धृतराष्ट्र उवाच 001
अनुक्तं यदि ते किञ्चिद्वाचा विदुर विद्यते 001a
तन्मे शुश्रूषवे ब्रूहि विचित्राणि हि भाषसे 001c
विदुर उवाच 002
धृतराष्ट्र कुमारो वै यः पुराणः सनातनः 002a
सनत्सुजातः प्रोवाच मृत्युर्नास्तीति भारत 002c
स ते गुह्यान्प्रकाशांश्च सर्वान्हृदयसंश्रयान् 003a
प्रवक्ष्यति महाराज सर्वबुद्धिमतां वरः 003c
धृतराष्ट्र उवाच 004
किं त्वं न वेद तद्भूयो यन्मे ब्रूयात्सनातनः 004a
त्वमेव विदुर ब्रूहि प्रज्ञाशेषोऽस्ति चेत्तव 004c
विदुर उवाच 005
शूद्रयोनावहं जातो नातोऽन्यद्वक्तुमुत्सहे 005a
कुमारस्य तु या बुद्धिर्वेद तां शाश्वतीमहम् 005c
ब्राह्मीं हि योनिमापन्नः सुगुह्यमपि यो वदेत् 006a
न तेन गर्ह्यो देवानां तस्मादेतद्ब्रवीमि ते 006c
धृतराष्ट्र उवाच 007
ब्रवीहि विदुर त्वं मे पुराणं तं सनातनम् 007a
कथमेतेन देहेन स्यादिहैव समागमः 007c
वैशम्पायन उवाच 008
चिन्तयामास विदुरस्तमृषिं संशितव्रतम् 008a
स च तच्चिन्तितं ज्ञात्वा दर्शयामास भारत 008c
स चैनं प्रतिजग्राह विधिदृष्टेन कर्मणा 009a
सुखोपविष्टं विश्रान्तमथैनं विदुरोऽब्रवीत् 009c
भगवन्संशयः कश्चिद्धृतराष्ट्रस्य मानसे 010a
यो न शक्यो मया वक्तुं तमस्मै वक्तुमर्हसि 010c
यं श्रुत्वायं मनुष्येन्द्रः सुखदुःखातिगो भवेत् 010e
लाभालाभौ प्रियद्वेष्यौ यथैनं न जरान्तकौ 011a
विषहेरन्भयामर्षौ क्षुत्पिपासे मदोद्भवौ 011c
अरतिश्चैव तन्द्री च कामक्रोधौ क्षयोदयौ 011e