविद्याः षण्मानमोहप्रतिबाधनानि 032c