धृतराष्ट्र उवाच 001
अनीश्वरोऽयं पुरुषो भवाभवे सूत्रप्रोता दारुमयीव योषा 001a
धात्रा तु दिष्टस्य वशे किलायं तस्माद्वद त्वं श्रवणे धृतोऽहम् 001c
विदुर उवाच 002
अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् 002a
लभते बुद्ध्यवज्ञानमवमानं च भारत 002c
प्रियो भवति दानेन प्रियवादेन चापरः 003a
मन्त्रं मूलबलेनान्यो यः प्रियः प्रिय एव सः 003c
द्वेष्यो न साधुर्भवति न मेधावी न पण्डितः 004a
प्रिये शुभानि कर्माणि द्वेष्ये पापानि भारत 004c
न स क्षयो महाराज यः क्षयो वृद्धिमावहेत् 005a
क्षयः स त्विह मन्तव्यो यं लब्ध्वा बहु नाशयेत् 005c
समृद्धा गुणतः केचिद्भवन्ति धनतोऽपरे 006a
धनवृद्धान्गुणैर्हीनान्धृतराष्ट्र विवर्जयेत् 006c
धृतराष्ट्र उवाच 007
सर्वं त्वमायतीयुक्तं भाषसे प्राज्ञसम्मतम् 007a
न चोत्सहे सुतं त्यक्तुं यतो धर्मस्ततो जयः 007c
विदुर उवाच 008
स्वभावगुणसम्पन्नो न जातु विनयान्वितः 008a
सुसूक्ष्ममपि भूतानामुपमर्दं प्रयोक्ष्यते 008c
परापवादनिरताः परदुःखोदयेषु च 009a
परस्परविरोधे च यतन्ते सततोत्थिताः 009c
सदोषं दर्शनं येषां संवासे सुमहद्भयम् 010a
अर्थादाने महान्दोषः प्रदाने च महद्भयम् 010c
ये पापा इति विख्याताः संवासे परिगर्हिताः 011a
युक्ताश्चान्यैर्महादोषैर्ये नरास्तान्विवर्जयेत् 011c
निवर्तमाने सौहार्दे प्रीतिर्नीचे प्रणश्यति 012a
या चैव फलनिर्वृत्तिः सौहृदे चैव यत्सुखम् 012c
यतते चापवादाय यत्नमारभते क्षये 013a
अल्पेऽप्यपकृते मोहान्न शान्तिमुपगच्छति 013c
तादृशैः सङ्गतं नीचैर्नृशंसैरकृतात्मभिः 014a
निशाम्य निपुणं बुद्ध्या विद्वान्दूराद्विवर्जयेत् 014c
यो ज्ञातिमनुगृह्णाति दरिद्रं दीनमातुरम् 015a
स पुत्रपशुभिर्वृद्धिं यशश्चाव्ययमश्नुते 015c
ज्ञातयो वर्धनीयास्तैर्य इच्छन्त्यात्मनः शुभम् 016a
कुलवृद्धिं च राजेन्द्र तस्मात्साधु समाचर 016c
श्रेयसा योक्ष्यसे राजन्कुर्वाणो ज्ञातिसत्क्रियाम् 017a
विगुणा ह्यपि संरक्ष्या ज्ञातयो भरतर्षभ 017c
किं पुनर्गुणवन्तस्ते त्वत्प्रसादाभिकाङ्क्षिणः 018a
प्रसादं कुरु दीनानां पाण्डवानां विशां पते 018c
दीयन्तां ग्रामकाः केचित्तेषां वृत्त्यर्थमीश्वर 019a
एवं लोके यशःप्राप्तो भविष्यसि नराधिप 019c
वृद्धेन हि त्वया कार्यं पुत्राणां तात रक्षणम् 020a
मया चापि हितं वाच्यं विद्धि मां त्वद्धितैषिणम् 020c
ज्ञातिभिर्विग्रहस्तात न कर्तव्यो भवार्थिना 021a
सुखानि सह भोज्यानि ज्ञातिभिर्भरतर्षभ 021c
सम्भोजनं सङ्कथनं सम्प्रीतिश्च परस्परम् 022a
ज्ञातिभिः सह कार्याणि न विरोधः कथञ्चन 022c
ज्ञातयस्तारयन्तीह ज्ञातयो मज्जयन्ति च 023a
सुवृत्तास्तारयन्तीह दुर्वृत्ता मज्जयन्ति च 023c
सुवृत्तो भव राजेन्द्र पाण्डवान्प्रति मानद 024a
अधर्षणीयः शत्रूणां तैर्वृतस्त्वं भविष्यसि 024c
श्रीमन्तं ज्ञातिमासाद्य यो ज्ञातिरवसीदति 025a
दिग्धहस्तं मृग इव स एनस्तस्य विन्दति 025c
पश्चादपि नरश्रेष्ठ तव तापो भविष्यति 026a
तान्वा हतान्सुतान्वापि श्रुत्वा तदनुचिन्तय 026c
येन खट्वां समारूढः परितप्येत कर्मणा 027a
आदावेव न तत्कुर्यादध्रुवे जीविते सति 027c
न कश्चिन्नापनयते पुमानन्यत्र भार्गवात् 028a
शेषसम्प्रतिपत्तिस्तु बुद्धिमत्स्वेव तिष्ठति 028c
दुर्योधनेन यद्येतत्पापं तेषु पुरा कृतम् 029a
त्वया तत्कुलवृद्धेन प्रत्यानेयं नरेश्वर 029c
तांस्त्वं पदे प्रतिष्ठाप्य लोके विगतकल्मषः 030a
भविष्यसि नरश्रेष्ठ पूजनीयो मनीषिणाम् 030c
सुव्याहृतानि धीराणां फलतः प्रविचिन्त्य यः 031a
अध्यवस्यति कार्येषु चिरं यशसि तिष्ठति 031c
अवृत्तिं विनयो हन्ति हन्त्यनर्थं पराक्रमः 032a
हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणम् 032c
परिच्छदेन क्षेत्रेण वेश्मना परिचर्यया 033a
परीक्षेत कुलं राजन्भोजनाच्छादनेन च 033c
ययोश्चित्तेन वा चित्तं नैभृतं नैभृतेन वा 034a
समेति प्रज्ञया प्रज्ञा तयोर्मैत्री न जीर्यते 034c
दुर्बुद्धिमकृतप्रज्ञं छन्नं कूपं तृणैरिव 035a
विवर्जयीत मेधावी तस्मिन्मैत्री प्रणश्यति 035c
अवलिप्तेषु मूर्खेषु रौद्रसाहसिकेषु च 036a
तथैवापेतधर्मेषु न मैत्रीमाचरेद्बुधः 036c
कृतज्ञं धार्मिकं सत्यमक्षुद्रं दृढभक्तिकम् 037a
जितेन्द्रियं स्थितं स्थित्यां मित्रमत्यागि चेष्यते 037c
इन्द्रियाणामनुत्सर्गो मृत्युना न विशिष्यते 038a
अत्यर्थं पुनरुत्सर्गः सादयेद्दैवतान्यपि 038c
मार्दवं सर्वभूतानामनसूया क्षमा धृतिः 039a
आयुष्याणि बुधाः प्राहुर्मित्राणां चाविमानना 039c
अपनीतं सुनीतेन योऽर्थं प्रत्यानिनीषते 040a
मतिमास्थाय सुदृढां तदकापुरुषव्रतम् 040c
आयत्यां प्रतिकारज्ञस्तदात्वे दृढनिश्चयः 041a
अतीते कार्यशेषज्ञो नरोऽर्थैर्न प्रहीयते 041c
कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते 042a
तदेवापहरत्येनं तस्मात्कल्याणमाचरेत् 042c
मङ्गलालम्भनं योगः श्रुतमुत्थानमार्जवम् 043a
भूतिमेतानि कुर्वन्ति सतां चाभीक्ष्णदर्शनम् 043c
अनिर्वेदः श्रियो मूलं दुःखनाशे सुखस्य च 044a
महान्भवत्यनिर्विण्णः सुखं चात्यन्तमश्नुते 044c
नातः श्रीमत्तरं किञ्चिदन्यत्पथ्यतमं तथा 045a
प्रभविष्णोर्यथा तात क्षमा सर्वत्र सर्वदा 045c
क्षमेदशक्तः सर्वस्य शक्तिमान्धर्मकारणात् 046a
अर्थानर्थौ समौ यस्य तस्य नित्यं क्षमा हिता 046c
यत्सुखं सेवमानोऽपि धर्मार्थाभ्यां न हीयते 047a
कामं तदुपसेवेत न मूढव्रतमाचरेत् 047c
दुःखार्तेषु प्रमत्तेषु नास्तिकेष्वलसेषु च 048a
न श्रीर्वसत्यदान्तेषु ये चोत्साहविवर्जिताः 048c
आर्जवेन नरं युक्तमार्जवात्सव्यपत्रपम् 049a
अशक्तिमन्तं मन्यन्तो धर्षयन्ति कुबुद्धयः 049c
अत्यार्यमतिदातारमतिशूरमतिव्रतम् 050a
प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति 050c
अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम् 051a
रतिपुत्रफला दारा दत्तभुक्तफलं धनम् 051c
अधर्मोपार्जितैरर्थैर्यः करोत्यौर्ध्वदेहिकम् 052a
न स तस्य फलं प्रेत्य भुङ्क्तेऽर्थस्य दुरागमात् 052c
कान्तारवनदुर्गेषु कृच्छ्रास्वापत्सु सम्भ्रमे 053a
उद्यतेषु च शस्त्रेषु नास्ति शेषवतां भयम् 053c
उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः 054a
समीक्ष्य च समारम्भो विद्धि मूलं भवस्य तत् 054c
तपो बलं तापसानां ब्रह्म ब्रह्मविदां बलम् 055a
हिंसा बलमसाधूनां क्षमा गुणवतां बलम् 055c
अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः 056a
हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम् 056c
न तत्परस्य सन्दध्यात्प्रतिकूलं यदात्मनः 057a
सङ्ग्रहेणैष धर्मः स्यात्कामादन्यः प्रवर्तते 057c
अक्रोधेन जयेत्क्रोधमसाधुं साधुना जयेत् 058a
जयेत्कदर्यं दानेन जयेत्सत्येन चानृतम् 058c
स्त्रीधूर्तकेऽलसे भीरौ चण्डे पुरुषमानिनि 059a
चौरे कृतघ्ने विश्वासो न कार्यो न च नास्तिके 059c
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः 060a
चत्वारि सम्प्रवर्धन्ते कीर्तिरायुर्यशोबलम् 060c
अतिक्लेशेन येऽर्थाः स्युर्धर्मस्यातिक्रमेण च 061a
अरेर्वा प्रणिपातेन मा स्म तेषु मनः कृथाः 061c
अविद्यः पुरुषः शोच्यः शोच्यं मिथुनमप्रजम् 062a
निराहाराः प्रजाः शोच्याः शोच्यं राष्ट्रमराजकम् 062c
अध्वा जरा देहवतां पर्वतानां जलं जरा 063a
असम्भोगो जरा स्त्रीणां वाक्शल्यं मनसो जरा 063c
अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम् 064a
कौतूहलमला साध्वी विप्रवासमलाः स्त्रियः 064c
सुवर्णस्य मलं रूप्यं रूप्यस्यापि मलं त्रपु 065a
ज्ञेयं त्रपुमलं सीसं सीसस्यापि मलं मलम् 065c
न स्वप्नेन जयेन्निद्रां न कामेन स्त्रियं जयेत् 066a
नेन्धनेन जयेदग्निं न पानेन सुरां जयेत् 066c
यस्य दानजितं मित्रममित्रा युधि निर्जिताः 067a
अन्नपानजिता दाराः सफलं तस्य जीवितम् 067c
सहस्रिणोऽपि जीवन्ति जीवन्ति शतिनस्तथा 068a
धृतराष्ट्रं विमुञ्चेच्छां न कथञ्चिन्न जीव्यते 068c
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः 069a
नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति 069c
राजन्भूयो ब्रवीमि त्वां पुत्रेषु सममाचर 070a
समता यदि ते राजन्स्वेषु पाण्डुसुतेषु च 070c