विदुर उवाच 001
योऽभ्यर्थितः सद्भिरसज्जमानः करोत्यर्थं शक्तिमहापयित्वा 001a
क्षिप्रं यशस्तं समुपैति सन्तमलं प्रसन्ना हि सुखाय सन्तः 001c
महान्तमप्यर्थमधर्मयुक्तं यः सन्त्यजत्यनुपाक्रुष्ट एव 002a
सुखं स दुःखान्यवमुच्य शेते जीर्णां त्वचं सर्प इवावमुच्य 002c
अनृतं च समुत्कर्षे राजगामि च पैशुनम् 003a
गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया 003c
असूयैकपदं मृत्युरतिवादः श्रियो वधः 004a
अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रयः 004c
सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम् 005a
सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा सुखं त्यजेत् 005c
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः 006a
नान्तकः सर्वभूतानां न पुंसां वामलोचना 006c
आशा धृतिं हन्ति समृद्धिमन्तकः क्रोधः श्रियं हन्ति यशः कदर्यता 007a
अपालनं हन्ति पशूंश्च राजन्नेकः क्रुद्धो ब्राह्मणो हन्ति राष्ट्रम् 007c
अजश्च कांस्यं च रथश्च नित्यं मध्वाकर्षः शकुनिः श्रोत्रियश्च 008a
वृद्धो ज्ञातिरवसन्नो वयस्य एतानि ते सन्तु गृहे सदैव 008c
अजोक्षा चन्दनं वीणा आदर्शो मधुसर्पिषी 009a
विषमौदुम्बरं शङ्खः स्वर्णं नाभिश्च रोचना 009c
गृहे स्थापयितव्यानि धन्यानि मनुरब्रवीत् 010a
देवब्राह्मणपूजार्थमतिथीनां च भारत 010c
इदं च त्वां सर्वपरं ब्रवीमि पुण्यं पदं तात महाविशिष्टम् 011a
न जातु कामान्न भयान्न लोभाद्धर्मं त्यजेज्जीवितस्यापि हेतोः 011c
नित्यो धर्मः सुखदुःखे त्वनित्ये नित्यो जीवो धातुरस्य त्वनित्यः 012a
त्यक्त्वानित्यं प्रतितिष्ठस्व नित्ये सन्तुष्य त्वं तोषपरो हि लाभः 012c
महाबलान्पश्य महानुभावान्प्रशास्य भूमिं धनधान्यपूर्णाम् 013a
राज्यानि हित्वा विपुलांश्च भोगान्गतान्नरेन्द्रान्वशमन्तकस्य 013c
मृतं पुत्रं दुःखपुष्टं मनुष्या उत्क्षिप्य राजन्स्वगृहान्निर्हरन्ति 014a
तं मुक्तकेशाः करुणं रुदन्तश्चितामध्ये काष्ठमिव क्षिपन्ति 014c
अन्यो धनं प्रेतगतस्य भुङ्क्ते वयांसि चाग्निश्च शरीरधातून् 015a
द्वाभ्यामयं सह गच्छत्यमुत्र पुण्येन पापेन च वेष्ट्यमानः 015c
उत्सृज्य विनिवर्तन्ते ज्ञातयः सुहृदः सुताः 016a
अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयङ्कृतम् 016c
अस्माल्लोकादूर्ध्वममुष्य चाधो महत्तमस्तिष्ठति ह्यन्धकारम् 017a
तद्वै महामोहनमिन्द्रियाणां बुध्यस्व मा त्वां प्रलभेत राजन् 017c
इदं वचः शक्ष्यसि चेद्यथावन्निशम्य सर्वं प्रतिपत्तुमेवम् 018a
यशः परं प्राप्स्यसि जीवलोके भयं न चामुत्र न चेह तेऽस्ति 018c
आत्मा नदी भारत पुण्यतीर्था सत्योदका धृतिकूला दमोर्मिः 019a
तस्यां स्नातः पूयते पुण्यकर्मा पुण्यो ह्यात्मा नित्यमम्भोऽम्भ एव 019c
कामक्रोधग्राहवतीं पञ्चेन्द्रियजलां नदीम् 020a
कृत्वा धृतिमयीं नावं जन्मदुर्गाणि सन्तर 020c
प्रज्ञावृद्धं धर्मवृद्धं स्वबन्धुं विद्यावृद्धं वयसा चापि वृद्धम् 021a
कार्याकार्ये पूजयित्वा प्रसाद्य यः सम्पृच्छेन्न स मुह्येत्कदाचित् 021c
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा 022a
चक्षुःश्रोत्रे च मनसा मनो वाचं च कर्मणा 022c
नित्योदकी नित्ययज्ञोपवीती नित्यस्वाध्यायी पतितान्नवर्जी 023a
ऋतं ब्रुवन्गुरवे कर्म कुर्वन्न ब्राह्मणश्च्यवते ब्रह्मलोकात् 023c
अधीत्य वेदान्परिसंस्तीर्य चाग्नीनिष्ट्वा यज्ञैः पालयित्वा प्रजाश्च 024a
गोब्राह्मणार्थे शस्त्रपूतान्तरात्मा हतः सङ्ग्रामे क्षत्रियः स्वर्गमेति 024c
वैश्योऽधीत्य ब्राह्मणान्क्षत्रियांश्च धनैः काले संविभज्याश्रितांश्च 025a
त्रेतापूतं धूममाघ्राय पुण्यं प्रेत्य स्वर्गे देवसुखानि भुङ्क्ते 025c
ब्रह्मक्षत्रं वैश्यवर्णं च शूद्रः क्रमेणैतान्न्यायतः पूजयानः 026a
तुष्टेष्वेतेष्वव्यथो दग्धपापस्त्यक्त्वा देहं स्वर्गसुखानि भुङ्क्ते 026c
चातुर्वर्ण्यस्यैष धर्मस्तवोक्तो हेतुं चात्र ब्रुवतो मे निबोध 027a
क्षात्राद्धर्माद्धीयते पाण्डुपुत्रस्तं त्वं राजन्राजधर्मे नियुङ्क्ष्व 027c
धृतराष्ट्र उवाच 028
एवमेतद्यथा मां त्वमनुशाससि नित्यदा 028a
ममापि च मतिः सौम्य भवत्येवं यथात्थ माम् 028c
सा तु बुद्धिः कृताप्येवं पाण्डवान्प्रति मे सदा 029a
दुर्योधनं समासाद्य पुनर्विपरिवर्तते 029c
न दिष्टमभ्यतिक्रान्तुं शक्यं मर्त्येन केनचित् 030a
दिष्टमेव कृतं मन्ये पौरुषं तु निरर्थकम् 030c